43079: पितुर्यच्च¶
Padacheda: पितुः | S | 5 | 1 |
यत् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix यत् and ठञ् comes in the sense of ‘come thence’ after the word पितृ।
Vasu English Translation¶
The affix यत् and ठञ् comes in the sense of ‘come thence’ after the word पितृ। Thus पितुरागतं = पैतृकं or पित्र्यम् (7.4.27) and (6.4.148) ‘paternal – i.e. wealth inherited from father.’
Kashika¶
पितृशब्दाद् यत् प्रत्ययो भवति, चकाराट् ठञ् च तत आगत इत्येतस्मिन् विषये। पितुरागतं पित्र्यम्। पैतृकम्॥
Siddhanta Kaumudi¶
चाट्ठञ् । रीङ् ऋतः- (SK1234) । यस्य-(SK311)इति लोपः । पित्र्यम् । पैतृकम् ॥
Balamanorama¶
पितुर्यच्च - पुतुर्यच्च । यति प्रक्रियां दर्शयति — रीञ्ङृत इति ।
Nyaas¶
पित्र्यम् इति। रीङ ऋतः (7.4.27) इत रीङ, यस्यति (6.4.148) लोपः॥
Prakriyasarvasvam¶
ठञ्च स्यात् । रीङि यस्येति लोपः । पित्र्यम् । ठञि पैतृकम् ॥
Sutra Prayogas¶
पित्र्यम् (रघुवंशम्): पितुर्यत् इति यत्प्रत्ययः।
पैतृकं (भट्टिकाव्यम्): पितुर्यच्च इति चकारादृतष्ठजि इसुसुक्तान्तात्कः।