43080: गोत्रादङ्कवत्

Padacheda: गोत्रात् | S | 5 | 1 |

अङ्कवत् | S | 0 | 0 |

Sutrartha


Vasu English Summary

After a word ending with a Patronymic affix the rule of affix in the sense of ‘thence come’ is like that relating to the affix denoting its mark.

Vasu English Translation

After a word ending with a Patronymic affix the rule of affix in the sense of ‘thence come’ is like that relating to the affix denoting its mark. The word गोत्र in the sutra does not mean the technical Gotra of Grammar, but a descendant-denoting affix in general. The affixes denoting अङ्क are taught in (4.3.126) and (4.3.127). The affix वुञ् of (4.3.126) which comes after Gotra words, in the sense of ‘this is his,’ is refered to in this sutra, not merely the affix अण् of (4.3.127), denoting, ‘this is his mark’.

Thus औपगवानामङ्कः = औपगवकः ‘the mark belonging to the descendants of Upagu.’ So also कापटवकः, नाडायनकः, चारायणकः ॥ The same words will also denote ‘come there from’ as औपगवेभ्य आगतम् = औपगवकम्, कापटवकम्, नाडायनकम्, चारायणकम् (formed by वुञ् (4.3.126)).

Similarly बैदः, गार्गः, दाक्षः formed by अण् of (4.3.127) mean not only ‘the mark belonging to the Vaidas, the Gargyas, the Dakshis,’ but also that which comes from the Vaidas &c. The word यत् has the force of ‘complete similarity,’ as in कालेभ्यो भववत् (4.2.34), चरणेभ्यो धर्मवत् (4.2.46).

Kashika

अपत्याधिकारादन्यत्र लौकिकं गोत्रमपत्यमात्रं गृह्यते। गोत्रप्रत्ययान्तात् प्रातिपदिकादङ्कवत् प्रत्ययविधिर्भवति तत आगत इत्येतस्मिन् विषये। अङ्कग्रहणेन तस्येदमर्थसामान्यं लक्ष्यते। तस्माद् वुञप्यतिदिश्यते नाणेव सङ्घाङ्कलक्षणेष्वञ्यञिञामण् (४.३.१२७) इति। औपगवानामङ्कः औपगवकः। कापटवकः। नाडायनकः। चारायणकः। एवमौपगवेभ्य आगतम्, औपगवकम्। कापटवकम्। नाडायनकम्। चारायणकम्॥

Siddhanta Kaumudi

बिदेभ्य आगतं बैदम् । गार्गम् । दाक्षम् । औपगवकम् ॥

Balamanorama

गोत्रादङ्कवत् - गोत्रादङ्कवत् । अङ्के ये प्रत्ययास्ते तत आगत इत्यर्थेऽपि भवन्तीत्यर्थः । बिदेभ्य आगतमिति । विग्रहप्रदर्शनम् । अत्रयञञोश्चे॑ति बहुत्वे अञो लुकि ‘बिदेभ्य’ इति निर्देशः । बैदमिति ।सङ्घाङ्कलक्षणेष्वञ्यञिञाम॑णित्युक्तरञन्तादिहाप्यर्थे अणि विवक्षितेगोत्रेऽलुगची॑त्यञो लुङ्निवृत्तौ बैदशब्दादण् ।द्व्यजृद्ब्राआहृणे॑ति द्व्यज्लक्षणस्य ठकोऽपवादः । गार्गमिति । यञन्तादण् । दाक्षमिति । इञन्तादण् । औपगवकमिति । उपगोरपत्यमौपगवः, तस्मादागतमित्यर्थः ।गोत्रचरणाद्व]ञिति वुञ् । यद्यपि तस्येदमित्यर्थे अयं वुञ्विहितः, तथाप्यञ्यञिञन्तादङ्केऽपि स दृष्ट इति तस्याप्यत्रार्थे अतिदेशो भवति । न हिसङ्घाङ्के॑ति प्रतिपदोक्तस्याऽण एवात्राऽतिदेशः, किं तु अङ्के दृष्टस्य सर्वस्यापि, व्याख्यानादिति भावः ।

Tattvabodhini

गोत्रादङ्कवत् - गोत्रादङ्कवत् ।अपत्याधिकारादन्यत्र लौकिकं गोत्र॑मित्युक्तम् । अपत्यप्रत्ययान्तात्तत आगतः॑इत्यस्मिन्नर्थे अङ्कवत्प्रत्ययाः स्युः । अङ्के दृष्टस्य सर्वस्यायमतिदेशो, न तु साक्षाद्विहितस्यैवेत्याग्रहः, तेनगोत्रचरणाद्वु॑ञिति वुञपि लभ्यते । स हितस्येद॑मिति सामान्येन विधीयमानोऽपि अञ्यञिञन्तादन्यत्र अङ्केऽपि दृष्टः । वेदमित्यादि । सङ्घाङ्के॑त्यादिना अङ्कार्थेऽण्विहित इतीहाप्यञ्यञिञन्तादण् । औपगवकमिति ।गोत्रचरणा॑दिति वुञ् । अङ्के दृष्ट इतीहाप्यण्णन्ताद्वुञ् ।

Padamanjari

ऋङ्गग्रहणेन तस्येदमित्यर्थसामान्यं लक्ष्यत इति । कथं मुख्ये सम्भवति लक्षणाश्रीयते ? व्याख्यानमत्र शरणम् । अपर आह - अङ्के यद् दृष्ट्ंअ तदतिदिश्यते, न त्वङ्क आहत्य विहितम् ।’गोत्रचरणाद् वुञ्’ इत्ययमपि वुञ् तस्येदमिति सामान्ये विहितोऽप्यञादिव्यतिरिक्ते विषयेऽङ्केऽपि दृष्ट इति तस्याप्यतिदेश इति । औपगवकमिति । वुञ उदाहरणम् । अणस्तु - वैदम्, गार्ग्यम्, दाक्षमिति । वतिः सर्वसादृश्यार्थः,’कालेभ्यो भववत्’ ,’चरणेभ्यो धर्मवत्’ इति यथा ॥

Nyaas

यदि गोत्रादङ्कवत्प्रत्ययविधिर्भवतीत्युच्यतेऽण एवातिदेशः प्राप्नोति, न वुञः। यस्मादण्विधावेवाङ्गग्रहणमस्ति। सङ्घाङ्कलक्षण (4.3.127) इत्यादौ सूत्रेण वुञ्विधौ गोत्रचरणाद्वुञ् (4.3.126) इत्यत्र? इत्याह - अङ्कग्रहणेन् इत्यादि। यथा काकेभ्यो दधि रक्ष्यतामित्यत्र काकग्रहणमुपधातसामान्यस्योपलक्षणम्, एवमिहाप्यङ्कग्रहणं तस्येदम् (4.3.120) इत्यस्य। तेनायं सूत्रार्थो भवति - यथा तस्येदम् (4.3.120) इत्यत्र प्रत्ययो भवति, तथा तत आगतः (4.3.74) इत्यत्रापि। तेन वुञोऽप्यतिदेश उपपद्यते। नन्वेवमप्यणोऽतिदेशो न प्राप्नोति, न हि तद्विधौ गोत्रग्रहणमस्ति? पूर्वसूत्राद्गोत्रग्रहणमनुवर्तत इत्यदोषः। सङ्घाङ्कलक्षण (4.3.127) #एइत्यादिना येन सूत्रेणाण् विहितस्तद्दर्शयति॥

Prakriyasarvasvam

<karika>तस्येदमर्थे सङ्काङ्कलक्षणेष्विति वर्णनात् । अङ्कशब्देन तस्येदमर्थ एवात्र लक्ष्यते ॥ २५३ ॥</karika> <karika>तत्र गोत्राद् वुञादिः स्यात् तद्वदेवागते भवेत् । ततश्चौपगवात् प्राप्तं स्यादौपगवकं धनम् ॥ २५४ ॥</karika>