43078: ऋतष्ठञ्¶
Padacheda: ऋतः | S | 5 | 1 |
ठञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ठञ् comes in the sense of ‘come thence’ after a word ending in short ऋ and denoting a person related through learning or blood.
Vasu English Translation¶
The affix ठञ् comes in the sense of ‘come thence’ after a word ending in short ऋ and denoting a person related through learning or blood. This debars वुञ् ॥ Thus होतुरागतम् = हौतृकम् ‘derived from Hotri.’ पौतृकम् ॥ So also of ‘blood,’ as:- भ्रातृकम्, स्वासृकम्, मातृकम् ॥
The त् in ऋत् is for the sake of facility of pronunciation, there being no such word ending in long ॠ ॥
When the words do not denote relationship through learning or blood, this affix is not employed. As, सावित्रम् ॥
Kashika¶
विद्यायोनिसंबन्धेभ्य इत्येव। ऋकारान्तेभ्यः प्रातिपदिकेभ्यो विद्यायोनिसंबन्धवाचिभ्यष्ठञ् प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। वुञोऽपवादः। विद्यासंबन्धवाचिभ्यस्तावत् — होतुरागतं हौतृकम्। पौतृकम्। योनिसंबन्धवाचिभ्यः — भ्रातृकम्। स्वासृकम्। मातृकम्। तपरकरणं मुखसुखार्थम्। विद्यायोनिभ्यामन्यत्र सावित्रम्॥
Siddhanta Kaumudi¶
वुञोऽपवादः । पैतृकम् । भ्रातृकम् ॥
Balamanorama¶
ऋतष्ठञ् - ऋतष्ठञ् । ऋदन्ताद्विद्यायोनिसम्बन्धवाचिन इत्यर्थः । तत आगत इत्येव । हौतृकं भ्रातृकमिति। उकः परत्वाट्ठस्य कः ।
Tattvabodhini¶
ऋतष्ठञ् - ऋतष्ठञ् । ‘विद्यायोनिसम्बन्धेभ्यः’ इति वर्तते। तदाह- वुञोऽपवाद इति। ‘उष्कञ्’ इति वक्तव्ये तपरकरणं ठञ्ग्रहणं च चिन्त्यप्रयोजनमिति प्राञ्चः । पैतृकी विद्येत्यत्र ङीबर्थं ठञ्ग्रहणमिति तु तत्त्वम् । न च टिड्ढेति सूत्रे कञ्ग्रहणान्ङीप्सिध्यतीति वाच्यं, यादृशी, तादृशीत्याद्यसिद्धेः । तदनुबन्धकग्रहणेनाऽतदनुबन्धकस्याग्रहणात्, ‘त्यदादिषु दृशः’ इति कञो द्व्यनुबन्धकत्वात् । तपरकरणं विहाय ‘उष्ठञ्’ इत्येव सुवचमित्याहुः ।
Padamanjari¶
एषूदाहरणेषु ‘इसुसुक्तान्तात्कः’। एवं च प्रक्रियालाघवाय कञेवायं विधेयः, तथा तु न कृतमित्येव॥
Nyaas¶
‘तपरकरणं मुखसुखार्थम्’ इति। अथ दीर्घनिवृत्त्यर्थं कस्मान्न भवति? असम्भवात्। न हि विद्यायोनिसम्बन्धिषु किञ्चिदृकारान्तं प्रातिपदिकमस्ति यन्निवृत्त्यर्थस्तकारः स्यात्॥
Prakriyasarvasvam¶
<karika>विद्यायोनिजसम्बन्धवचनाट्ठञ् दन्ततः । हौतृकं होतुरायातं मातृकं स्वासृकं तथा ॥ २५२ ॥</karika>
Sutra Prayogas¶
पैतृकं (रघुवंशम्): ऋतष्ठञ् इति ठञ्प्रत्ययः।
मातृकम् (रघुवंशम्): ऋतष्ठञ् इति ठञ्प्रत्ययः।
पैतृकम् (रघुवंशम्): ऋतष्ठञ् इति ठञ्प्रत्ययः।