43066: तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः

Padacheda: तस्य | S | 6 | 1 |

व्याख्याने | S | 7 | 1 |

इति | S | 0 | 0 |

च | S | 0 | 0 |

व्याख्यातव्य-नाम्नः | S | 5 | 1 |

Sutrartha


Vasu English Summary

After the name of a subject of commentary an affix comes in the sense of ‘its commentary’, as well as in the sense of ‘what occurs there’.

Vasu English Translation

After the name of a subject of commentary an affix comes in the sense of ‘its commentary’, as well as in the sense of ‘what occurs there’. That by which a thing is explained is called व्याख्यान or ‘commentary’. The name of a thing explainable is called व्याख्यातव्यनाम ॥ After such a name, being in the 6th case in construction, the affix is added. The affix means तस्यव्याख्यानं as well as तत्रभव, the latter being read into the sutra by virtue of च ॥

Thus सुपां व्याख्यानः = सौपो ग्रन्थः ‘Saupa, a book on the explanation of case-affixes’. So also ‘Tainga– a Commentary on Verbal affixes’ कार्तः ‘Karta– a Commentary on krit affixes’. सौप &c. may also mean सुप्सु भवं &c.

Why do we say व्याख्यातव्यनाम्नः ‘after the name of the thing explainable’? The thing to be explained must be a Book, therefore, the affix will not apply to the name of a city &c. For example, if a model be made to describe the city of Pataliputra, such a model will not be named after Pataliputra by the addition of affix. Thus सुकोशला is a modal giving a description of Pataliputra. This will not be called Pataliputram.

The anuvritti of भव and व्याख्यान runs simultaneosly in all the subsequent apavada sutras, and hence we have read the anuvritti of भव into this sutra also.

Bhashya

तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः (1636) (व्याख्यानार्थाधिकरणम्) (वार्तिकावतरणभाष्यम्) किमर्थं भवव्याख्यानयोर्युगपदधिकारः क्रियते? (5487 सूत्रप्रयोजनवार्तिकम् ॥ 1 ॥) - भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः - (भाष्यम्) भवव्याख्यानयोर्युगपदधिकारः क्रियते, अपवादविधानार्थः। युगपदपवादान् वक्ष्यामीति। (वार्तिकाक्षेपभाष्यम्) किमुच्यतेऽपवादविधानार्थ इति, न पुनर्निर्देशार्थोऽपि स्यात्? (5488 आक्षेपनिरासवार्तिकम्॥ 2 ॥) - कृतनिर्देशौ हि तौ - (भाष्यम्) कृतनिर्देशौ ह्येतावर्थौ। एकः तत्र भवः (4.3.53) इति, अपरः तस्येदम् (120) इति॥ (पदकृत्यभाष्यम्) अथ व्याख्यातव्यनाम्नो ग्रहणं किमर्थम्? (5489 पदप्रयोजनवार्तिकम्॥ 3 ॥) - तत्र व्याख्यातव्यनाम्नो ग्रहणं भवार्थम् - (भाष्यम्) तत्र व्याख्यातव्यनाम्नो ग्रहणं क्रियते भवार्थम्। किमुच्यते भवार्थमिति न पुर्नव्याख्यानार्थमपि स्यात्? (5490 पदप्रयोजनसमर्थकवार्तिकम्॥ 4 ॥) - व्याख्याने ह्यवचनात्सिद्धम् - (भाष्यम्) व्याख्याने हि सति अन्तरेण वचनं सिद्धम्। यत्प्रति व्याख्यानमित्येतद्भवति, तस्मादुत्पत्तिर्भविष्यति। किं प्रत्येतद्भवति? व्याख्यातव्य नाम॥ (अन्यदपि प्रयोजनप्रदर्शनपरं भाष्यम्) यदुच्यते भवार्थमिति, तन्न। व्याख्यानार्थमपि व्याख्यातव्यनाम्नो ग्रहणं क्रियते। इह मा भूत् -पाटलिपुत्रस्य व्याख्यानी सुकोसलेति। अथ क्रियमाणेऽपि व्याख्यातव्यनाम्नो ग्रहणे कस्मादेवात्र न भवति? अवयवशो ह्याख्यानं व्याख्यानम्, पाटलिपुत्रं चाप्यवयवश आचष्टे -ःइर्दृशा अस्य प्राकाराः, इर्दृशा अस्य प्रासादा इति। सत्यमेवमेतत्। क्वचित्तु काचित्प्रसृततरा गतिर्भवति। शब्दग्रन्थेषु चैषा प्रसृततरा गतिर्भवति -निरुक्तं व्याख्यायते, व्याकरणं व्याख्यायत इत्युच्यते, न कश्चिदाह -पाटलिपुत्रं व्याख्यायत इति॥ (5491 पूर्वपक्षवार्तिकम्॥ 5 ॥) - भवे मन्त्रेषु लुग्वचनम् - (भाष्यम्) भवे मन्त्रेषु लुग्वक्तव्यः। अग्निष्टोमे भवो मन्त्रः -अग्निष्टोमः, राजसूयः, वाजपेयः॥ (5492 पूर्वपक्षवार्तिकम्॥ 6 ॥) - कल्पे च व्याख्याने - (भाष्यम्) कल्पे च व्याख्याने लुग्वक्तव्यः। अग्निष्टोमस्य व्याख्यानः कल्पः -अग्निष्टोमः, राजसूयः, वाजपेयः। स तर्हि वक्तव्यः॥ (5493 वार्तिकप्रत्याख्याने वार्तिकम्॥ 7 ॥) - न वा तार्दथ्यात्ताच्छब्द्यम् - (भाष्यम्) न वा वक्तव्यः। किं कारणम्? तार्दथ्यात्ताच्छब्द्यम्। तार्दथ्यात्ताच्छब्द्यं भविष्यति। अग्निष्टोमार्थः -अग्निष्टोमः, राजसूयः वाजपेयः॥

Kashika

व्याख्यायतेऽनेनेति व्याख्यानम्, व्याख्यातव्यस्य नाम व्याख्यातव्यनाम। तस्येति षष्ठीसमर्थाद् व्याख्यातव्यनाम्नः प्रातिपदिकाद् व्याख्यानेऽभिधेये यथाविहितं प्रत्ययो भवति, तत्र भवे च। वाक्यार्थसमीपे चकारः श्रूयमाणः पूर्ववाक्यार्थमेव समुच्चिनोति तत्र भवः (४.३.५३) इति। सुपां व्याख्यानः सौपो ग्रन्थः। तैङः। कार्तः। सुप्सु भवं सौपम्। तैङम्। कार्तम्। व्याख्यातव्यनाम्न इति किम् ? पाटलिपुत्रस्य व्याख्यानी सुकोसला, पाटलिपुत्रं सुकोसलया व्याख्यायते, एवंसंनिवेशं पाटलिपुत्रमिति, न तु पाटलिपुत्रं व्याख्यातव्यनाम। भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः। कृतनिर्देशौ हि तौ ॥

Siddhanta Kaumudi

सुपां व्याख्यानः सौपो ग्रन्थः । तैङः । कार्तः । सुप्सु भवं सौपम् ॥

Balamanorama

तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः - तस्य व्याख्यान इति च । व्याख्यायते अनेनेति व्याख्यानो ग्रन्थः, करणे ल्युट् । तस्य व्याख्यान इति विग्रहे व्याख्यातव्यग्रन्थप्रतिपादकात्षष्ठन्तात्, भव इत्यर्थे च सप्तम्यन्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः । चकारः ‘तत्र भवः’ इत्यस्य समुच्चयार्थः । सौप इति । औत्सर्गिको ।ञण् । तैङ इति । तिङां व्याख्यानो ग्रन्थ इत्यर्थः । कार्त इति । कृता व्याख्यान इत्यर्थः । अणि आदिवृद्धौ रपरत्वम् । भवार्थे उदाहरति — सौपमिति । नच ‘तस्येदं’ ‘तत्र भवः’ इत्याभ्यामेव भाष्ये स्पष्टम् ।

Tattvabodhini

तस्य व्याख्यान इति च व्याख्यातव्यनाम्नः - तस्य व्याख्यान इति च । व्याख्यायते येन स व्याख्यानः । करणे लुट् ।इति॑शब्दो वाक्यार्थ परामृशति । तत्समीपे श्रूयमाणश्चकारःतत्र भवः॑इति वाक्यार्थमाक्षिपति । व्याख्यातव्यस्य=ग्रन्थस्य नाम=प्रतिपादकं, तच्च शक्त्या लक्षणय वेत्य[त्र]नाग्रहः । तथा चषष्टन्ताव्द्यख्यानकरणार्थे, सप्तन्यन्तात्तु भवार्थे, व्याख्यातव्यस्य ग्रन्थस्य प्रतिपादकात्प्रत्ययाः स्यु॑रिति सूत्रार्थः । व्याख्यातव्यस्य नाम्नः किम् । पाटलिपुत्रस्य व्याख्यानी सुकोसला । पाटलिपुत्रं हि तया व्याख्यायतेईदृक्संनिवेशविशिष्ट॑मिति । न त्विदं व्याख्यातव्यस्य नाम । ग्रन्थेष्वेव व्याख्येयत्वस्य सुप्रसिद्धत्वात्, नामग्रहणं हि प्रसिद्ध्युपस्ङ्ग्रहार्थमेव सूत्रे कृतम् ।

Padamanjari

तस्येति षष्ठीसमर्थादिति । ननु चाधिकारार्थोऽयमिति वक्ष्यति, भव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः, कृतनिर्देशौ हि ताविति, तत्किमित्यत्र यथाविहितविधानार्थत्वं व्याख्यायते ? उच्यते - तात्पर्यतोऽपवादविधानायाधिकारस्यानुषङ्गिकेऽणादिविधानार्थत्वे को दोष इति मन्यते, अगतिकगतिर्हि विशेषविवक्षायां सामान्याश्रयः प्रत्ययः । अत एव’कृतलब्धक्रीतकुशलाः’ इत्यादीन्यनपवादान्यर्थादेशनानि भवन्ति । तत्र भवेचेति । अयमनुवादः; एतस्मिन्नेव विशेषे’तत्र भवः’ इति विहितत्वात् । ननु च व्याख्यानस्य प्रत्ययार्थस्य समीपे श्रूयमाणश्चशब्दस्तत्समानजातीयस्यैव प्रत्ययार्थस्य समुच्चयं करोति, न समर्थविभक्तेः; यथा’केदाराद्यञ्च’ इति प्रत्ययसमीपवर्तिना प्रत्यय एव समुच्चीयते, न प्रकृतिः;’ठञ्कवचिनश्च’ इति प्रकृतेरेव न प्रत्ययः; ततश्चेह तस्येत्युपादानाद्भवार्थेऽपि षष्ठीसमर्थादेव प्रत्ययो युक्तः, तत्राह - वाक्यार्थसमीपे इति । इहेतिकरणः क्रियते - प्रकृतं वाक्यार्थं प्रत्यवमर्शामीति । प्रत्यवमर्शस्य च प्रयोजनम् - नतुल्यजातीयस्यैव समुच्चयो यथा स्यादित्येतदेवेति भावः । एतमेव च न्यायं निरूपयितुं पूर्वम्’तत्र भवे च’ इत्यनुवादः कृतः । व्याख्यातव्यनाग्न इति किमिति । व्याक्यानशब्दस्य सम्बन्धिशब्दत्वाद्यप्रतिव्याख्यानं तदेव तस्येत्यनेन निर्दिष्टमिति गम्यत इति मत्वा प्रश्नः । पाटलिपुत्रं सुकोशलया व्याख्यायत इति नेयं कर्तरि तृतीया, किं तर्हि ? करणे सुकोशलया करणभूतया पुरुषैर्व्याख्यायत इत्यर्थः । कथमित्याह - एवंसन्निवेशमिति । तादृशो हि पाटलिपुत्रे प्राकारादिसन्निवेशो यादृशः सुकोशलायाम्, तेन तया तद्व्याख्यायते । यद्येवम्, तस्य व्याख्यातव्यस्य पाटलिपुत्रशब्दो नामापि भवति, तत्कथं प्रत्युदाहरणम् ? अत आह - न त्विति । यदिह व्याख्यातव्यमभिप्रेतम्, न तस्य नाम भवतीत्यर्थः । किं पुनरिहाभिप्रेतम् ? यद्व्याख्यातव्यतया लोके प्रसिद्धं ग्रन्थात्मकम्, एतदर्थमेव हि व्याख्यातव्यनामग्रहणं कृतम्, व्याख्यातव्यमात्रस्य व्याख्यानशब्दस्य सम्बन्धिशब्दत्वेनैवाक्षेपसिद्धेः । ननु च भवार्थमेतत्स्यात्, न हि तत्राक्षेपतो व्याख्यातव्यस्य लाभः ? एवं तर्हि नामग्रहणं प्रसिद्ध्युपसंग्रहार्थं भविष्यति । भवव्याख्यानयोरिति । नात्रायमर्थः - योऽयं भवव्याख्यानयोर्युगपदधिकारः सोऽपवादविधानार्थ इति; पूर्वमधिकारत्वस्याव्याख्यातत्वात् । तस्माद्भवव्याख्यानयोर्युगपदधिकारोऽयं न त्वणादीनामर्थनिर्देश इत्यर्थः । किमर्थोऽधिकारस्तत्राह - अपवादविधानार्थ इति । अणादीनां चायमर्थनिर्देशः कस्मान्न भवति ? तत्राह - कृतनिर्देशौ हि ताविति । एकः’तत्र भवः’ इति, अपरः’तस्येदम्’ - इत्येवं कृतनिर्देशौ हि तावर्थौ । तस्मातदर्थमेतन्न भवति । पूर्वं त्वधिकारार्थतयावश्यकर्तव्यस्यानुषङ्गिकमर्थनिर्देशार्थमिदमिति व्याख्यातम् ॥

Nyaas

{ तस्य व्याख्याने- इति सूत्रभागः}तस्य व्याख्यानम् इति। व्याख्यायतेऽनेनेति व्याख्यानम्, करणे ल्युट्। चकारात् तत्र भवे च इति। ननु च व्याख्यानं प्रत्ययार्थः, तस्य समीपे चकारः श्रूयत इति प्रत्ययार्थमात्रस्यैव समानजातीयस्य तेनानुकर्षणं न्याय्यम्, न तु समर्थविभक्तेरपि; समानजातीयस्य तु चकारः समुच्चयं करोति, यथा - केदाराद्यञ् च (4.2.40) इति; प्रत्ययसमीपवर्त्तिना चकारेण प्रत्यय एव समुच्चीयते, यथा - ठञ् कवचिनश्च (4.2.41) पादानात् पूर्वस्याः समर्थविभक्तेर्निवृत्तौ सत्यां भवार्थेऽपि षष्टीसामर्थ्यादेव प्रत्ययो युक्तः - तदयुक्तमुक्तम्; तत्र भवे चेति, तस्य भवे चेति वक्तुं युक्तम्? इत्यत आङ - वाक्यार्थसमीपे इत्यादि। इहेतिरकरणेन तस्य व्याख्यान इत्येषोऽर्थः प्रत्यवमृश्यते। न तु व्याख्यानप्रत्ययार्थः। तस्मादितिकरणान्ततरमुच्चारितश्चकारस्तत्प्रत्ययवमृष्टस्य वाक्यार्थस्यैव समीपे श्रूयमाणस्तुल्यजातयीमेव वाक्यार्थं समुच्चिनोति। तेन भवार्थे सप्तमीसामर्थ्यादेव एव कृतः; अन्यथा हि तस्य व्याख्याने च इत्येवं ब्राऊयात्। कः पुनरसौ वाक्यार्थ इत्याह - तत्र भवे इति। न तु पाटलीपुत्रशब्दो व्याख्यातव्यनाम इति। ननु च पाटलिपुत्रः कोशलया व्याख्यायते, नियतं तेन व्याख्यातव्येन भवितव्यम्, अन्यथा तस्य व्याख्यानी सुकोशला न स्यात्। तस्य व्याख्यानस्य पाटलिपुत्रशब्दो व्याख्यातव्यनाम भवतीति भावः? नैतदस्ति; यदीह व्याख्यातव्यमभिप्रेतम्, न तस्यैतन्नाम भवतीति भावः। किञ्चेह व्याख्यातव्यमभिप्रेतम्? यद्व्याख्यातव्यतया लोके प्रसिद्धतरम्। कुत एतत्? व्याख्यातव्यनामग्रहणात्। इह हि व्याख्यातव्यनामग्रहणं व्याख्यातव्यार्थं तु न कर्तव्यमेव;विनापि हि तेन व्याख्याव्यनाम्न एव प्रत्ययसिद्धेः। तथा हि तस्य ` इति तस्य प्रतियोगिव्याख्यानमुपात्तम्। तच्च व्याख्यातव्यस्यैव सम्भवति, नान्यस्य। तस्माद्यद्यत्तसय् व्याख्यातव्यं सामर्थ्यात्तदेव तस्येत्यनेन षष्ठन्तेनोपादीयत इति विज्ञायते। ततश्चान्तरेणापि व्याख्याव्यनामग्रहणं व्याख्यातव्यनामाभिधायिन एव प्रत्ययो भविष्यतीति किं व्याख्यातव्यनामग्रहणेन? तत् क्रियते व्याख्यतव्यतया लोके यः प्रसिद्धस्तदभिधायिन एव प्रत्ययो यथा स्यादित्येवमर्थम्। व्याकरणादयो ग्रन्थविशेषा लोके प्रसिद्धाः, न ते पाटलिपुत्रादयः। एवमपि नामग्रहणं न कर्तव्यम्, व्याख्यतव्यग्रहणसामर्थ्यादेव हि व्याख्यातव्यतया प्रसिद्धतरेभ्यः प्रत्ययो लभ्यत एव? नैतदस्ति;व्याख्याने हि प्रत्ययार्थे व्याख्यानादेव व्याख्यातव्यवाचिनः प्रत्यये सिद्धे पुनव्र्याख्यातव्यग्रहणसामर्थ्याद व्याख्यातव्यतया ये प्रसिद्धास्तेब्यः प्रत्ययो लभ्यते, न तु तत्र भवे; तत्र सामर्थ्याभावात्। भवेऽपि चार्थे तत्र व्याख्यातया प्रसिद्धतराः, तदभिधायिभ्य एव प्रत्यय इष्यत इति; न तु यतः कुतश्चित्। तस्माद्भवाधिकारे रूढउपसंग्रहार्थं नामग्रहणं कर्तव्यम्।अथ किमर्थं भवव्याख्यानयोर्युगपदधिकारः क्रियते? इत्याह - `भवव्याख्यानयोः इत्यादि। ठञादीनपवादानत्राभिधास्यामीत्येवमर्थो युगपदनयोरधिकारः। ननु किमुच्यते - अपवादविधानार्थं इति; प्रकृतानामणादीनां प्रत्ययानामर्थनिर्देशो यथा स्यात्? इत्यत आह - कृतनिर्दशौ हि तौ इति। कृतनिर्देशौ हि तावर्थौ। एकः तत्र भवः इति, अपरः तस्येदम् इति। तस्येदंविशेषत्वाद्व्याख्यानस्य॥

Prakriyasarvasvam

व्याख्येयग्रन्थनामभ्यस्तस्य व्याख्यान इत्यर्थे तत्र भवे चाणादिः स्यात् । करणे ल्युट् । सुपां व्याख्यानो ग्रन्थः सौपः । तैङः । कार्तः । सुप्सु भवं च सौपम् ॥