43065: कर्णललाटात् कनलंकारे¶
Padacheda: कर्ण-ललाटात् | S | 5 | 1 |
कन् | S | 1 | 1 |
अलङ्कारे | S | 7 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix कन् comes in the sense of ‘what occurs there’ after कर्ण and ललाट , the word denoting ‘an ornament’.
Vasu English Translation¶
The affix कन् comes in the sense of ‘what occurs there’ after कर्ण and ललाट , the word denoting ‘an ornament’. This debars यत् (4.3.55). Thus कर्णिका ‘an ear-ring’, ललाटिका ॥
Why do we say ‘denoting an ornament’? Observe कर्ण्यम् ‘what is in the ear’, ललाट्यम् ॥
Kashika¶
कर्णललाटशब्दाभ्यां कन् प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषयेऽलंकारेऽभिधेये। यतोऽपवादः। कर्णिका। ललाटिका। अलंकार इति किम् ? कर्ण्यम्। ललाट्यम्॥
Siddhanta Kaumudi¶
कर्णिका । ललाटिका ॥
Balamanorama¶
कर्णललाटात् कनलंकारे - कर्णललाटात् ।शरीरावयवाच्चे॑ति यतोऽपवादः । कर्णिका ललाटिकेति । कर्णे ललादे भवोऽलङ्कार इत्यर्थः । स्त्रीत्वं लोकात् । टापिप्रत्ययस्था॑दितीत्त्वम् ।
Tattvabodhini¶
कर्णललाटात् कनलंकारे - कर्णलाटात् । यतोऽपवादः । अलङ्कारे किम् । कण्र्यम् । ललाटम् ।
Nyaas¶
कर्णिकाशब्दश्चाभरणविशेषे रूढः। रूढिशब्देषु च नावश्यमपि कर्णसम्बन्धेन भवितव्यम्॥
Prakriyasarvasvam¶
कर्णभवोऽलङ्कारः कर्णिका । ललाटिका । स्वभावात् स्त्रीत्वम् । भवार्थमात्रे तु यत् । कर्ण्यम् । ललाट्यम् । समानकालीनमुत्तरकालीनमित्यादि कालान्तात् खो दृश्यते । न च लक्षणं दृष्टम् ॥
Sutra Prayogas¶
ललाटिका (कुमारसम्भवम्): कर्णललाटत्कनलंकारे इति कन्प्रत्ययः।