43064: अशब्दे यत्खावन्यतरस्याम्

Padacheda: अ-शब्दे | S | 7 | 1 |

यत्-खौ | S | 1 | 2 |

अन्यतरस्याम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

After a word ending with वर्ग but not meaning a ‘letter or word’ the affixes यत् and ख are optionally used in the sense of ‘who stays there’.

Vasu English Translation

After a word ending with वर्ग but not meaning a ‘letter or word’ the affixes यत् and ख are optionally used in the sense of ‘who stays there’. As वासुदेववर्ग्यः (by यत्), वासुदेववर्गीणः, (by ख), and वासुदेववर्गीयः (by छ) ॥ युधिष्ठिरवर्ग्यः वर्गीणः or वर्गीयः ॥

Of course, when the word means ‘शब्द’ it takes one affix only; i. e. छ; as कवर्गीय वर्णः ‘a letter belonging to क class’.

Kashika

वर्गान्तादित्येव। शब्दादन्यस्मिन् प्रत्ययार्थे वर्गान्तात् प्रातिपदिकादन्यतरस्यां यत्खौ प्रत्ययौ भवतः तत्र भव इत्येतस्मिन् विषये। छे प्राप्ते वचनं पक्षे सोऽपि भवति। वासुदेववर्ग्यः, वासुदेववर्गीणः, वासुदेववर्गीयः। युधिष्ठिरवर्ग्यः, युधिष्ठिरवर्गीणः, युधिष्ठिरवर्गीयः। अशब्द इति किम्? कवर्गीयो वर्णः॥

Siddhanta Kaumudi

पक्षे पूर्वेण छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः ॥

Balamanorama

अशब्दे यत्खावन्यतरस्याम् - अशब्दे । ‘वर्गान्ताच्छः’ इति शेषः । मद्वर्ग्यः मद्वर्गीण इति । मत्पक्षे भव इत्यर्थः ।

Padamanjari

वासुदेववर्गीय इति ।’वृद्धाच्छः’ इत्यस्य परत्वाद्यत्खौ बाधकाविति वृद्धादप्यनेन च्छ एषितव्यः ॥

Nyaas

छे प्राप्ते इति। पूर्वसूत्रेण॥

Prakriyasarvasvam

<karika>शब्दादन्यत्र वर्गान्ताद् यत्खौ छ च विकल्पतः । अखिवर्ग्योऽखिवर्गीणोऽप्यखिवर्गीय इत्यपि ॥ २४९ ॥</karika> शब्दे तु छ एवोक्तः ॥

Sutra Prayogas

  • वर्ग्य (भट्टिकाव्यम्): अशब्दे यत्खावन्यतरस्याम् इति यत्।

  • स्व-वर्ग्यान् (भट्टिकाव्यम्): तत्र भवे यत्खौ इति यत्।