43064: अशब्दे यत्खावन्यतरस्याम् =============================== **Padacheda:** अ-शब्दे | S | 7 | 1 | यत्-खौ | S | 1 | 2 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After a word ending with वर्ग but not meaning a 'letter or word' the affixes यत् and ख are optionally used in the sense of 'who stays there'. Vasu English Translation ------------------------ After a word ending with वर्ग but not meaning a 'letter or word' the affixes यत् and ख are optionally used in the sense of 'who stays there'. As वासुदेववर्ग्यः (by यत्), वासुदेववर्गीणः, (by ख), and वासुदेववर्गीयः (by छ) ॥ युधिष्ठिरवर्ग्यः वर्गीणः or वर्गीयः ॥ Of course, when the word means 'शब्द' it takes one affix only; i. e. छ; as कवर्गीय वर्णः 'a letter belonging to क class'. Kashika ------- वर्गान्तादित्येव। शब्दादन्यस्मिन् प्रत्ययार्थे वर्गान्तात् प्रातिपदिकादन्यतरस्यां यत्खौ प्रत्ययौ भवतः तत्र भव इत्येतस्मिन् विषये। छे प्राप्ते वचनं पक्षे सोऽपि भवति। वासुदेववर्ग्यः, वासुदेववर्गीणः, वासुदेववर्गीयः। युधिष्ठिरवर्ग्यः, युधिष्ठिरवर्गीणः, युधिष्ठिरवर्गीयः। अशब्द इति किम्? कवर्गीयो वर्णः॥ Siddhanta Kaumudi ----------------- पक्षे पूर्वेण छः । मद्वर्ग्यः । मद्वर्गीणः । मद्वर्गीयः । अशब्दे किम् । कवर्गीयो वर्णः ॥ Balamanorama ------------ **अशब्दे यत्खावन्यतरस्याम्** - अशब्दे । 'वर्गान्ताच्छः' इति शेषः । मद्वर्ग्यः मद्वर्गीण इति । मत्पक्षे भव इत्यर्थः । Padamanjari ----------- वासुदेववर्गीय इति ।'वृद्धाच्छः' इत्यस्य परत्वाद्यत्खौ बाधकाविति वृद्धादप्यनेन च्छ एषितव्यः ॥ Nyaas ----- `छे प्राप्ते` इति। पूर्वसूत्रेण॥ Prakriyasarvasvam ----------------- शब्दादन्यत्र वर्गान्ताद् यत्खौ छ च विकल्पतः । अखिवर्ग्योऽखिवर्गीणोऽप्यखिवर्गीय इत्यपि ॥ २४९ ॥ शब्दे तु छ एवोक्तः ॥ Sutra Prayogas -------------- * **वर्ग्य** (भट्टिकाव्यम्): `अशब्दे यत्खावन्यतरस्याम्` इति यत्। * **स्व-वर्ग्यान्** (भट्टिकाव्यम्): `तत्र भवे यत्खौ` इति यत्।