43059: अव्ययीभावाच्च

Padacheda: अव्ययीभावात् | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

After an अव्ययीभाव समास the affix ञ्य is used in the sense of ‘who stays there’.

Vasu English Translation

After an अव्ययीभाव समास the affix ञ्य is used in the sense of ‘who stays there’. This debars अण् ॥ The affix ञ्य however, does not come after every Avyayibhava Compound, but only after the words included in the list of परिमुखादि as given in the Ganapatha.

Thus परिमुखं भवं = पारिमुख्यम्, So also पारिहनव्यम् ॥ Not so औपकुलम्, the word उपकुल not belonging to the class परिमुख ॥

1 परिमुख, 2 परिहनु, 3 पर्योष्ठ, 4 पर्युलू, 5 औपमूल, 6 खल, 7 परिसीर, 8 अनुसीर, 9 उपसीर, 10 उपस्थल, 11 उपकलाप, 12 अनुपथ, 13 अनुखड्ग, 14 अनुतिल, 15 अनुशीत, 16 अनुमाष, 17 अनुयव, 18 अनुयुप, 19 अनुवंश, 20 अनुगङ्ग, 21 प्रतिशाख, 22 अनुसाय ॥

Bhashya

अव्ययीभावाच्च (1629) (5475 उपसङ्ख्यानवार्तिकम्॥ 1 ॥) - ञ्ञ्यप्रकरणे परिमुखादिभ्य उपसंख्यानम् - (भाष्यम्) ञ्ञ्यप्रकरणे परिमुखादिभ्य उपसंख्यानं कर्तव्यम्। पारिमुख्यम्, पार्योष्ठ्यम्, पारिहनव्यम्॥ (5476 उत्तरसूत्रातिव्याप्तिनिवारकं वार्तिकम्॥ 2 ॥) - अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधः - (भाष्यम्) अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधो वक्तव्यः। औपकूलः, औपमूलः, औपशालः॥

Kashika

अव्ययीभावसंज्ञकात् प्रातिपदिकात् च ञ्यः प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। न च सर्वस्मादव्ययीभावाद् भवति। किं तर्हि ? परिमुखादेः। परिमुखादीनां च गणपाठस्यैतदेव प्रयोजनम्। तेषां विशेषणमव्ययीभावग्रहणम्। परिमुखं भवं पारिमुख्यम्। पारिहनव्यम्। परिमुखादेरन्यत्र न भवति। औपकूलम्॥ परिमुख। परिहनु। पर्योष्ठ। पर्युलूखल। परिसीर। अनुसीर। उपसीर। उपस्थल। उपकलाप। अनुपथ। अनुखड्ग। अनुतिल। अनुशीत। अनुमाष। अनुयव। अनुयूप। अनुवंश॥

Siddhanta Kaumudi

परिमुखं भवं पारिमुख्यम् ।<!परिमुखादिभ्य एवेष्यते !> (वार्तिकम्) ॥ नेह । औपकूलः ॥

Balamanorama

अव्ययीभावाच्च - अव्ययीभावाच्च । ‘ञ्य’ इति शेषः । परिमुखादिभ्य इति । यद्यपीदं वार्तिकं भाष्ये न दृष्टं, तथापि दिगदिगणपाठानन्तरं परिमुखादिगणपाठसामर्थ्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । न ह्रष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति । औपकूल इति । उपकूलं भव इत्यर्थः । अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावान्न ञ्यः ।

Tattvabodhini

अव्ययीभावाच्च - अव्य । परिमुखमिति । यदि परिशब्दादिह वर्जनं गम्यते, तदा॒अपपरिबहिरञ्चवः पञ्चम्ये॑त्यब्ययीभावः । यदि तु सर्तोभावः, तदा त्वस्मादेव निपातनादब्ययीभाव इत्याहुः ।परिमुखादिभ्यएवेष्यते । परिमुखादिभ्य एवेति । अयं भावः -दिगादिगणानन्तेरं परिमुख, परिहनु, पर्याष्ठ, पर्युलूखलेत्यादि परिमुखाः दिगणः पटते, तत्साहचर्यादिह सूत्रेऽव्ययीभावशब्देन परिमुखादिरेव गृह्रते । तस्य गणस् । कार्यान्तराऽभावादिति । नन्वेवंपरिमुखादे॑रिति सूत्रं विशिष्यैव क्रियतां, किमनेन प्रयासेन । उत्तरत्रअव्ययीभावा॑दित्यस्यापेक्षायमपि तत्रैव तत्करणौचित्यादिति चेत् । अतारिह हरदत्तः -॒परिमुखादेः॑इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञः स्यात्, अव्ययीभावग्रहणात्तु तेभ्योऽणेव भवतीति । परिमुखादिगणे प्रतिशाखशब्दोऽपि बोध्यः । तथा च॒शाखृ व्याप्तौ॑इति धातौ प्रतिशाखं भवं प्रातिशाख्यम् ।अव्ययीभावाच्चे॑ति भवार्थे ञ इति माधवः ।

Padamanjari

किं तहिं परिमुखादेरिति । कथं पुनः सामान्योक्तावयं विशेषो लभ्यत इत्याह - परिमुखादीनां चेति । चशब्दो हेतौ । दिगादेरनन्तरं परिमुखादिगणः पठ।ल्ते, तस्य नान्यत्प्रयोजनं सम्भवति अव्ययीभावग्रहणस्य, परिमुखादिविशेषणतयाऽन्वयसम्भवात्, तस्मात्परिमुखादेरेव भविष्यति, न सर्वस्मादव्ययीभावात् । यद्येवम्, परिमुखादेरित्येव वक्तव्यमत आह - तेषामेवेति ।’परिमुखादेः’ इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञ्यप्रत्ययः स्यात्, अव्ययीभावग्रहणातु तेभ्योऽणेव भवति । उतरार्थं चावश्यमव्ययीभावग्रहणं कर्तव्यम्, तत्र ये परिपूर्वास्तत्र यदि वर्जनं गम्यते ततः ठपपरिबहिरञ्चवः । पञ्चम्याऽ इत्यव्ययीभावः । अथ सर्वतो भावः, ततोऽस्मादेव निपातनादव्ययीभावः । उपपूर्वेषु सामीप्येऽनुपूर्वेषु ठनुर्यत्समयाऽ’यस्य चायामः’ ‘पश्चादर्थे यदव्ययम्’ इति च यथाभिधानं समासः ॥

Nyaas

किं तर्हि इत्यादि। कथं पुनरव्ययीभावादिति सामान्येनोच्यमानः प्रत्ययः परिमुखादेरेव? इत्यत आह - परिमुखादीनाञ्च इत्यादि। चशब्दो हेतौ। न ह्रन्तत् कार्यमस्ति परिमुखादिगणपाठस्य। तत्र यद्यप्येतदपि न स्यात्, विध्यर्थमेव तस्य स्यात्, तस्मात् परिमुखादेरेव भवति, न सर्वस्मादव्ययीभावात्। यद्येवम्, परिमुखादेरित्येवं वक्तव्यमित्याह - तेषाम् इत्यादि। यदि हि परिमुखादेरित्युच्यते, ततोऽसत्यव्ययीभावग्रहणे तत्पुरुषेभ्योऽपि परिमुखादिभ्यः प्रत्ययः स्यात्, तस्मस्तु सति न भवति - परिगतं मुखं परिमुखमिति प्रादिसमासः, तत्र भवः परिमुखः; अणेव भवति। अपि चोत्तरार्धमव्ययीभावग्रहणमवश्यमेव कर्तव्यम् - अन्तःपूर्वपदाट्ठञ् (4.3.60) । ग्रामात्पर्यनुपूर्वात् (4.3.61) इत्यव्ययीभावाद्यथा स्यात्। पारिहनव्यम् इति। ओर्गुणःर (6.4.146) , वान्तो यि प्रत्यये (6.1.79) इत्यवादेशः। औपकूलम् इति। अव्ययं विभक्ति (2.1.6) इत्यादिनाऽव्ययीभावः। एष च परिमुखादिषु न पठत इत्यणेव भवति। अत्र पिरमुखमिति कथमव्ययीभावः? यावता अपपरिबहिरञ्चवः पञ्चम्या (2.1.11) समस्यन्ते, पञ्चमी च परिणा कर्मप्रवचनीयेन योगे भवति, कर्मप्रवचनीयसंज्ञा तु अपपरी वर्जने (1.4.88) इत्यनेन, न च परिमुखे वर्जनं गम्यते, किं तर्हि? सर्वतोभावः? एवं तर्हि अव्ययम् (2.1.6) इति योगविभागव्ययीभावो भविष्यति।अन्ये तु येऽत्र परिहनुप्रभृतयोऽव्ययीभावाः, ते अपपरिबहिरञ्चवः पञ्चम्या (2.1.12) इत्यनेनैव भवन्ति। अत्र येष्वपि वर्जनं न गम्यते, ततस्तेष्वयि अव्ययम् (2.1.6) इति योगविभागेनैव। ये तूपसीरादय उपपूर्वाः, ते सामीप्ये अव्ययम् (2.1.6) इत्यादिना। अनुगङ्गम् इति। यस्य चायामः (2.1.16) इत्यव्ययभावः। अन्ये तु येऽनुसीरादयोऽनुपूर्वास्ते पश्चादर्थेऽव्ययमित्यादिना॥

Prakriyasarvasvam

अव्ययीभावसमासाद् भवार्थे ञ्यः स्यात् । परिमुखादेरेवेष्टम् । परिमुख- पर्योष्ठपरिहनूपर्युदूखलानां वर्जनार्थेऽव्ययीभावः । निपातनात् सर्वतोभवेऽपीति रामः । सर्वमुखेषु भवः पारिमुख्यः प्रसादः । पार्योष्ठ्यो रागः । पारिहनव्यः प्रहारः । पार्युलूखल्यास्तण्डुलाः । वर्जनार्थे—पारिमुख्यो निचोलः । पार्योष्ठ्यं तैलमित्यूह्यम् । परेः सप्तम्यर्थेऽव्ययीभाव इति माधवः । तत्र त्वोष्ठे भवं पार्योष्ठ्यमित्यादि रम्योऽर्थः । ‘उपात् स्थूलाकलापाभ्याम्’ (भो० ४–३–१५८) । स्थूला हलिः, तत्समीपभव औपस्थूल्यो वृषः । औपकलाप्यो बर्हिपक्षः । ‘अनोः पथिपदयूयवंशसीतातिलयवमाषभङ्गगङ्गाशरीरेभ्यः’ (भो० ४-३-१५९) । पथि पथि भवा आनुपथ्या सिकता । आनुपद्यो भृत्यः । आनुयूप्यः पशुः । आनुवंश्यं वृत्तम् । अनुसीतं भव आनुसीत्यो बीजावापः । आनुतिल्यं तैलम् । आनुयव्यः आनुमाष्यः । आनुभङ्ग्यः । भङ्गः कुसुम्भम् । आनुगङ्ग्या वाराणसी । आनुशरीर्यस्तापः । ‘पर्युपानुभ्यः सीरात्’ (भो० ४–३–१६०) पारिसीर्यम् । औपसीर्यम् । आनुसीर्यम् । प्रतिशाखं भवं प्रातिशाख्यमिति माधवः । औपकर्ण्यमिति च सुभद्राहरणे ॥

Vartika

परिमुखादिभ्य एवेष्यते ।