43059: अव्ययीभावाच्च ==================== **Padacheda:** अव्ययीभावात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- After an अव्ययीभाव समास the affix ञ्य is used in the sense of 'who stays there'. Vasu English Translation ------------------------ After an अव्ययीभाव समास the affix ञ्य is used in the sense of 'who stays there'. This debars अण् ॥ The affix ञ्य however, does not come after every *Avyayibhava* Compound, but only after the words included in the list of परिमुखादि as given in the *Ganapatha*. Thus परिमुखं भवं = पारिमुख्यम्, So also पारिहनव्यम् ॥ Not so औपकुलम्, the word उपकुल not belonging to the class परिमुख ॥ 1 परिमुख, 2 परिहनु, 3 पर्योष्ठ, 4 पर्युलू, 5 औपमूल, 6 खल, 7 परिसीर, 8 अनुसीर, 9 उपसीर, 10 उपस्थल, 11 उपकलाप, 12 अनुपथ, 13 अनुखड्ग, 14 अनुतिल, 15 अनुशीत, 16 अनुमाष, 17 अनुयव, 18 अनुयुप, 19 अनुवंश, 20 अनुगङ्ग, 21 प्रतिशाख, 22 अनुसाय ॥ Bhashya ------- अव्ययीभावाच्च (1629) (5475 उपसङ्ख्यानवार्तिकम्॥ 1 ॥) - ञ्ञ्यप्रकरणे परिमुखादिभ्य उपसंख्यानम् - (भाष्यम्) ञ्ञ्यप्रकरणे परिमुखादिभ्य उपसंख्यानं कर्तव्यम्। पारिमुख्यम्, पार्योष्ठ्यम्, पारिहनव्यम्॥ (5476 उत्तरसूत्रातिव्याप्तिनिवारकं वार्तिकम्॥ 2 ॥) - अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधः - (भाष्यम्) अव्ययीभावाद्विधाने उपकूलादिभ्यः प्रतिषेधो वक्तव्यः। औपकूलः, औपमूलः, औपशालः॥ Kashika ------- अव्ययीभावसंज्ञकात् प्रातिपदिकात् च ञ्यः प्रत्ययो भवति तत्र भव इत्येतस्मिन् विषये। अणोऽपवादः। न च सर्वस्मादव्ययीभावाद् भवति। किं तर्हि ? परिमुखादेः। परिमुखादीनां च गणपाठस्यैतदेव प्रयोजनम्। तेषां विशेषणमव्ययीभावग्रहणम्। परिमुखं भवं पारिमुख्यम्। पारिहनव्यम्। परिमुखादेरन्यत्र न भवति। औपकूलम्॥ परिमुख। परिहनु। पर्योष्ठ। पर्युलूखल। परिसीर। अनुसीर। उपसीर। उपस्थल। उपकलाप। अनुपथ। अनुखड्ग। अनुतिल। अनुशीत। अनुमाष। अनुयव। अनुयूप। अनुवंश॥ Siddhanta Kaumudi ----------------- परिमुखं भवं पारिमुख्यम् । (वार्तिकम्) ॥ नेह । औपकूलः ॥ Balamanorama ------------ **अव्ययीभावाच्च** - अव्ययीभावाच्च । 'ञ्य' इति शेषः । परिमुखादिभ्य इति । यद्यपीदं वार्तिकं भाष्ये न दृष्टं, तथापि दिगदिगणपाठानन्तरं परिमुखादिगणपाठसामर्थ्यादिहाव्ययीभावपदं परिमुखादिपरमिति गम्यते । न ह्रष्टाध्याय्यां परिमुखादिगणस्य कार्यान्तरमस्ति । औपकूल इति । उपकूलं भव इत्यर्थः । अव्ययीभावत्वेऽपि परिमुखाद्यनन्तर्भावान्न ञ्यः । Tattvabodhini ------------- **अव्ययीभावाच्च** - अव्य । परिमुखमिति । यदि परिशब्दादिह वर्जनं गम्यते, तदा॒अपपरिबहिरञ्चवः पञ्चम्ये॑त्यब्ययीभावः । यदि तु सर्तोभावः, तदा त्वस्मादेव निपातनादब्ययीभाव इत्याहुः ।परिमुखादिभ्यएवेष्यते । परिमुखादिभ्य एवेति । अयं भावः -दिगादिगणानन्तेरं परिमुख, परिहनु, पर्याष्ठ, पर्युलूखलेत्यादि परिमुखाः दिगणः पटते, तत्साहचर्यादिह सूत्रेऽव्ययीभावशब्देन परिमुखादिरेव गृह्रते । तस्य गणस् । कार्यान्तराऽभावादिति । नन्वेवंपरिमुखादे॑रिति सूत्रं विशिष्यैव क्रियतां, किमनेन प्रयासेन । उत्तरत्रअव्ययीभावा॑दित्यस्यापेक्षायमपि तत्रैव तत्करणौचित्यादिति चेत् । अतारिह हरदत्तः -॒परिमुखादेः॑इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञः स्यात्, अव्ययीभावग्रहणात्तु तेभ्योऽणेव भवतीति । परिमुखादिगणे प्रतिशाखशब्दोऽपि बोध्यः । तथा च॒शाखृ व्याप्तौ॑इति धातौ प्रतिशाखं भवं प्रातिशाख्यम् ।अव्ययीभावाच्चे॑ति भवार्थे ञ इति माधवः । Padamanjari ----------- किं तहिं परिमुखादेरिति । कथं पुनः सामान्योक्तावयं विशेषो लभ्यत इत्याह - परिमुखादीनां चेति । चशब्दो हेतौ । दिगादेरनन्तरं परिमुखादिगणः पठ।ल्ते, तस्य नान्यत्प्रयोजनं सम्भवति अव्ययीभावग्रहणस्य, परिमुखादिविशेषणतयाऽन्वयसम्भवात्, तस्मात्परिमुखादेरेव भविष्यति, न सर्वस्मादव्ययीभावात् । यद्येवम्, परिमुखादेरित्येव वक्तव्यमत आह - तेषामेवेति ।'परिमुखादेः' इत्युच्यमाने बहुव्रीहितत्पुरुषेभ्योऽपि ञ्यप्रत्ययः स्यात्, अव्ययीभावग्रहणातु तेभ्योऽणेव भवति । उतरार्थं चावश्यमव्ययीभावग्रहणं कर्तव्यम्, तत्र ये परिपूर्वास्तत्र यदि वर्जनं गम्यते ततः ठपपरिबहिरञ्चवः । पञ्चम्याऽ इत्यव्ययीभावः । अथ सर्वतो भावः, ततोऽस्मादेव निपातनादव्ययीभावः । उपपूर्वेषु सामीप्येऽनुपूर्वेषु ठनुर्यत्समयाऽ'यस्य चायामः' 'पश्चादर्थे यदव्ययम्' इति च यथाभिधानं समासः ॥ Nyaas ----- `किं तर्हि` इत्यादि। कथं पुनरव्ययीभावादिति सामान्येनोच्यमानः प्रत्ययः परिमुखादेरेव? इत्यत आह - `परिमुखादीनाञ्च` इत्यादि। चशब्दो हेतौ। न ह्रन्तत् कार्यमस्ति परिमुखादिगणपाठस्य। तत्र यद्यप्येतदपि न स्यात्, विध्यर्थमेव तस्य स्यात्, तस्मात् परिमुखादेरेव भवति, न सर्वस्मादव्ययीभावात्। यद्येवम्, परिमुखादेरित्येवं वक्तव्यमित्याह - `तेषाम्` इत्यादि। यदि हि परिमुखादेरित्युच्यते, ततोऽसत्यव्ययीभावग्रहणे तत्पुरुषेभ्योऽपि परिमुखादिभ्यः प्रत्ययः स्यात्, तस्मस्तु सति न भवति - परिगतं मुखं परिमुखमिति प्रादिसमासः, तत्र भवः परिमुखः; अणेव भवति। अपि चोत्तरार्धमव्ययीभावग्रहणमवश्यमेव कर्तव्यम् - **अन्तःपूर्वपदाट्ठञ्** (4.3.60) । `ग्रामात्पर्यनुपूर्वात्` (4.3.61) इत्यव्ययीभावाद्यथा स्यात्। `पारिहनव्यम्` इति। `ओर्गुणःर` (6.4.146) , **वान्तो यि प्रत्यये** (6.1.79) इत्यवादेशः। `औपकूलम्` इति। `अव्ययं विभक्ति` (2.1.6) इत्यादिनाऽव्ययीभावः। एष च परिमुखादिषु न पठत इत्यणेव भवति। अत्र पिरमुखमिति कथमव्ययीभावः? यावता अपपरिबहिरञ्चवः पञ्चम्या (2.1.11) समस्यन्ते, पञ्चमी च परिणा कर्मप्रवचनीयेन योगे भवति, कर्मप्रवचनीयसंज्ञा तु **अपपरी वर्जने** (1.4.88) इत्यनेन, न च परिमुखे वर्जनं गम्यते, किं तर्हि? सर्वतोभावः? एवं तर्हि `अव्ययम्` (2.1.6) इति योगविभागव्ययीभावो भविष्यति।अन्ये तु येऽत्र परिहनुप्रभृतयोऽव्ययीभावाः, ते **अपपरिबहिरञ्चवः पञ्चम्या** (2.1.12) इत्यनेनैव भवन्ति। अत्र येष्वपि वर्जनं न गम्यते, ततस्तेष्वयि `अव्ययम्` (2.1.6) इति योगविभागेनैव। ये तूपसीरादय उपपूर्वाः, ते सामीप्ये `अव्ययम्` (2.1.6) इत्यादिना। `अनुगङ्गम्` इति। **यस्य चायामः** (2.1.16) इत्यव्ययभावः। अन्ये तु येऽनुसीरादयोऽनुपूर्वास्ते पश्चादर्थेऽव्ययमित्यादिना॥ Prakriyasarvasvam ----------------- अव्ययीभावसमासाद् भवार्थे ञ्यः स्यात् । परिमुखादेरेवेष्टम् । परिमुख- पर्योष्ठपरिहनूपर्युदूखलानां वर्जनार्थेऽव्ययीभावः । निपातनात् सर्वतोभवेऽपीति रामः । सर्वमुखेषु भवः पारिमुख्यः प्रसादः । पार्योष्ठ्यो रागः । पारिहनव्यः प्रहारः । पार्युलूखल्यास्तण्डुलाः । वर्जनार्थे—पारिमुख्यो निचोलः । पार्योष्ठ्यं तैलमित्यूह्यम् । परेः सप्तम्यर्थेऽव्ययीभाव इति माधवः । तत्र त्वोष्ठे भवं पार्योष्ठ्यमित्यादि रम्योऽर्थः । ‘उपात् स्थूलाकलापाभ्याम्’ (भो० ४–३–१५८) । स्थूला हलिः, तत्समीपभव औपस्थूल्यो वृषः । औपकलाप्यो बर्हिपक्षः । ‘अनोः पथिपदयूयवंशसीतातिलयवमाषभङ्गगङ्गाशरीरेभ्यः’ (भो० ४-३-१५९) । पथि पथि भवा आनुपथ्या सिकता । आनुपद्यो भृत्यः । आनुयूप्यः पशुः । आनुवंश्यं वृत्तम् । अनुसीतं भव आनुसीत्यो बीजावापः । आनुतिल्यं तैलम् । आनुयव्यः आनुमाष्यः । आनुभङ्ग्यः । भङ्गः कुसुम्भम् । आनुगङ्ग्या वाराणसी । आनुशरीर्यस्तापः । ‘पर्युपानुभ्यः सीरात्’ (भो० ४–३–१६०) पारिसीर्यम् । औपसीर्यम् । आनुसीर्यम् । प्रतिशाखं भवं प्रातिशाख्यमिति माधवः । औपकर्ण्यमिति च सुभद्राहरणे ॥ Vartika ------- परिमुखादिभ्य एवेष्यते ।