43050: संवत्सराग्रहायणीभ्यां ठञ् च¶
Padacheda: संवत्सर-आग्रहायणीभ्याम् | S | 5 | 2 |
ठञ् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix ठञ् also (as well as वुञ् ) comes after the words 1. संवत्सरा 2. अग्राहायणी in the sense of ‘debt due’.
Vasu English Translation¶
The affix ठञ् also (as well as वुञ् ) comes after the words 1. संवत्सरा 2. अग्राहायणी in the sense of ‘debt due’. Thus संवत्सरे देयमृणं = सांवत्सरिकं, and सांवत्सरकं ॥ आग्रहायणिकं or आग्रहायणकं ॥
The word संवत्सर occurs in Sandhiveladi Class (4.3.16) and takes अण् when ‘fruit’ or ‘festivity’ is meant. The present sutra enjoins ठञ् when ‘debt’ is indicated.
Kashika¶
संवत्सराग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद् वुञ् च देयमृणमित्येतस्मिन्नर्थे। संवत्सरे देयमृणं सांवत्सरिकम्, सांवत्सरकम्। आग्रहायणिकम्, आग्रहायणकम्। वेति वक्तव्ये ठञ्ग्रहणं संधिवेलादिषु (४.३.१६) संवत्सरात् फलपर्वणोः (ग० सू० १०२) इति पठ्यते, तत्र फल ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यादिति॥
Siddhanta Kaumudi¶
चाद्वुञ् । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥
Balamanorama¶
संवत्सराग्रहायणीभ्यां ठञ् च - संवत्सराग्रहायणीभ्यां ठञ्च ।देयमृण॑मित्यर्थे सप्तम्यन्ता॑दिति शेषः । सन्धिवेलादिगणेसंवत्सरात्फलपर्वणोः॑ इति पठितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तोऽण् अनेन ठञा बाध्यते ।
Tattvabodhini¶
संवत्सराग्रहायणीभ्यां ठञ् च - संवत्स । ठञ्चेति ।संवत्सराग्रहाणीभ्यां वे॑त्येव सुवचम् । न चवे॑ति वक्तव्ये ठञ्ग्रहणं व्यर्थं, सन्धिवेलादिषुसंवत्सरात्फलापर्वणो॑रिति पठते, तत्र फले ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यादिति काशिकादावुक्तमिति वाच्यं, तस्मै हितास्तद्धिता इत्यन्वर्थसंज्ञाकरणबलेनाऽत्राण्प्रत्ययो न भवेदिति वक्तुं शक्यत्वादिति नव्याः ।
Padamanjari¶
वेति वक्तव्ये इति । वुञि विकल्पिते पक्षे यथा प्राप्तष्ठञेव भविष्यतीति मन्यते । ठञ्ग्रहणमित्यादि । असति ठञ्ग्रहणे सन्धिवेलादिषु’संवत्सरात्फलपर्वणोः’ इति पाठात्फले ऋणत्वेन विवक्षिते वुञा मुक्तेऽणेत स्यात्, ठञ्ग्रहणातु ठञेव भवति ॥
Nyaas¶
कालाट्ठञि प्राप्ते वचनम्। तेन ठञ् न वक्तव्य इति। वुञि विकल्पिते विनापि ठञ्ग्रहणेन पक्षे यथाप्राप्तं ठञेव भवतीत्यभिप्रायः। ठञ्ग्रहणम् इत्यादि। तत्र यद्यत्र ठञ्ग्रहणं न क्रियेत सन्धिवेला (4.3.16) इत्यादिषु संवत्सरात्फलपर्वणोः (ग।सू।104) इति पाठात् सन्धिवेलाद्यणष्ठञपवादत्वादणत्वेन काले विवक्षिते वुञा मुक्तेऽणेव स्यात्। ठञ्ग्रहणादणमपि बाधित्वा ठञेव भवति॥
Prakriyasarvasvam¶
वुञ् च स्यात् । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकमृणम् ॥