43050: संवत्सराग्रहायणीभ्यां ठञ् च ================================== **Padacheda:** संवत्सर-आग्रहायणीभ्याम् | S | 5 | 2 | ठञ् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ठञ् also (as well as वुञ् ) comes after the words 1. संवत्सरा 2. अग्राहायणी in the sense of 'debt due'. Vasu English Translation ------------------------ The affix ठञ् also (as well as वुञ् ) comes after the words 1. संवत्सरा 2. अग्राहायणी in the sense of 'debt due'. Thus संवत्सरे देयमृणं = सांवत्सरिकं, and सांवत्सरकं ॥ आग्रहायणिकं or आग्रहायणकं ॥ The word संवत्सर occurs in *Sandhiveladi* Class (4.3.16) and takes अण् when 'fruit' or 'festivity' is meant. The present *sutra* enjoins ठञ् when 'debt' is indicated. Kashika ------- संवत्सराग्रहायणीशब्दाभ्यां ठञ् प्रत्ययो भवति, चकाराद् वुञ् च देयमृणमित्येतस्मिन्नर्थे। संवत्सरे देयमृणं सांवत्सरिकम्, सांवत्सरकम्। आग्रहायणिकम्, आग्रहायणकम्। वेति वक्तव्ये ठञ्ग्रहणं संधिवेलादिषु (४.३.१६) **संवत्सरात् फलपर्वणोः** (ग० सू० १०२) इति पठ्यते, तत्र फल ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यादिति॥ Siddhanta Kaumudi ----------------- चाद्वुञ् । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकम् ॥ Balamanorama ------------ **संवत्सराग्रहायणीभ्यां ठञ् च** - संवत्सराग्रहायणीभ्यां ठञ्च ।देयमृण॑मित्यर्थे सप्तम्यन्ता॑दिति शेषः । सन्धिवेलादिगणेसंवत्सरात्फलपर्वणोः॑ इति पठितम् । तत्र फले देयर्णत्वेन विवक्षिते प्राप्तोऽण् अनेन ठञा बाध्यते । Tattvabodhini ------------- **संवत्सराग्रहायणीभ्यां ठञ् च** - संवत्स । ठञ्चेति ।संवत्सराग्रहाणीभ्यां वे॑त्येव सुवचम् । न चवे॑ति वक्तव्ये ठञ्ग्रहणं व्यर्थं, सन्धिवेलादिषुसंवत्सरात्फलापर्वणो॑रिति पठते, तत्र फले ऋणत्वेन विवक्षितेऽणं बाधित्वा ठञेव यथा स्यादिति काशिकादावुक्तमिति वाच्यं, तस्मै हितास्तद्धिता इत्यन्वर्थसंज्ञाकरणबलेनाऽत्राण्प्रत्ययो न भवेदिति वक्तुं शक्यत्वादिति नव्याः । Padamanjari ----------- वेति वक्तव्ये इति । वुञि विकल्पिते पक्षे यथा प्राप्तष्ठञेव भविष्यतीति मन्यते । ठञ्ग्रहणमित्यादि । असति ठञ्ग्रहणे सन्धिवेलादिषु'संवत्सरात्फलपर्वणोः' इति पाठात्फले ऋणत्वेन विवक्षिते वुञा मुक्तेऽणेत स्यात्, ठञ्ग्रहणातु ठञेव भवति ॥ Nyaas ----- कालाट्ठञि प्राप्ते वचनम्। तेन ठञ् न वक्तव्य इति। वुञि विकल्पिते विनापि ठञ्ग्रहणेन पक्षे यथाप्राप्तं ठञेव भवतीत्यभिप्रायः। `ठञ्ग्रहणम्` इत्यादि। तत्र यद्यत्र ठञ्ग्रहणं न क्रियेत `सन्धिवेला` (4.3.16) इत्यादिषु `संवत्सरात्फलपर्वणोः` (ग।सू।104) इति पाठात् सन्धिवेलाद्यणष्ठञपवादत्वादणत्वेन काले विवक्षिते वुञा मुक्तेऽणेव स्यात्। ठञ्ग्रहणादणमपि बाधित्वा ठञेव भवति॥ Prakriyasarvasvam ----------------- वुञ् च स्यात् । सांवत्सरिकम् । सांवत्सरकम् । आग्रहायणिकम् । आग्रहायणकमृणम् ॥