43048: कलाप्यश्वत्थयवबुसाद्वुन् =============================== **Padacheda:** कलापि-अश्वत्थ-यव-बुसात् | S | 5 | 1 | वुन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix वुञ् comes in the sense of 'debt then due' after the words 1. कलापिन् 2. अश्वत्थ and 3. यवबुस् , denoting time and being in the Locative -7th case. Vasu English Translation ------------------------ The affix वुञ् comes in the sense of 'debt then due' after the words 1. कलापिन् 2. अश्वत्थ and 3. यवबुस् , denoting time and being in the Locative -7th case. The words कलापी &c are words which indirectly denote time. Thus the time in which the peacocks mate and make noise is called कलापी ॥ The time in which the *asvatha* tree fructifies is called अश्वत्थः ॥ The time in which barley is thrashed out is called यवबुस 'barley-chaff'? Thus कलापिनिकाले देयमृणं = कलापकम् 'a debt to be paid when the peacocks make noise (i. e. mating or rainy season) tails.' अश्वत्थकम् and यवबुसकम् ॥ Bhashya ------- कलाप्यश्वत्थयवबुसाद्वुन् (1618) (देयमृणाधिकरणे वुन्प्रत्ययः) (सूत्रार्थोपपादकभाष्यम्) अयुक्तोऽयं निर्देशः। कालादिति वर्तते, न च कलापी नाम कालोऽस्ति॥ नैष दोषः। साहचर्यात्ताच्छब्द्यं भविष्यति। कलापिसहचरितः कालः कलापी काल इति॥ Kashika ------- कालादित्येव। कलापिन् अश्वत्थ यवबुस इत्येतेभ्यः कालवाचिभ्यः सप्तमीसमर्थेभ्यो देयमृणमित्येतस्मिन्नर्थे वुन् प्रत्ययो भवति। कलाप्यादयः शब्दाः साहचर्यात् काले वर्तन्ते। यस्मिन् काले मयूराः कलापिनो भवन्ति, स कलापी। यस्मिन्नश्वत्थाः फलन्ति सोऽश्वत्थः। यस्मिन् यवबुसं संपद्यते स यवबुसशब्देनोच्यते। कलापिनि काले देयमृणम्, कलापकम्। अश्वत्थकम्। यवबुसकम्॥ Siddhanta Kaumudi ----------------- यस्मिन् काले मयूराः कलापिनो भवन्ति स उपचारात्कलापी तत्र देयमृणं कालापकम् । अस्वत्थस्य फलमस्वत्थस्तद्युक्तः कालोप्यश्वत्थः । यस्मिन् काले अश्वत्थाः फलन्ति तत्र देयमश्वत्थकम् । यस्मिन् यवबुसमुत्पद्यते तत्र देयं यवबुसकम् ॥ Balamanorama ------------ **कलाप्यश्वत्थयवबुसाद्वुन्** - कलाप्यआत्थ । कलापिन्, अआत्थ, यवबुस — एभ्यः कालवाचिभ्यः सप्तम्यन्तेभ्यो देयमृणमित्यर्थे वुन्स्यादित्यर्थः । कलापकमिति । वुन् । अकादेशः । 'नस्तद्धिते' इति टिलोपः । अआत्थ इति । विकारप्रत्ययस्य फले लुगिति भावः । अआत्थशब्दस्य प्लक्षादित्वे तु ततःप्लक्षादिभ्योऽ॑णिति फले अणो विधानसामर्थ्याल्लुगभावे अआत्थशब्दः फले लाक्षणिक इति भावः । Tattvabodhini ------------- **कलाप्यश्वत्थयवबुसाद्वुन्** - कलाप्य । अआत्थ इति ।फले लुक् । इह पुंलिङ्गनिर्देशो यद्यप्ययुक्तस्तथापि फले अआत्थशब्द औपचारिक इत्याशयेन पुंलिङ्गप्रयोग इत्याहुः । Padamanjari ----------- मयूरादिषु प्रसिद्धानां कलाप्यादीनां शब्दानां काले वृत्तिर्न सम्भवति, तत्कथम्'कालविशेषविचिभ्यः' इत्युक्तम् ? अत आह - कलाप्यादयः शब्दा इति । अश्वत्थेन वृक्षेण कालस्य सम्बन्धोऽव्यबिचारादविशेषणमिति'फले लुक्' इति लुगन्तोऽश्वत्थशब्द इत्याह - यस्मिन्नश्वत्थाः फलन्तीति । अपकृष्टे यवो यवबुसं जात्यन्तरं वा यवादिवत्, यवानामेव वा बुसं यवबुसम् ॥ Nyaas ----- कथं पुनः कलापादयः शब्दाः काले वर्तन्ते, यावता मयूरादिषु तेषां वृत्तिः प्रसिद्धेत्यत आह - `कालाप्यादयः शब्दाः` इत्यादि। एवमेव विषयं स्पष्टीकरोति - `यस्मिन्काले` इत्यादि। अआत्थशब्दोऽत्र वृक्षविशेषे रूढः। तेन सर्व एव कालः सम्बध्यत इति तद्द्वारेण कालविशेषो न संज्ञायते। तस्मादआत्थफलसहचारिणि कालेऽआत्थशब्दो वर्तत इति दर्शयितुमाह - `यस्मान्नआत्थाः फलन्ति` इत्यादि। अआत्थशब्दो यद्यपि वृक्षे वर्तते, तथापि फले वर्तते एव॥ Prakriyasarvasvam ----------------- यदा मयूराः पिच्छवन्तः स्युः स कालो लक्षणया कलापी । तत्र देयमृणं, कलापकम् । एवमश्वत्थफलवति काले देयमृणम्, अश्वत्थकम् । यवबुसोत्पत्तिकाले देयमृणं यवबुसकम् ॥