43040: उपजानूपकर्णोपनीवेष्ठक्¶
Padacheda: उपजानु-उपकर्ण-उपनीवेः | S | 5 | 1 |
ठक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ठक् comes in the sense of ‘mostly to be found there’ after the words 1. उपजानु 2. उपकरण and 3. उपोनीवि , being in the Locative -7th case.
Vasu English Translation¶
The affix ठक् comes in the sense of ‘mostly to be found there’ after the words 1. उपजानु 2. उपकरण and 3. उपोनीवि , being in the Locative -7th case. This debars अण् &c. Thus औपजानुकः, औपकर्णिकः औपनीविकः ।
Kashika¶
उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः प्रायभव इत्येतस्मिन् विषये ठक् प्रत्ययो भवति। अणोऽपवादः। औपजानुकः। औपकर्णिकः। औपनीविकः॥
Siddhanta Kaumudi¶
औपजानुकः । औपकर्णिकः । औपनीविकः ॥
Balamanorama¶
उपजानूपकर्णोपनीवेष्ठक् - उपजानूपकर्ण । ‘प्रायभव’ इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यष्ठगित्यर्थः । उपजान्वादिषु सामीप्येऽव्ययीभावः । औपजानुक इति । जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः । उगन्तात्परत्वाट्ठस्य कः । औपकर्णिक इति । कर्णस्य समीपमुपकर्ण, तत्पर प्रायभव इत्यर्थः । औपनीविक इति । नीवेः समीपमुपनीवि, तत्र प्रायभव इत्यर्थः ।
Tattvabodhini¶
उपजानूपकर्णोपनीवेष्ठक् - उपजानू ।त्रयोऽप्यमी । सामीप्येऽव्ययीभावाः । तेषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् ।
Padamanjari¶
उपजान्वादयः सामीप्येऽव्ययीभावाः, समाहारद्वन्द्वस्य सौत्रः पुंल्लिङ्गनिर्देशः ॥
Prakriyasarvasvam¶
औपजानुकौ बाहू । औपकर्णिकमीक्षितम् । औपनीविकी काञ्ची ॥
Sutra Prayogas¶
औपनीविकम् (शिशुपालवधम्): उपजानूपकर्णोपनीवेष्ठक् इति ठक्।
औपकर्णिक (भट्टिकाव्यम्): उपजानूपकर्णोपनीचेष्टक् इति शेपमपि शब्दद्वयं प्रयोक्ष्यते।