43040: उपजानूपकर्णोपनीवेष्ठक् ============================= **Padacheda:** उपजानु-उपकर्ण-उपनीवेः | S | 5 | 1 | ठक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix ठक् comes in the sense of 'mostly to be found there' after the words 1. उपजानु 2. उपकरण and 3. उपोनीवि , being in the Locative -7th case. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'mostly to be found there' after the words 1. उपजानु 2. उपकरण and 3. उपोनीवि , being in the Locative -7th case. This debars अण् &c. Thus औपजानुकः, औपकर्णिकः औपनीविकः । Kashika ------- उपजान्वादिभ्यः शब्देभ्यः सप्तमीसमर्थेभ्यः प्रायभव इत्येतस्मिन् विषये ठक् प्रत्ययो भवति। अणोऽपवादः। औपजानुकः। औपकर्णिकः। औपनीविकः॥ Siddhanta Kaumudi ----------------- औपजानुकः । औपकर्णिकः । औपनीविकः ॥ Balamanorama ------------ **उपजानूपकर्णोपनीवेष्ठक्** - उपजानूपकर्ण । 'प्रायभव' इत्यर्थे उपजानु उपकर्ण उपनीवि इत्येभ्यष्ठगित्यर्थः । उपजान्वादिषु सामीप्येऽव्ययीभावः । औपजानुक इति । जानुनः समीपमुपजानु । तत्र प्रायभव इत्यर्थः । उगन्तात्परत्वाट्ठस्य कः । औपकर्णिक इति । कर्णस्य समीपमुपकर्ण, तत्पर प्रायभव इत्यर्थः । औपनीविक इति । नीवेः समीपमुपनीवि, तत्र प्रायभव इत्यर्थः । Tattvabodhini ------------- **उपजानूपकर्णोपनीवेष्ठक्** - उपजानू ।त्रयोऽप्यमी । सामीप्येऽव्ययीभावाः । तेषां समाहारद्वन्द्वे सौत्रं पुंस्त्वम् । Padamanjari ----------- उपजान्वादयः सामीप्येऽव्ययीभावाः, समाहारद्वन्द्वस्य सौत्रः पुंल्लिङ्गनिर्देशः ॥ Prakriyasarvasvam ----------------- औपजानुकौ बाहू । औपकर्णिकमीक्षितम् । औपनीविकी काञ्ची ॥ Sutra Prayogas -------------- * **औपनीविकम्** (शिशुपालवधम्): `उपजानूपकर्णोपनीवेष्ठक्` इति ठक्। * **औपकर्णिक** (भट्टिकाव्यम्): `उपजानूपकर्णोपनीचेष्टक्` इति शेपमपि शब्दद्वयं प्रयोक्ष्यते।