43035: स्थानान्तगोशालखरशालाच्च¶
Padacheda: स्थान-अन्त-गोशाल-खरशालात् | S | 5 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
There is लुक् elision of the affix denoting ‘born therein’ after a word ending in स्थान and after the words 1. गोशाल and 2. खरशाल।
Vasu English Translation¶
There is लुक् elision of the affix denoting ‘born therein’ after a word ending in स्थान and after the words 1. गोशाल and 2. खरशाल। Thus गोस्थाने जातः = गोस्थानः, अश्वस्थानः, गोशालः, खरशालः ॥
Kashika¶
स्थानान्तात् प्रातिपदिकाद् गोशालशब्दात् खरशालशब्दात् च जातार्थे प्रत्ययस्य लुग् भवति। गोस्थाने जातो गोस्थानः। अश्वस्थानः। गोशालः। खरशालः॥
Siddhanta Kaumudi¶
एभ्यो जातार्थप्रत्ययस्य लुक् स्यात् । गोस्थानः । गोशालः । खरशालः । विभाषा सेना -(SK828) इति नपुंसकत्वे ह्रस्वत्वम् ॥
Balamanorama¶
स्थानान्तगोशालखरशालाच्च - स्थानान्तगोशाल । एभ्य इति । स्थानान्त, गोशाल, खरशाल — एतेभ्यः इत्यर्थः । गोस्थान इति । गोस्थाने जात इत्यर्थः । गोशाल इति । गोशाले जात इत्यर्थः । एवं खरशालः । सर्वत्र अणो लुकि नादिवृद्धिः । ननु शालाशब्दस्य स्त्रीलिङ्गत्वाद्ध्रस्वनिर्देशोऽनुपपन्न इत्यत आह — विभाषा सेनेति । लिङ्गविशिष्टपरिभाषया स्त्रीलिङ्गादवपि लुक् ।
Tattvabodhini¶
स्थानान्तगोशालखरशालाच्च - स्थानान्त । गोशालेत्यत्रविभाषा सेने॑ति नपुंसकत्वे ह्रस्वत्वं, तत्साहचर्यत्खरशालेऽप्येवमेव । न चैवं स्त्रीत्वपक्षे लुङ् न स्यादिति शङ्क्यं, लिङ्गविशिष्टपरिभाषया तत्रापि लुक्सिद्धेरित्याहुः । यद्यपि टाबन्तयोः पाठेऽप्येकदेशविकृतन्यायेन क्लीबेऽपीष्टं सिध्यति, तथापि लाघवार्थं ह्रस्वपाठः । नपुंसकत्वे ह्रस्वत्वमिति ।सूत्रे ॑इति शेषः ।
Padamanjari¶
गोशालेति ।’विभाषा सेना’ इति नपुंसकत्वे ह्रस्वत्वम् । तत्साहचर्यात्खरशालस्यापि नपुंसकस्य ग्रहणम्, न तु द्वन्द्वैकवद्भावेन ह्रस्वत्वम् । एकादेशस्य पूर्वं प्रत्यन्तवद्भावाल्लिङ्गविशिष्टयपरिभाषया स्त्रीलिङ्गाभ्यामपि लुग्भवत्येव । यद्यपि टाबन्तयोरपि पाठे एकदेशविकृतस्यानन्यत्वान्नपुंसकाभ्यामपि लुक् सिद्ध्यति, लाघवार्थं तु ह्रस्वस्य पाठः ॥
Nyaas¶
गोशालखरशालयोह्र्यस्वान्तयोः पाठान्नपुंसकयोग्र्रहणं विज्ञायते। नपुंसकलिङ्गता तु विभाषा सेनासुरा (2.4.25) इत्यादिना। यद्यपि नपुंसकयोग्र्रहणम्, तथापि प्रतिपदिकग्रगणे लिङ्गविशिष्टस्यापि ग्रहणं भविष्यतीति स्त्रीलिङ्गाभ्यामपि लुग्भवत्येव। उदाहरणेऽप्यौत्सर्गिस्याणौ लुक्॥
Prakriyasarvasvam¶
एभ्यो जातेऽणो लुक् । अश्वस्थानः । गोष्ठजातो, गोशालः । खरशालः ॥