43034: श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक्

Padacheda: श्रविष्ठा-फल्गुनी-अनुराधा-स्वाति-तिष्य-पुनर्वसु-हस्त-विशाखा-आषाढा-बहुलात् | S | 5 | 1 |

लुक् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix denoting ‘born therein’ is elided by लुक् after the words 1. श्रविष्ठ 2. फाल्गुनी 3. अनुराधा 4. स्वाति 5. तिष्य 6. पुनर्वसु 7. हस्त 8. विशाखा 9. अषाढा and 10. बहुला , all denoting asterisms.

Vasu English Translation

The affix denoting ‘born therein’ is elided by लुक् after the words 1. श्रविष्ठ 2. फाल्गुनी 3. अनुराधा 4. स्वाति 5. तिष्य 6. पुनर्वसु 7. हस्त 8. विशाखा 9. अषाढा and 10. बहुला , all denoting asterisms. The feminine affixes are also elided after these words by (1.2.49). Thus श्रविष्ठासु जातः = श्रविष्ठः ‘produced under Sravishtha’. So also फल्गुनः, अनुराधः, स्वातिः, तिष्यः, पुनर्वसुः, हस्तः, विशाखः, आषाढः, बहुलः ॥ The ‘Bahula’ is another Name of the asterism कृत्तिका ॥

Vart:- So also the affix is elided after the asterisms चित्रा, रेवती and रोहिणी when the word is feminine. Thus चित्रायां जाता ‘a woman produced under Chitra’ will be called चित्रा ॥ So also रेवती, रोहिणी ॥ The feminine affix which would have been elided after the two words Revati and Rohini, by (1.2.49) is reordained by (4.1.41), because these words belong to गौरादि class.

Vart:- The affixes ट and अन् come respectively after फल्गुनी꣡ and आषाढा꣡ in forming the Feminine derivatives. As फल्गुनी꣡ (4.1.15) and अषाढा꣡ ॥ The difference is in accent and meaning.

Vart:- The affix छण् also comes after ‘Sravishtha’ and ‘ashadha’ As श्राविष्ठीयः and आषाढीयः ॥

Bhashya

श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्तविशाखाषाढाबहुलाल्लुक् (1604) (लुकोऽधिकरणम्) (5466 उपसंख्यानवार्तिकम् ॥ 1 ॥) - लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् - (भाष्यम्) लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानं कर्तव्यम्। चित्रायां जाता -चित्रा स्त्री। चित्रा॥ रेवती। रेवती स्त्री। रेवती॥ रोहिणी। रोहिणी स्त्री॥ (5467 विधिवार्तिकम्॥ 2 ॥) - फल्गुन्यषाढाभ्यां टानौ - (भाष्यम्) फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ। फल्गुनी, अषाढा उपदधाति॥ (5468 विधिवार्तिकम्॥ 3 ॥) - श्रविष्ठाषाढाभ्यां छण् - (भाष्यम्) श्रविष्ठाषाढाभ्यां छण्वक्तव्यः। श्राविष्ठीयाः, आषाढीयाः। स तर्हि वक्तव्यः? (5369 प्रथमवार्तिकखण्डनवार्तिकम्॥ 4 ॥) - न वा नक्षत्रेभ्यो बहुलं लुग्वचनात् - (भाष्यम्) न वा वक्तव्यः। किं कारणम्? नक्षत्रेभ्यो बहुलं लुग्वचनात्। नक्षत्रेभ्यो बहुलं लुगित्येवमत्र लुग्भविष्यति॥

Kashika

श्रविष्ठादिभ्यः शब्देभ्यो नक्षत्रेभ्य आगतस्य जातार्थे लुग् भवति। तस्मिन् स्त्रीप्रत्ययस्यापि लुक् तद्धितलुकि (१.२.४९) इति लुग् भवति। श्रविष्ठासु जातः श्रविष्ठः। फल्गुनः। अनुराधः। स्वातिः। तिष्यः। पुनर्वसुः। हस्तः । विशाखः। अषाढः। बहुलः॥ लुक्प्रकरणे चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम्॥ चित्रायां जाता, चित्रा। रेवती। रोहिणी। स्त्रीप्रत्ययस्य लुकि कृते गौरादित्वाद् (४.१.४१) ङीष्॥ फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ॥ फल्गुनी। अषाढा॥ श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः॥ श्राविष्ठीयः। आषाढीयः॥

Siddhanta Kaumudi

एभ्यो नक्षत्रवाचिभ्यः परस्य जातार्थप्रत्ययस्य लुक् स्यात् ॥

Balamanorama

श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्त- विशाखाऽषाढाबहुलाल्लुक् - श्रविष्ठा । एभ्य इति । श्रविष्ठा, फल्गुनी, अनुराधा, स्वाति, तिष्ट, पुर्नर्वसु, हस्त विशाखा, अषाढा, बहुला — एतेभ्यः इत्यर्थः । जातार्थेति । प्रकरणलभ्यमिदम् । स्वातिशब्दो ह्रस्वान्त इति कैयटहरदत्तौ । दीर्घान्त इति ‘अत सातत्यगमने’ इति धातौ माधवः । कृत्तिकावाचिबहुलाशब्दष्टाबन्तः । समाहारद्वन्द्वे ह्रस्वनिर्देशः ।

Tattvabodhini

श्रविष्ठाफल्गुन्यनुराधास्वातितिष्यपुनर्वसुहस्त- विशाखाऽषाढाबहुलाल्लुक् - श्रविष्ठ । इह सूत्रे स्वातिशब्दो ह्रस्वान्त इति कैयटहरदत्तादयः । माधवस्तुदीर्घन्तः॑इतिअत सातत्यगमने॑इति धातावाह । एवं चात्र स्वाती तिष्येति ङीषन्तग्रहणादङीषन्तस्य सौवात इति रूपं भवार्थं इव जातार्थेऽपि माधवमते सिध्यत्वेव । कैयटादिमते तु जातार्थे न सुध्यति । लुग्विधायकेऽस्मिन्ङीषन्तग्रहणेऽपि लिङ्गविशिष्टपरिभाषया ङीषन्तादपि अणो लुकःप्रवृत्तेः ।

Padamanjari

कृतिकापर्यायस्य बहुलाशब्दस्यात्र द्वन्द्वैकवद्भावेन नपुंसकह्रस्वत्वेन निर्देशः, न बह्वर्थादाननिमितस्य बहुलाशब्दस्य; श्रविष्टादिभिः साहचर्यात् । चित्रेति ।’लुक्तद्धितलुकि’ इति लुकि कृते पुनष्टाप् । गौरादिपाठान् ङीषिति । रेवती नक्षत्रे, रोहिणी नक्षत्रेऽ इति तत्र पठ।ल्ते, न चेमौ नक्षत्रवाचिनौ; जातार्थवृत्तित्वात् । तस्माद्’गौरादिषु पिप्पल्यादयश्च’ इति पाठातेषां चावृत्कृतत्वादत्र ङीषित्यर्थः । टानौ वक्तव्याविति । स्त्रियामित्यपेक्ष्यते, टकारो ङीबर्थः, नकारः स्वरार्थः, विधानसामर्थ्याच्चानयोर्लुग्न भवति । च्छणपि वक्तव्य इति । अत्र च’स्त्रियाम्’ इति नापेक्ष्यते ॥

Nyaas

नक्षत्राणः श्रवणे प्राप्ते लुगुच्यते। ननु च नक्षत्रेभ्यो बहुलम् (4.3.37) इत्यनेनैव लुग्भविष्यति? सत्यमेतत्; तस्यैवायं प्रपञ्चः। उत्तरावपि योगौ प्रपञ्चौ तस्यैव वेदितव्यौ।श्रविष्ठादयश्चैते नक्षत्रेण युक्तः कालः (4.2.3) इत्यनेनानगतस्याणः लुबविशेषे (4.2.4) इति कृते लुबन्ता वेदितव्याः।` स्त्रीप्रत्ययस्यापि` लुक् तद्धितलुकि (1.2.49) इति लुग्भवति` इति। ये स्त्रीप्रत्ययान्तास्तेषामुपसंख्यानमिति प्रतिपादनमित्य्रथः। तच्चोपरिष्टात् करिष्यते। चित्रायाष्टापो लुकि कृते पुनष्टाप् क्रियते।गौरादित्वान्ङीष् इति। रेवतीरोहिणीत्यत्र।फल्गुन्यषाढाभ्यां टानौ वक्तव्यौ इति। स्त्रियामित्यपेक्ष्यते। तयोस्तु विधानसामर्थ्यान्न लुग्भवतिष। टस्य टकारो ङीबर्थः, अनो नकार आद्युदात्तार्थः। वक्तव्यशब्दो व्याख्येये वर्तते। व्याख्यानं तु कृतमेव च।श्रविष्ठाषाढाभ्यां छणपि वक्तव्यः इति। अत्र स्त्रियामिति नोपपद्यते। णकारो वृद्ध्यर्थः। वक्तव्यशब्दस्य स एवार्थः। व्याख्यानमपि करिष्यते च। कृतमेव॥

Prakriyasarvasvam

एभ्यो जाते प्रत्ययस्य लुक् स्यात् ॥

Vartika

चित्रारेवतीरोहिणीभ्यः स्त्रियामुपसंख्यानम् ।