43033: अणञौ च¶
Padacheda: अण्-अञौ | S | 1 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
And the affixes अण् and अञ् come respectively after the words 1. सिन्धु and 2. अपकर।
Vasu English Translation¶
And the affixes अण् and अञ् come respectively after the words 1. सिन्धु and 2. अपकर। Thus सैन्धवः꣡ and आ꣡पकरः ॥
Kashika¶
सिन्ध्वपकरशब्दाभ्यां यथासंख्यमणञौ प्रत्ययौ भवतस्तत्र जात इत्येतस्मिन् विषये। पूर्वेण कनि प्राप्ते वचनम्। सैन्धवः। आपकरः॥
Siddhanta Kaumudi¶
क्रमात् स्तः । सैन्धवः । आपकारः ॥
Balamanorama¶
अणञौ च - अणञो च । क्रमात्स्त इति ।सिन्ध्वपकराभ्या॑मिति शेषः ।
Tattvabodhini¶
अणञौ च - अणञौ च । यथासङ्ख्यार्थो योगविभागः ।
Padamanjari¶
योगविभागो यथासंख्यार्थः ॥
Prakriyasarvasvam¶
ad_ref: ४. ३. ३३