43032: सिन्ध्वपकराभ्यां कन्

Padacheda: सिन्धु-अपकराभ्याम् | S | 5 | 2 |

कन् | S | 1 | 1 |

Sutrartha


Vasu English Summary

After the words 1. सिन्धु and 2. अपकर there is the affix कन् in the sense of ‘born therein’.

Vasu English Translation

After the words 1. सिन्धु and 2. अपकर there is the affix कन् in the sense of ‘born therein’. The word सिन्धु occurs in the Kachchhadi class and takes अण् and वुञ् IV. 2.133); and अपकर would have also taken अण् under the general rule. This sutra debars these affixes. Thus सिन्धुकः, अपकरकः ॥

Kashika

सिन्धुशब्दादपकरशब्दात् च कन् प्रत्ययो भवति तत्र जात इत्येतस्मिन् विषये सिन्धुशब्दः कच्छादिः, ततोऽणि मनुष्यवुञि (४.२.१३३.१३४) च प्राप्ते विधानम् अपकरशब्दादप्यौत्सर्गिकेऽणि। सिन्धुकः। अपकरकः॥

Siddhanta Kaumudi

सिन्धुकः ॥ कच्छाद्यणि मनुष्यवुञि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥

Balamanorama

सिन्ध्वपकराभ्यां कन् - सिन्ध्वपकराभ्यां कन् । सिन्धुक इति । सिन्धौ जात इत्यर्थः । कच्छादीति ।कच्छादिभ्यश्चे॑त्यणिमनुष्यतत्स्थयोश्चे॑ति वुञि च प्राप्तेऽयं कन्विधिरित्यर्थः । अपकरक इति । अपकरे जात इत्यर्थः । अणि प्राप्ते इति ।कन्विधि॑रिति शेषः ।

Tattvabodhini

सिन्ध्वपकराभ्यां कन् - सायंचिरं ।नन्वन्तरङ्गत्वात्प्रथमं तुटिमृत्यु॑रित्यादाविव त्युशब्दस्य प्रत्ययतया अङ्गसंज्ञानिमित्तं यो युस्तस्य विधीयमानोऽनादेशो न स्यात् । न चैवं तुगेव क्रियतामिति वाच्यं, तस्य पूर्वान्तत्वेन विसर्गाऽभावात्प्रतस्तनमित्यत्र सत्त्वाऽभावप्रसङ्गात्ष अत आह -तुटः प्रागिति । इत्यादिति । आदिशब्देनघकालतनेषु॑इति ग्राह्रम् । सायंतनमिति । स्यतेर्घञि सायशब्दोऽकारान्तो दिवसावसाने रूढः, तस्य प्रत्ययसंनियोगेन मान्तत्वं निपात्यत इथि वार्तिककृन्मतम् ।भाष्यकृतातुमान्ताव्यय॑मित्याश्रित्य सायंग्रहणं प्रत्याख्यातम् । न चैव सायशब्दात्कालाट्ठञि अनिष्टरूपप्रसङ्गः । तस्य कालवाचित्वाऽभावादनभिधानाद्वेत्याहुः ।चिरपुरुत्परारिभ्यस्त्नो वक्तव्यः । चिरंतनमिति । चिरशब्दस्यापि प्रत्ययसंनियोगेन मान्तता निपात्यत इति भावः । अत्र वदन्ति — स्वरादौ पाठादव्ययत्वादेव सिद्धे सूत्रे चिरमित्येतद्व्यर्थम् । न चादन्ताच्चिरशब्दाट्ठञ्स्यादिति वाच्यम्, त्नेन बाधादिति । एदन्तत्वमिति । प्राह्णः सोढोऽस्य प्राह्णतनमित्याद्यर्थम् । तत्र हि सप्तमी नास्ति । जातार्थेघकालतनेषु॑इत्युलुकाऽपि सिद्धेः । चिरत्नमिति । सूत्रे चिरशब्दस्योपादानाट्टउटउलावपि स्तः । न चैवं सूत्रे चिरशब्दस्य प्रत्याख्यानं न संभवतीति वाच्यम्, मान्ताव्ययादेव टउटउल्विधौ तत्संभवात् । पुरुत्=पूर्वस्मिन्वत्सरे । परारि=पूर्वतरे । अग्रादि । डिमचो डित्त्वं स्पष्टार्थम् ।

Prakriyasarvasvam

सिन्धौ जातः, सिन्धुकः । अवकरकः ॥