43032: सिन्ध्वपकराभ्यां कन् =========================== **Padacheda:** सिन्धु-अपकराभ्याम् | S | 5 | 2 | कन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After the words 1. सिन्धु and 2. अपकर there is the affix कन् in the sense of 'born therein'. Vasu English Translation ------------------------ After the words 1. सिन्धु and 2. अपकर there is the affix कन् in the sense of 'born therein'. The word सिन्धु occurs in the *Kachchhadi* class and takes अण् and वुञ् IV. 2.133); and अपकर would have also taken अण् under the general rule. This *sutra* debars these affixes. Thus सिन्धुकः, अपकरकः ॥ Kashika ------- सिन्धुशब्दादपकरशब्दात् च कन् प्रत्ययो भवति तत्र जात इत्येतस्मिन् विषये सिन्धुशब्दः कच्छादिः, ततोऽणि मनुष्यवुञि (४.२.१३३.१३४) च प्राप्ते विधानम् अपकरशब्दादप्यौत्सर्गिकेऽणि। सिन्धुकः। अपकरकः॥ Siddhanta Kaumudi ----------------- सिन्धुकः ॥ कच्छाद्यणि मनुष्यवुञि च प्राप्ते । अपकरकः । औत्सर्गिकेऽणि प्राप्ते ॥ Balamanorama ------------ **सिन्ध्वपकराभ्यां कन्** - सिन्ध्वपकराभ्यां कन् । सिन्धुक इति । सिन्धौ जात इत्यर्थः । कच्छादीति ।कच्छादिभ्यश्चे॑त्यणिमनुष्यतत्स्थयोश्चे॑ति वुञि च प्राप्तेऽयं कन्विधिरित्यर्थः । अपकरक इति । अपकरे जात इत्यर्थः । अणि प्राप्ते इति ।कन्विधि॑रिति शेषः । Tattvabodhini ------------- **सिन्ध्वपकराभ्यां कन्** - सायंचिरं ।नन्वन्तरङ्गत्वात्प्रथमं तुटिमृत्यु॑रित्यादाविव त्युशब्दस्य प्रत्ययतया अङ्गसंज्ञानिमित्तं यो युस्तस्य विधीयमानोऽनादेशो न स्यात् । न चैवं तुगेव क्रियतामिति वाच्यं, तस्य पूर्वान्तत्वेन विसर्गाऽभावात्प्रतस्तनमित्यत्र सत्त्वाऽभावप्रसङ्गात्ष अत आह -तुटः प्रागिति । इत्यादिति । आदिशब्देनघकालतनेषु॑इति ग्राह्रम् । सायंतनमिति । स्यतेर्घञि सायशब्दोऽकारान्तो दिवसावसाने रूढः, तस्य प्रत्ययसंनियोगेन मान्तत्वं निपात्यत इथि वार्तिककृन्मतम् ।भाष्यकृतातुमान्ताव्यय॑मित्याश्रित्य सायंग्रहणं प्रत्याख्यातम् । न चैव सायशब्दात्कालाट्ठञि अनिष्टरूपप्रसङ्गः । तस्य कालवाचित्वाऽभावादनभिधानाद्वेत्याहुः ।चिरपुरुत्परारिभ्यस्त्नो वक्तव्यः । चिरंतनमिति । चिरशब्दस्यापि प्रत्ययसंनियोगेन मान्तता निपात्यत इति भावः । अत्र वदन्ति — स्वरादौ पाठादव्ययत्वादेव सिद्धे सूत्रे चिरमित्येतद्व्यर्थम् । न चादन्ताच्चिरशब्दाट्ठञ्स्यादिति वाच्यम्, त्नेन बाधादिति । एदन्तत्वमिति । प्राह्णः सोढोऽस्य प्राह्णतनमित्याद्यर्थम् । तत्र हि सप्तमी नास्ति । जातार्थेघकालतनेषु॑इत्युलुकाऽपि सिद्धेः । चिरत्नमिति । सूत्रे चिरशब्दस्योपादानाट्टउटउलावपि स्तः । न चैवं सूत्रे चिरशब्दस्य प्रत्याख्यानं न संभवतीति वाच्यम्, मान्ताव्ययादेव टउटउल्विधौ तत्संभवात् । पुरुत्=पूर्वस्मिन्वत्सरे । परारि=पूर्वतरे । अग्रादि । डिमचो डित्त्वं स्पष्टार्थम् । Prakriyasarvasvam ----------------- सिन्धौ जातः, सिन्धुकः । अवकरकः ॥