43022: सर्वत्राण् च तलोपश्च¶
Padacheda: सर्वत्र | S | 0 | 0 |
अण् | S | 1 | 1 |
च | S | 0 | 0 |
त-लोपः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix अण् comes always after the word हेमन्त and (before this affix) the letter त of हेमन्त is elided.
Vasu English Translation¶
The affix अण् comes always after the word हेमन्त and (before this affix) the letter त of हेमन्त is elided. Thus हैमनम् वासः ‘wintery residence.’ हैमनमुपलेपनम् ॥
The word सर्वत्र is used to show that the sutra applies in the Chhandas as well as in the secular literature.
The word हेमन्त will take अण् by sutra (4.3.16) as हैमन्ती पङ्क्तिः but there is no elision of त there. Thus there are three forms हैमन्तः (4.3.16), हैमन्तिकं (4.3.21) and हैमनम् ॥
Bhashya¶
सर्वत्राण्च तलोपश्च (1592) (अणोऽधिकरणम्) (5455 सूत्रैकदेशप्रत्याख्यानवार्तिकम्॥ 1 ॥) - हेमन्तस्याणि तलोपवचनानर्थक्यं हेम्नः प्रकृत्यन्तरत्वात् - (भाष्यम्) हेमन्तस्याणि तलोपवचनमनर्थकम्। किं कारणम्? हेम्नः प्रकृत्यन्तरत्वात्। प्रकृत्यन्तरं हेमन्शब्दः। आतश्च प्रकृत्यन्तरम्, एवं ह्याह -हेमन् हेमन्नागनीगन्ति कर्णौ तस्मादैतौ हेमन्नशुष्यत इति॥ (5456 प्रत्याख्यानोपष्टम्भकवार्तिकम्॥ 1 ॥) - अलोपदर्शनाच्च - (भाष्यम्) अलोपः खल्वपि दृश्यते - पङि्क्तः हैमन्तीति। (सूत्रप्रत्याख्यानभाष्यम्) अपर आह -हेमन्तस्याण्वचनम्, अणि च तलोपवचनमनर्थम्। किं कारणम्? हेम्नः प्रकृत्यन्तरत्वात् अलोपदर्शनाच्चेत्येव। तत्र ऋतुभ्य इत्येव सिद्धम्॥
Kashika¶
हेमन्तशब्दादण् प्रत्ययो भवति, तत्सन्नियोगेन चास्य तकारलोपः। हैमनं वासः। हैमनमुपलेपनम्। सर्वत्रग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम्। छन्दसि भाषायां च सर्वत्रैतद् भवति। ननु च छन्दसीति नानुवर्तिष्यते? सैवाननुवृत्तिः शब्देनाख्यायते प्रयत्नाधिक्येन पूर्वसूत्रेऽपि संबन्धार्थम्। हैमन्तिकमिति हि भाषायामपि ठञं स्मरन्ति। अथाण्चेति चकारः किमर्थः? अण्, यथाप्राप्तं च ऋत्वणिति। कः पुनरनयोरणोर्विशेषः? ऋत्वणि हि तकारलोपो नास्ति हैमन्ती पङ्क्तिरिति। तदेवं त्रीणि रूपाणि भवन्ति। हैम॑न्तिकम् (तै० सं० ४.४.११.१), हैमन्तम् (पै०सं० १७.२९.११), है॒म॒नम् (शौ०सं० १५.४.१४) इति॥
Siddhanta Kaumudi¶
हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वण् । हैमनम् । हैमन्तम् ॥
Balamanorama¶
सर्वत्राण् च तलोपश्च - सर्वत्राऽण्च । छन्दसीत्यनुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । लोके वेदे चेत्यर्थः ।हेमन्ताच्चे॑ति पूर्वसूत्राद्धेमन्तादित्यनुवर्तते । तदाह — हेमन्तादित्यादिना । ननुसर्वत्राऽण् तलोपश्चे॑त्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह — चकारादिति । हैमनमिति ।हेमन्ते॑त्यत्र तकारात्प्राग् नकारस्यानुस्वारपरसवर्णौ स्थितौ । तत्र तकाराकारसमुदायस्य लोप इति पक्षेअ॑निति प्रकृतिभावान्न टिलोपः । तकारस्यैव लोप इति पक्षे तु अकारस्ययस्येति चे॑ति लोपे तस्य आभीयत्वेनासिद्धत्वात्स्थानिवत्त्वाद्वा न टिलोपः । हैमन्तमिति । ऋत्वणि रूपम् । अत्र न तलोपः, तस्य एतत्सूत्रप्रतिपदोक्ताऽणा संनियोगशिष्टत्वादिति भावः ।
Tattvabodhini¶
सर्वत्राण् च तलोपश्च - सर्वत्राण्च । हेमन्तादिति । एतच्चहेमन्ताच्चे॑त्यतोऽनुवृत्तमिति भावः । हैमनमिति । अकारविशिष्टस्य तशब्दस्य लोपेअन् इति प्रकृतिभावात्नस्तद्धिते॑इति टिलोपो नेति बोध्यम् । हैमन्तमिति । ऋत्वणि तकारलोपो न भवति, तस्यसर्वत्रा॑णिति प्रतिपदोक्तेन अणा सन्नियोगशिष्टत्वात् । एतच्च प्रत्याख्यातं भाष्ये । तथाहि — हेमन्तपर्यायो हेमन्शब्दोऽप्यस्ति,हेमन्नागनीगन्ति कर्णौ॑ इत्यादि प्रयोगात्, ततश्च हेमन् — हेमन्त शब्दाभ्यामृत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम् । छन्दसि तुहेमन्ताच्चे॑ति ठञाहैमन्तिक॑मिति तृतीयमपि रूपं सिध्यति । न च विशेषविहितेन ठञा अणो बाधः शङ्क्यः । छन्दसि सर्वविधीनां वैकल्पिकत्वात् । वृत्तिकृता तुहेमन्ताच्चे॑ति सूत्रे सर्वत्रग्रहणमपकृष्य लोकेऽपि हैमन्तिकमिति स्वीकृतम् ।
Padamanjari¶
हैमनमिति । यदा तशब्दस्य समुदायस्य लोपस्तदा ठन्ऽ इति प्रकृतिभावात्’नस्तद्धिते’ इति टिलोपो न भवति । यदा तु तकारस्यानेन लोपोऽकारस्य तु यस्येति लोपः, तदा तस्य ठसिद्धवदत्राभात्ऽ इत्यसिद्धत्वात्स्थानिवद्भावाच्च टिलोपाभावः । ननु च च्छन्दसीति नानुवर्तिष्यत इति । अस्वरितत्वात् । सैवेत्यादि । यासावस्वरितत्वादनुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते, किमर्थम् ? इत्याह -प्रत्यत्नाधिक्येनेति । ननु च तत एवास्वरितत्वात्पूर्वसूत्रेऽपि च्छन्दसीति नानुवर्तिष्यते, तस्माद्विस्पष्टार्थमेव सर्वत्रग्रहणम् । भाषायामपि ठञं स्मरन्तीति । भाष्ये तु नैतदिष्यते, तथा हि - सूत्रमिदं प्रत्याख्यातम्, कथम् ? हेमन्तपर्यायो हेमन्शब्दोऽस्ति -‘हेमन्नागनीगन्ति कर्णौ, तस्मादेतौ हेमन्नशुष्यतः, तदि हेमन् प्रमीयते हेमन्तो भवति’ इति दर्शनात्, तत्र भाषायां देमन्-हेमन्तशब्दयोरृत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम्, च्छन्दसि तु हेम्नो हैमनम्, हेमन्तस्य’हेमन्ताच्च’ इति ठञि हैमन्तिकम्,’सर्वे विधयश्च्छन्दसि विकल्प्यन्ते’ इति हेमन्तशब्दादेवाणि हैमन्तमिति रूपत्रयं सिद्धमिति । सूत्रकारेण तु भाषायामेतद्वृत्तिविषयादन्यत्रर्तुवाचिनो हेमञ्च्छब्दस्य प्रयोगाभावान् नलोपो विहितः, यथाप्राप्तं च ऋत्वणिति, अनन्तरस्तु ठञ् सर्वत्रग्रहणस्य पूर्वत्रान्वयेनैव सर्वत्र सिद्धिरिति नासौ समुच्चीयते । कः पुनरनयोर्विशेष इति । न कश्चिदिति भावः त्रीणिरूपाणि भवन्तीति । पूर्वेण ठञि एकम्, अनेनाण्तलोपयोर्द्वितीयम्, ऋत्वणि यस्येति लोपे परमिति त्रीणि रूपाणि ॥
Nyaas¶
छन्दसि पूर्वेण ठञि प्राप्ते भाषायामपि ऋत्वणि चैतदुच्यते। सर्वत्रग्रहणम् इत्यादिनि सर्वत्रग्रहणस्य प्रयोजनमाचष्टे। छन्दसि भाषायाञ्च इत्यादिना छन्दोऽधिकारनिवृत्तेः फलं दर्शयति। ननु च इत्यादि। अस्वरित्वादेव च्छन्दसीति नानुवर्तिष्यते, ततो नार्थश्छनदोऽधिकारनिवृत्त्यर्थेन सर्वत्रग्रहणेनेत्यभिप्रायः। सैव इत्यादिना यासावस्वरितत्वादननुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते। किमर्थमित्याह - प्रयत्नादिक्येन इत्यादि। प्रत्यत्नाधिक्यमेतदेव शब्देनाख्यातम्। तेन हेतुना पूर्वसूत्रेऽपि सर्वत्रशब्दस्य सम्बन्धो यथा स्यादित्येवमर्थः शब्देनाख्यायते। कस्मात् पुनः पूर्वसूत्रेऽपि सर्वत्रग्रहणस्य सम्बन्ध इष्यते? इत्याह - हैमन्तिकमिति हि इत्यादि। हिशब्दो हेतौ। आचार्या हि हैमन्तिकमिति भाषायां ठञं स्मसन्ति। स चैवं भाषायामपि सिद्ध्यति, यदि पूर्वसूत्रेऽपि सर्वत्र ग्रहणस्य सम्बन्धो भवति। तत्र हि सति पूर्वसूत्रस्यायमर्थो भवति - हेमन्ताच्च सर्वत्र च्छन्दसि भाषायामपि ठञ् भवतीति। कः पुनरनयोरणो विशेषः`इति। न कश्चिदिति भावः। `ऋत्वणि हि इत्यादिना विशेषं दर्शयति। हैमन्ती इति। टिड्ढाणञ् (4.1.15) इति ङीप्। तदेवम् इत्यादि। यत एव पूर्वसूत्रेण ठञ् भवत्यनेनाण् तलोपसहितः,तेन त्रीणि रूपाणि भवन्ति॥
Prakriyasarvasvam¶
हेमन्तशब्दाल्लोकवेदयोष्ठञ् अण् च स्यात् । अणि तलोपः । तलोपं विना च स्यात् । हैमन्तिकम् । हैमनम् । हैमन्तम् ॥
Sutra Prayogas¶
हैमनैः (रघुवंशम्): सर्वत्राण्च तलोपश्च इति हिमन्त शब्दादण्प्रत्ययस्तलोपश्च।
हैमनीषु (शिशुपालवधम्): सर्वत्राण् च तलोपश्च इति हेमन्तशब्दादण्प्रत्ययः तकारलोपश्च।
हैमनः (शिशुपालवधम्): सर्वत्राण्च तलोपश्च इति हेमन्तशब्दाच्छैषिकोऽण् प्रत्ययः तकार लोपश्च।