43021: हेमन्ताच्च

Padacheda: हेमन्तात् | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

In the छन्दस् (Vedas), the affix ठञ् comes in the remaining senses after the word हेमन्त।

Vasu English Translation

In the छन्दस् (Vedas), the affix ठञ् comes in the remaining senses after the word हेमन्त। This debars अण् (4.3.16). Thus सहश्च सहस्यश्च हैम꣡न्तिकावृतू ॥ The making of two separate Sutras of 20 and 21, is for the sake of the subsequent sutra, in which the anuvritti of word हेमन्त only is taken.

Kashika

छन्दसीत्येव। हेमन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिकावृ॒तू (तै०सं० ४.४.११.१)। योगविभाग उत्तरार्थः॥

Siddhanta Kaumudi

छन्दसि ठञ् । हैमन्तिकम् । योगविभाग उत्तरार्थः । शौनकादिभ्यछन्दसि (SK1486) णिनिः प्रोक्तेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा ॥

Nyaas

योगविभाग उत्तरार्थः इति। सर्वत्राण् च तर्लोपश्च (4.3.22) इति वक्ष्यति, स हेमन्तशब्दस्यैव यथा स्यात्, वसन्तस्य मा भूत्। यदि हेमन्तवसनताभ्याम् इत्येकयोगः क्रियेत, ततो वसन्तस्यापि स्यात्; तस्य ह्रुत्तरत्रानुवृत्तेः॥

Prakriyasarvasvam

ठञ् स्यात् । हैमन्तिकावृतू ।