43022: सर्वत्राण् च तलोपश्च =========================== **Padacheda:** सर्वत्र | S | 0 | 0 | अण् | S | 1 | 1 | च | S | 0 | 0 | त-लोपः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् comes always after the word हेमन्त and (before this affix) the letter त of हेमन्त is elided. Vasu English Translation ------------------------ The affix अण् comes always after the word हेमन्त and (before this affix) the letter त of हेमन्त is elided. Thus हैमनम् वासः 'wintery residence.' हैमनमुपलेपनम् ॥ The word सर्वत्र is used to show that the *sutra* applies in the *Chhandas* as well as in the secular literature. The word हेमन्त will take अण् by *sutra* (4.3.16) as हैमन्ती पङ्क्तिः but there is no elision of त there. Thus there are three forms हैमन्तः (4.3.16), हैमन्तिकं (4.3.21) and हैमनम् ॥ Bhashya ------- सर्वत्राण्च तलोपश्च (1592) (अणोऽधिकरणम्) (5455 सूत्रैकदेशप्रत्याख्यानवार्तिकम्॥ 1 ॥) - हेमन्तस्याणि तलोपवचनानर्थक्यं हेम्नः प्रकृत्यन्तरत्वात् - (भाष्यम्) हेमन्तस्याणि तलोपवचनमनर्थकम्। किं कारणम्? हेम्नः प्रकृत्यन्तरत्वात्। प्रकृत्यन्तरं हेमन्शब्दः। आतश्च प्रकृत्यन्तरम्, एवं ह्याह -हेमन् हेमन्नागनीगन्ति कर्णौ तस्मादैतौ हेमन्नशुष्यत इति॥ (5456 प्रत्याख्यानोपष्टम्भकवार्तिकम्॥ 1 ॥) - अलोपदर्शनाच्च - (भाष्यम्) अलोपः खल्वपि दृश्यते - पङि्क्तः हैमन्तीति। (सूत्रप्रत्याख्यानभाष्यम्) अपर आह -हेमन्तस्याण्वचनम्, अणि च तलोपवचनमनर्थम्। किं कारणम्? हेम्नः प्रकृत्यन्तरत्वात् अलोपदर्शनाच्चेत्येव। तत्र ऋतुभ्य इत्येव सिद्धम्॥ Kashika ------- हेमन्तशब्दादण् प्रत्ययो भवति, तत्सन्नियोगेन चास्य तकारलोपः। हैमनं वासः। हैमनमुपलेपनम्। सर्वत्रग्रहणं छन्दोऽधिकारनिवृत्त्यर्थम्। छन्दसि भाषायां च सर्वत्रैतद् भवति। ननु च छन्दसीति नानुवर्तिष्यते? सैवाननुवृत्तिः शब्देनाख्यायते प्रयत्नाधिक्येन पूर्वसूत्रेऽपि संबन्धार्थम्। हैमन्तिकमिति हि भाषायामपि ठञं स्मरन्ति। अथाण्चेति चकारः किमर्थः? अण्, यथाप्राप्तं च ऋत्वणिति। कः पुनरनयोरणोर्विशेषः? ऋत्वणि हि तकारलोपो नास्ति हैमन्ती पङ्क्तिरिति। तदेवं त्रीणि रूपाणि भवन्ति। हैम॑न्तिकम् (तै० सं० ४.४.११.१), हैमन्तम् (पै०सं० १७.२९.११), है॒म॒नम् (शौ०सं० १५.४.१४) इति॥ Siddhanta Kaumudi ----------------- हेमन्तादण् स्यात्तलोपश्च वेदलोकयोः । चकारात्पक्षे ऋत्वण् । हैमनम् । हैमन्तम् ॥ Balamanorama ------------ **सर्वत्राण् च तलोपश्च** - सर्वत्राऽण्च । छन्दसीत्यनुवृत्तिनिवृत्त्यर्थं सर्वत्रग्रहणम् । लोके वेदे चेत्यर्थः ।हेमन्ताच्चे॑ति पूर्वसूत्राद्धेमन्तादित्यनुवर्तते । तदाह — हेमन्तादित्यादिना । ननुसर्वत्राऽण् तलोपश्चे॑त्येव सिद्धे प्रथमचकारो व्यर्थ इत्यत आह — चकारादिति । हैमनमिति ।हेमन्ते॑त्यत्र तकारात्प्राग् नकारस्यानुस्वारपरसवर्णौ स्थितौ । तत्र तकाराकारसमुदायस्य लोप इति पक्षेअ॑निति प्रकृतिभावान्न टिलोपः । तकारस्यैव लोप इति पक्षे तु अकारस्ययस्येति चे॑ति लोपे तस्य आभीयत्वेनासिद्धत्वात्स्थानिवत्त्वाद्वा न टिलोपः । हैमन्तमिति । ऋत्वणि रूपम् । अत्र न तलोपः, तस्य एतत्सूत्रप्रतिपदोक्ताऽणा संनियोगशिष्टत्वादिति भावः । Tattvabodhini ------------- **सर्वत्राण् च तलोपश्च** - सर्वत्राण्च । हेमन्तादिति । एतच्चहेमन्ताच्चे॑त्यतोऽनुवृत्तमिति भावः । हैमनमिति । अकारविशिष्टस्य तशब्दस्य लोपेअन् इति प्रकृतिभावात्नस्तद्धिते॑इति टिलोपो नेति बोध्यम् । हैमन्तमिति । ऋत्वणि तकारलोपो न भवति, तस्यसर्वत्रा॑णिति प्रतिपदोक्तेन अणा सन्नियोगशिष्टत्वात् । एतच्च प्रत्याख्यातं भाष्ये । तथाहि — हेमन्तपर्यायो हेमन्शब्दोऽप्यस्ति,हेमन्नागनीगन्ति कर्णौ॑ इत्यादि प्रयोगात्, ततश्च हेमन् — हेमन्त शब्दाभ्यामृत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम् । छन्दसि तुहेमन्ताच्चे॑ति ठञाहैमन्तिक॑मिति तृतीयमपि रूपं सिध्यति । न च विशेषविहितेन ठञा अणो बाधः शङ्क्यः । छन्दसि सर्वविधीनां वैकल्पिकत्वात् । वृत्तिकृता तुहेमन्ताच्चे॑ति सूत्रे सर्वत्रग्रहणमपकृष्य लोकेऽपि हैमन्तिकमिति स्वीकृतम् । Padamanjari ----------- हैमनमिति । यदा तशब्दस्य समुदायस्य लोपस्तदा ठन्ऽ इति प्रकृतिभावात्'नस्तद्धिते' इति टिलोपो न भवति । यदा तु तकारस्यानेन लोपोऽकारस्य तु यस्येति लोपः, तदा तस्य ठसिद्धवदत्राभात्ऽ इत्यसिद्धत्वात्स्थानिवद्भावाच्च टिलोपाभावः । ननु च च्छन्दसीति नानुवर्तिष्यत इति । अस्वरितत्वात् । सैवेत्यादि । यासावस्वरितत्वादनुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते, किमर्थम् ? इत्याह -प्रत्यत्नाधिक्येनेति । ननु च तत एवास्वरितत्वात्पूर्वसूत्रेऽपि च्छन्दसीति नानुवर्तिष्यते, तस्माद्विस्पष्टार्थमेव सर्वत्रग्रहणम् । भाषायामपि ठञं स्मरन्तीति । भाष्ये तु नैतदिष्यते, तथा हि - सूत्रमिदं प्रत्याख्यातम्, कथम् ? हेमन्तपर्यायो हेमन्शब्दोऽस्ति -'हेमन्नागनीगन्ति कर्णौ, तस्मादेतौ हेमन्नशुष्यतः, तदि हेमन् प्रमीयते हेमन्तो भवति' इति दर्शनात्, तत्र भाषायां देमन्-हेमन्तशब्दयोरृत्वणि हैमनं हैमन्तमिति रूपद्वयं सिद्धम्, च्छन्दसि तु हेम्नो हैमनम्, हेमन्तस्य'हेमन्ताच्च' इति ठञि हैमन्तिकम्,'सर्वे विधयश्च्छन्दसि विकल्प्यन्ते' इति हेमन्तशब्दादेवाणि हैमन्तमिति रूपत्रयं सिद्धमिति । सूत्रकारेण तु भाषायामेतद्वृत्तिविषयादन्यत्रर्तुवाचिनो हेमञ्च्छब्दस्य प्रयोगाभावान् नलोपो विहितः, यथाप्राप्तं च ऋत्वणिति, अनन्तरस्तु ठञ् सर्वत्रग्रहणस्य पूर्वत्रान्वयेनैव सर्वत्र सिद्धिरिति नासौ समुच्चीयते । कः पुनरनयोर्विशेष इति । न कश्चिदिति भावः त्रीणिरूपाणि भवन्तीति । पूर्वेण ठञि एकम्, अनेनाण्तलोपयोर्द्वितीयम्, ऋत्वणि यस्येति लोपे परमिति त्रीणि रूपाणि ॥ Nyaas ----- छन्दसि पूर्वेण ठञि प्राप्ते भाषायामपि ऋत्वणि चैतदुच्यते। `सर्वत्रग्रहणम्` इत्यादिनि सर्वत्रग्रहणस्य प्रयोजनमाचष्टे। `छन्दसि भाषायाञ्च` इत्यादिना छन्दोऽधिकारनिवृत्तेः फलं दर्शयति। `ननु च` इत्यादि। अस्वरित्वादेव च्छन्दसीति नानुवर्तिष्यते, ततो नार्थश्छनदोऽधिकारनिवृत्त्यर्थेन सर्वत्रग्रहणेनेत्यभिप्रायः। `सैव` इत्यादिना यासावस्वरितत्वादननुवृत्तिः सैव सर्वत्रेत्यनेन शब्देनाख्यायते। किमर्थमित्याह - `प्रयत्नादिक्येन` इत्यादि। प्रत्यत्नाधिक्यमेतदेव शब्देनाख्यातम्। तेन हेतुना पूर्वसूत्रेऽपि सर्वत्रशब्दस्य सम्बन्धो यथा स्यादित्येवमर्थः शब्देनाख्यायते। कस्मात् पुनः पूर्वसूत्रेऽपि सर्वत्रग्रहणस्य सम्बन्ध इष्यते? इत्याह - `हैमन्तिकमिति हि` इत्यादि। हिशब्दो हेतौ। आचार्या हि हैमन्तिकमिति भाषायां ठञं स्मसन्ति। स चैवं भाषायामपि सिद्ध्यति, यदि पूर्वसूत्रेऽपि सर्वत्र ग्रहणस्य सम्बन्धो भवति। तत्र हि सति पूर्वसूत्रस्यायमर्थो भवति - हेमन्ताच्च सर्वत्र च्छन्दसि भाषायामपि ठञ् भवतीति। `कः पुनरनयोरणो विशेषः`इति। न कश्चिदिति भावः। `ऋत्वणि हि` इत्यादिना विशेषं दर्शयति। `हैमन्ती` इति। `टिड्ढाणञ्` (4.1.15) इति ङीप्। `तदेवम्` इत्यादि। यत एव पूर्वसूत्रेण ठञ् भवत्यनेनाण् तलोपसहितः,तेन त्रीणि रूपाणि भवन्ति॥ Prakriyasarvasvam ----------------- हेमन्तशब्दाल्लोकवेदयोष्ठञ् अण् च स्यात् । अणि तलोपः । तलोपं विना च स्यात् । हैमन्तिकम् । हैमनम् । हैमन्तम् ॥ Sutra Prayogas -------------- * **हैमनैः** (रघुवंशम्): `सर्वत्राण्च तलोपश्च` इति `हिमन्त` शब्दादण्प्रत्ययस्तलोपश्च। * **हैमनीषु** (शिशुपालवधम्): `सर्वत्राण् च तलोपश्च` इति हेमन्तशब्दादण्प्रत्ययः तकारलोपश्च। * **हैमनः** (शिशुपालवधम्): `सर्वत्राण्च तलोपश्च` इति हेमन्तशब्दाच्छैषिकोऽण् प्रत्ययः तकार लोपश्च।