43021: हेमन्ताच्च ================= **Padacheda:** हेमन्तात् | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- In the छन्दस् (Vedas), the affix ठञ् comes in the remaining senses after the word हेमन्त। Vasu English Translation ------------------------ In the छन्दस् (Vedas), the affix ठञ् comes in the remaining senses after the word हेमन्त। This debars अण् (4.3.16). Thus सहश्च सहस्यश्च हैम꣡न्तिकावृतू ॥ The making of two separate *Sutras* of 20 and 21, is for the sake of the subsequent *sutra*, in which the *anuvritti* of word हेमन्त only is taken. Kashika ------- छन्दसीत्येव। हेमन्तशब्दाच् छन्दसि विषये ठञ् प्रत्ययो भवति शैषिकः। ऋत्वणोऽपवादः। सह॑श्च सह॒स्य॑श्च॒ हैम॑न्तिकावृ॒तू (तै०सं० ४.४.११.१)। योगविभाग उत्तरार्थः॥ Siddhanta Kaumudi ----------------- छन्दसि ठञ् । हैमन्तिकम् । योगविभाग उत्तरार्थः । शौनकादिभ्यछन्दसि (SK1486) णिनिः प्रोक्तेऽर्थे । छाणोरपवादः । शौनकेन प्रोक्तमधीयते शौनकिनः । वाजसनेयिनः । छन्दसि किम् । शौनकीया शिक्षा ॥ Nyaas ----- `योगविभाग उत्तरार्थः` इति। `सर्वत्राण् च तर्लोपश्च` (4.3.22) इति वक्ष्यति, स हेमन्तशब्दस्यैव यथा स्यात्, वसन्तस्य मा भूत्। यदि `हेमन्तवसनताभ्याम्` इत्येकयोगः क्रियेत, ततो वसन्तस्यापि स्यात्; तस्य ह्रुत्तरत्रानुवृत्तेः॥ Prakriyasarvasvam ----------------- ठञ् स्यात् । हैमन्तिकावृतू ।