42142: कन्थापलदनगरग्रामहृदोत्तरपदात्¶
Padacheda: कन्था-पलद-नगर-ग्राम-हृद-उत्तरपदात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix छ comes in the remaining senses after a वृद्ध words, having the words 1. कन्था 2. पलद 3. नगर 4. ग्राम and 5. हृद , as second terms.
Vasu English Translation¶
The affix छ comes in the remaining senses after a वृद्ध words, having the words 1. कन्था 2. पलद 3. नगर 4. ग्राम and 5. हृद , as second terms. This debars the other affixes such as ठञ् and ञिठ् of 117 ante Thus दाक्षिकन्थीयम्, माहिकिकन्थीयम्, दाक्षिपलदीयम्, माहिकिपलदीयम्, दाक्षिनगरीयं, माहिकिनगरीयम्, दाक्षिग्रामीयम्, माहिकिग्रामीयम्, दाक्षिह्रदीयम्, माहिकिह्रदीयम् ॥
Kashika¶
देश इत्येव, वृद्धादिति च । कन्थाद्युत्तरपदाद् देशवाचिनो वृद्धात् प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। वाहीकग्रामादिलक्षणस्य प्रत्ययस्यापवादः। दाक्षिकन्थीयम्। माहिकिकन्थीयम्। दाक्षिपलदीयम्। माहिकिपलदीयम्। दाक्षिनगरीयम्। माहिकिनगरीयम्। दाक्षिग्रामीयम्। माहिकिग्रामीयम्। दाक्षिह्रदीयम्। माहिकिह्रदीयम्॥
Siddhanta Kaumudi¶
कन्थादिपञ्चकोत्तरपदाद्देशवाचिनो वृद्धाच्छः स्यात् । ठञ् ञिठादेरपवादः । दाक्षिकन्थीयम् । दाक्षिपलदीयम् । दाक्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिहृदीयम् ॥
Balamanorama¶
कन्थापलदनगरग्रामहृदोत्तरपदात् - कन्थापलद । ठञ्ञिठादेरपवाद इति । नगरान्तेरोपधेतो॑रिति वुञोऽपवादः । इतरत्रबाहीकग्रामेभ्यश्चे॑ति ठञ्ञिठयोरपवाद इति विवेकः ।
Tattvabodhini¶
कन्थापलदनगरग्रामहृदोत्तरपदात् - ठञ्ञिठादेरिति । आदिशब्देनरोपधेतोः॑इत्यादिना प्राप्तस्य वुञः ।
Padamanjari¶
अन्तग्रहणेनैव सिद्धम्, नार्थ उतरपदग्रहणेन । न च बहुच्पूर्वे प्रसङ्गः,’प्राचां देशे’ इत्यधिकारात् ॥
Nyaas¶
वाहीकग्रामलक्षणस्य इति। ठञ्ञिठयोश्च। अन्तग्रहणेनैव सिद्ध सत्त्युत्तरपदग्रहणं वैचित्र्यार्थम्॥
Prakriyasarvasvam¶
कन्थाद्युत्तरपदाद् वृद्धाद् देशाच्छः । दाक्षिकन्थीयम् । माहकिफलदीयम् । दाक्षिनगरीयम् । दाक्षिग्रामीयम् । दाक्षिह्रदीयम् । वृद्धत्वेऽपि छौक्तिरेषां वाहीक- ग्रामत्वाट्ठञ्ञिठबाधार्था ॥