42141: वृद्धादकेकान्तखोपधात्

Padacheda: वृद्धात् | S | 5 | 1 |

अक-इक-अन्त-ख-उपधात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix छ comes in the remaining senses after a वृद्ध word denoting a place and ending with अक् or इक् or having ख as its penultimate.

Vasu English Translation

The affix छ comes in the remaining senses after a वृद्ध word denoting a place and ending with अक् or इक् or having ख as its penultimate. The word देशे must be read into the sutra. This debars the अण् of Sutra 132 ante: as well as the affixes ordained by Sutras 117 and 123.

Thus अकः — आरोहणकीयम्, द्रौघणकीयम् ॥ इकः —आश्वपथिकीयम्, शाल्मलिकीयम् ॥ खोपधात् :– कौटिशिखीयम्, आयोमुखीयम् ॥

Vart:- The words सौसुक &c. are also governed by this rule though they end in उक ॥ Thus सौसुकीयम्, मौसुकीयम्, ऐन्द्रवेणुकीयम् ॥

Bhashya

वृद्धादकेकान्तखोपधात् (1562) (सूत्रोपसंख्याने भाष्यम्) इर्कान्तादपीति वक्तव्यम्। इहापि यथा स्यात् -ऐणीकीयः॥ तत्तर्हि वक्तव्यम्? न वक्तव्यम्॥ (5443 लघूपसङ्ख्यानबोधकं वार्तिकम्॥ 1 ॥) - अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम् - (भाष्यम्) अकेकान्तग्रहणे कोपधग्रहणं कर्तव्यम्। किं प्रयोजनम्? सौसुकाद्यर्थम्, सौसुकीयः॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थाध्यायस्य द्वितीये पादे द्वितीयमाह्निकम्॥ पादश्च समाप्तः॥

Kashika

देश इत्येव। वृद्धाद् देशवाचिनोऽक इक इत्येवमन्तात् खकारोपधात् च प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः। कोपधलक्षणस्याणोऽपवादः, वाहीकग्रामलक्षणस्य च प्रत्ययस्य, रोपधेतोः प्राचाम् (४.२.१२३) इति च। अकान्तात् तावत् — आरीहणकीयम्। द्रौघणकीयम्। इकान्तात् — आश्वपथिकीयम्। शाल्मलिकीयम्। खोपधात् — कौटिशिखीयम्। आयोमुखीयम्॥ अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम्॥ सौसुकीयम्। मौसुकीयम्। ऐन्द्रवेणुकीयम्॥

Siddhanta Kaumudi

अक इक एतदन्तात्खोपधाच्च वृद्धाद्देशवाचिनश्छः स्यात् । ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनस्तत्र जातो ब्राह्मणकीयः । शाल्मलिकीयः । आयोमुखीयः ॥

Balamanorama

वृद्धादकेकान्तखोपधात् - वृद्धादकेकान्तखोपधात् । ब्राआहृणकीय इति । कोपधाऽणोऽपवादश्छः । शाल्मलिकीय इति । शाल्मलिको नाम देशः । तत्र भव इत्यर्थः । इकान्तोदाहरणमिदम् । कोपधाऽणपवादः । अयोमुखीय इति ।बाहीकग्रामेभ्यश्चे॑ति ठञ्ञिठयोरपवादश्छः ।

Tattvabodhini

वृद्धादकेकान्तखोपधात् - वृद्धादकेकान्त । ब्राआहृणकीय इति ।कोपधाद॑णित्यण्प्राप्तः । अयोमुखीयमिति । वाहीकग्रामलक्षणौ ठञ्ञिठाविह प्रातौ ।

Padamanjari

आरीहणकीयम्, द्रौहणकीयमिति ।’तेन निर्वृतम्’ इत्यत्रार्थे वुञ्च्छणादिसूत्रेण यो वुञ् तदन्ताभ्यां प्रत्ययः, उदाहरणदिक्चेयमकान्तस्य दर्शिता ।’वृद्धाच्छः’ इत्येव ह्यत्र चः सिद्धः, न ह्यएतौ जनपदवाचिनौ, येन कोपधादणः प्रसङ्गः स्यात् । इदं त्वत्रोदाहरणं द्रष्टव्यम् - ब्राह्मणको नाम जनपदो यत्र ब्राह्मणा आयुधजीविनः’ब्राह्मणकोष्णिके संज्ञायाम्’ इति निपातनात् साधुः, तत्र जातो ब्राह्मणकीय इति । अकेकान्तग्रहणे कोपधग्रहणमिति । सूत्रेऽकेकान्तग्रहणमपनीय कोपधादिति वक्तव्यम्, व्यापकत्वाल्लघुत्वाच्चेत्यर्थः ॥

Nyaas

कोपधलक्षणस्य च इत्यादि। अकेकान्तात् कोपधादण् (4.2.131) इत्यणि प्राप्तेऽणोऽपवादः। कोपधादपि वाहीकग्रामलक्षणस्य ठ()ञो ञिठस्य च। रोपधेतोः प्राचाम् इति। अकेकान्तग्रहणे कोपधग्रहणम् इति। इह सूत्रेऽकेकान्तग्रहणमपनीय कोपधग्रहणं कर्तव्यम्। कोपधादित्येवं वक्तव्यमित्यर्थः॥

Prakriyasarvasvam

अकान्तादिकान्तात् खोपधाच्च वृद्धात् प्राग्देशाच्छः । अनपदवुञाद्यपवादः । ब्राह्मणको नाम देशः । ब्राह्मणकीयम् । आश्वत्थिकीयम् । कोटिशिखीयम् । ‘एङ् प्राचाम्—’ (१-१-७५) इति वृद्धता ।<!अकेकान्तादित्यत्र कोपधादिति वाच्यम्!> (वा० ४-२-१४१) सौसुकीयम् ॥

Vartika

अकेकान्तग्रहणे कोपधग्रहणं सौसुकाद्यर्थम् ।