42133: कच्छादिभ्यश्च¶
Padacheda: कच्छ-आदिभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix अण् comes in the remaining senses after the words कच्छ etc. denoting places.
Vasu English Translation¶
The affix अण् comes in the remaining senses after the words कच्छ etc. denoting places. The word देशे is understood here. This debars वुञ् &c. Thus काच्छः, सैन्धवः, वार्णवः &c. The words कच्छ &c. are not invariable plural words, because by the next sutra, it is shown that these words may signify men and their habits &c. The word विजापक occurs in this list. It would have taken अण् by the last sutra also, because it has क as its penultimate. Its mention in the list is for the sake of the subsequent sutra by which it takes वुञ् also under certain conditions.
1 कच्छ, 2 सिन्धु, 3 वर्णु, 4 गन्धार, 5 मधुमत्, 6 कम्बोज, 7 कश्मीर, 8 साल्व, 9 कुरु, 10 अनुषण्ड (अणु, अण्ड, खण्ड) 11 द्वीप, 12 अनूप, 13 अजवाह, 14 विजापक, 15 कलूतर (कुलून)16 रङ्कु ॥
Bhashya¶
कच्छादिभ्यश्च (1554) (अणोऽधिकरणम्) (जिज्ञासाभाष्यम्) किमर्थं साल्वानां कच्छादिषु पाठः क्रियते? (5438 पाठप्रयोजनवार्तिकम्॥ 1 ॥) - साल्वानां कच्छादिषु पाठोऽण्विधानार्थः - (भाष्यम्) साल्वानां कच्छादिषु पाठोऽण्विधानार्थः क्रियते। अण्यथा स्याद्, वुञ्ञ् मा भूदिति॥ (5439 पाठप्रयोजनाभावबोधकं वार्तिकम्॥ 2 ॥) - न वाऽपदातिगोयवागूग्रहणमवधारणार्थम् - (भाष्यम्) न वैतत्प्रयोजनमस्ति। किं कारणम्? अपदातिगोयवागूग्रहणमवधारणार्थं भविष्यति। अपदातावेव साल्वात्। गोयवाग्वोरेव च साल्वादिति॥
Kashika¶
देश इत्येव। कच्छ इत्येवमादिभ्यो देशवाचिभ्योऽण् प्रत्ययो भवति शैषिकः। वुञादेरपवादः। काच्छः। सैन्धवः। वार्णवः। कच्छशब्दो न बहुवचनविषयः, तस्य मनुष्यतत्स्थयोर्वुञर्थः(४.२.१३४) पाठः। विजापकशब्दः पठ्यते। तस्य कोपधत्वाद् (४.२.१३२) एवाणि सिद्ध इह ग्रहणमुत्तरार्थम्॥ कच्छ। सिन्धु। वर्णु। गन्धार। मधुमत्। कम्बोज। कश्मीर। साल्व। कुरु। रङ्कु। अणु। खण्ड। द्वीप। अनूप। अजवाह। विजापक। कुलून। कच्छादिः॥
Siddhanta Kaumudi¶
देशवाचिभ्योऽण् । वुञादेरपवादः । काच्छः । सैन्धवः ॥
Balamanorama¶
कच्छादिभ्यश्च - कच्छादिभ्यश्च । काच्छ इति । अत्र वुञोऽपवादोऽण् । सैन्धव इति । #ओर्देशे ठञोऽपवादः ।
Tattvabodhini¶
कच्छादिभ्यश्च - सैन्धव इति ।ओर्देशे॑इति ठञ्प्राप्तः । वुञि सिद्धे इति ।मनुष्यतत्स्थयो॑रित्यनेन ।
Padamanjari¶
वुञोदेरपवाद इति । ये जनपदवाचिनो बहुवचनविषयाः, तेभ्यो वुञोऽपवादः, सिन्धुवर्णुशब्दाभ्यामोर्देअशे ठञः । साल्वशब्दः पठ।ल्ते - जनपदलक्षणो वुञ्मा भूदिति । ठपदातौ साल्वात्ऽ’गोयवाग्वोश्च’ इति नियमार्थं भविष्यति - अपदातावेव गोयवाग्वोरेवेति, वृद्धत्वाच्छः प्राप्नोति ॥
Nyaas¶
वुञादेरपवादः इति। आदिशब्देन ठञः। तत्र ये जनपदबहुवचनविषयास्तेभ्यो वुञः प्राप्तस्यापवादः। सिन्धुवर्णुशब्दाभ्यामोर्देशे ठञः (4.2.118) । कच्छशब्दो न बहुवचनविषयः इति। तेन अवृद्धादपि बहुवचनविषयात् (4.2.125) इत्यादिना बाधकस्य वुञोऽप्राप्तावेव सामान्येनाण्सिद्ध एवेति दर्शयति। यद्येवम्, किमर्थं तस्य पाठः? इत्याह - तस्य इत्यादि। उत्तरसूत्रेण वुञ् मनुष्यतस्त्थयोर्यथा स्यादित्यवमर्थः कच्छस्येह पाठः, न त्वनर्थकः। कोपधादेवाण् सिद्धः`इति। पूर्वसूत्रेणेति। `इहग्रहणमुत्तरार्थम् इति। उत्तरसूत्र वुञ् यथा स्यात्॥
Prakriyasarvasvam¶
एभ्यो देशेभ्योऽणेव । कच्छकुरुसिन्धुसिन्ध्वन्तगन्धारकुलूतमधुमद्गर्णरङ्कुष्ठी- पानूपसाल्वादिभ्योऽण् । काच्छः । कौरवः । सैन्धवः सिन्ध्वन्तस्य ‘हृद्भगे’त्युभयपद- वृद्धिः । साक्तुसैन्धवः । गान्धारः । कौलूतः । माधुमतः । वार्णवः । राङ्कवः । द्वैपः । आनूपः । साल्वः । द्वीपस्य धूमादित्वात् द्वैपकोऽपि ॥