42125: अवृद्धादपि बहुवचनविषयात्

Padacheda: अ-वृद्धात् | S | 5 | 1 |

अपि | S | 0 | 0 |

बहुवचन-विषयात् | S | 5 | 1 |

Sutrartha


Vasu English Summary

The affix वुञ् comes in the remaining senses, even after a word which is not a वृद्ध which is always plural, when it denotes an inhabited country or a limit of such country, as well as after such वृद्ध words.

Vasu English Translation

The affix वुञ् comes in the remaining senses, even after a word which is not a वृद्ध which is always plural, when it denotes an inhabited country or a limit of such country, as well as after such वृद्ध words. The words जनपद and तदवधि are to be read into the aphorism. This debars छ and अण् ॥ Thus from अङ्गाः, वङ्गाः and कलिङ्गाः which are non-Vriddha Kingdom denoting words, always having a plural form, we have आङ्ककः, वाङ्गकः and कालिंगकः ॥ Similarly अजमीढाः and अजक्रन्दाः are non-Vriddha always plural words, denoting boundary of kingdom; we have from them आजमीढकः and आजक्रन्दकः ॥ The affix will apply, of course to Vriddha जनपद word by the last sutra, though these be always plural in form. Thus दावर्कः and जाम्बकः from दार्वाः and जाम्बाः ॥ So also to Vriddha words denoting limit of a Kingdom: कालंजराः — कालंजरकः, वैकुलिशाः – वैकुलिशकः ॥

The word विषय is used in the sutra to indicate that the word should be plural in essence, having no corresponding singular form. Therefore the rule will not apply to वर्तन्यः plural of वर्तनी ॥ The derivative from it will be वार्तनः ॥

The word अपि is used in the sutra to indicate that Vriddha-words which would have taken वुञ् by the last sutra are not debarred by this sutra, when they are plural in form. This debarring would have taken place, by the rule of interpretation known as तक्रकौण्डिन्यन्याय; but for the use of the word अपि ॥ This maxim or nyaya is thus explained in Padamanjari:– पूर्वसूत्रे हि जनपदसामान्ये वृद्धात् वुञ् विहितः, यथा ब्राह्मणसामान्ये दधिदानं; इह तु बहुवचनविषयेविशेषेऽवृद्धाद् वुञ्, यथा कौण्डिन्ये तक्रदानं, ततश्च बहुवचनादपि वृद्धाद् वुञिप्राप्ते आरभ्यमाणोऽवृद्धाद् वुञ् वृद्धाद् वुञोबाधकः स्यादित्यपि शब्दन समुच्चीयते इत्यर्थः ॥

Kashika

जनपदतदवध्योरित्येव। अवृद्धाद् वृद्धात् च जनपदात् तदवधिवाचिनश्च बहुवचनविषयात् प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः। अण्छयोरपवादः। अवृद्धाद् जनपदात् तावत् — अङ्गाः। वङ्गाः। कलिङ्गाः। आङ्गकः। वाङ्गकः। कालिङ्गकः। अवृद्धाज्जनपदावधेः — अजमीढाः। अजक्रन्दाः। आजमीढकः। आजक्रन्दकः। वृद्धात् जनपदात् — दार्वाः। जाम्ब्वाः। दार्वकः। जाम्ब्वकः। वृद्धाद् जनपदावधेः — कालञ्जराः। वैकुलिशाः। कालञ्जरकः। वैकुलिशकः। विषयग्रहणमनन्यत्रभावार्थम्। जनपदैकशेषबहुत्वे मा भूत्। वर्तन्यः — वार्तनः। अपिग्रहणं किम्, यावता वृद्धात् पूर्वेणैव सिद्धम्? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायीति समुच्चीयते॥

Siddhanta Kaumudi

अवृद्धाद्वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ् स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात्, आङ्गकः । अवृद्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे माभूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः ॥

Balamanorama

अवृद्धादपि बहुवचनविषयात् - अवृद्धादपि बहुवचनविषयात् । अवृद्धाज्जनपदादिति । ‘उदाह्यियते’ इति शेषः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । अजमीढाख्यो जनपदः कस्यचिज्जनपदस्यावधिः । वृद्धाज्जनपदादिति । ‘उदाह्यियते’ इति शेषः । दार्वक इति । ‘दार्वा’ इति बहुवचनान्तो जनपदविशेषे वर्तते । तत्र भव इत्यर्थः । कालञ्जरक इति । कलञ्जरेषुभव इत्यर्थः ।

Padamanjari

अण्च्छयोरपवाद इति । अवृद्धादणोऽपवादो वृद्धाच्छस्य । इहावृद्धादपि बहुवचनादित्येव सिद्धम्; यौगिको बहुवचनशब्दः - बहूनामर्थानां वचनो बहुवचन इति । यदि वा बहुवचनाद्वहुवचनान्तादित्यर्थः, नार्थो विषयग्रहणेन ? तत्राह - जनपदैकशेषबहुत्व इति । जनपदस्यैकशेषवशेन यद्वहुत्वं तत्रेत्यर्थः । वर्तन्य इति । अवयवभेदेन भेदमाश्रित्य एकशेषः । नायं नित्यबहुवचनान्तः; द्व्येकयोरपि दर्शनात् । तक्रकौण्डिन्यायेनेति । पूर्वसूत्रे हि जनपदसामान्ये वृद्धाद् वुञ् विहितः, यथा - ब्राह्मणसामान्ये दधिदानम् । इह तु बहुवचनविषये विशेषेऽवृद्धाद् वुञ्, यथा - कौण्डिन्ये तक्रदानम्, ततश्च बहुवचनादपि वृद्धाद् वुञि प्राप्ते आरभ्यमाणोऽवृद्धाद् वुञ् वृद्धाद् वुञो बाधकः स्यादित्यापिशब्देन समुच्चीयत इत्यर्थः । इह बहुवचनविषयादित्येतावता सिद्धमवृद्धार्थोऽयमारम्भः । वृद्धाधिकारविच्छेदार्थं त्ववृद्धादपीति वचनम् ॥

Nyaas

अण्छयोरपवादः इति। अवृद्धादणोऽपवादः, वृद्धाच्छस्य। अथ विषयग्रहणं किमर्थम्, विनापि तेन विशेषो लभ्यत एव। कथम्? इह जनपदतदवधिशब्दाभ्यां समानाधिकरणत्वाद्वहुवचनशब्दो न पारिभाषिको विज्ञायते,किं तर्हि? अन्वर्थः - बहूनामर्थानां वचनो यो जनपदस्तदवधिश्चेति। यश्च बहूनामर्थानां वचनः सोऽर्थान् बहून् ब्राऊवन् सामर्थ्यादेव बहुवचनविषयो भवति? इत्याह - विषयग्रहणम् इत्यादि। अनन्यत्रभावः कथं नाम लभ्यत इत्येवमर्थं विषयग्रहणम्। अनन्यत्रभावः किमर्थमिष्यत इत्याह - जनपदैकदेशः क्रियते। वर्तनी च वर्तनी च वर्तनी च वर्तन्यः,तद्बहूनां वाचको भवति। ततश्च यदि विषयघणं न क्रियते ततो वर्तनीषु भव इति वुञ् स्यात्। विषयग्रहणे तु सति न भवति, अनन्यत्रभावो विषयः। तेनैवं विज्ञायते - बहुवचनं न यो व्यभचरति। यश्चैकशेषः स बहूवचनं व्यभिचरति, तस्यहि विवक्षाभावे बहुत्वात्। द्वयोरपि च कदाचिद्वृत्तेः।अपिग्रहणम् इति। अपिग्रहणं हि वृद्धादपि यथा स्यादित्येवमर्थं क्रियते। वृद्धात्पूर्वेणैव सिद्धः प्रत्ययः, तत् किमपिग्रहणेन? तक्रकौण्डिन्यायेन इति। यथा ब्राआहृणेभ्यो दधि दीयता तक्रं कौण्डिन्याय इति सामान्येन वृत्तस्य दधिदानस्य विशेषे वर्तमानेन तक्रदानेन बाधा क्रियते, तथेहापि बहुवचनविषये च सामान्येन प्रवृत्तस्य पूर्वयोगस्य बहुवचनविषये वर्तमानेनानेन योगेन बाधा विज्ञायते। तस्माद्वृद्धादपि यथा स्यादित्यपि शब्देन समुच्चीयते॥

Prakriyasarvasvam

अवृद्धादपि बहुवचननियताज्जनपदात् तदवधेश्च वुञ् । पञ्चालेषु भवः पाञ्चालकः । तदवधेः आजमीढकः ।<!सुसर्वार्धदिक्शब्देभ्यो जनपदस्ये!> (वा० ७-३-१२)ति तदन्तविधेरेतत्पूर्वादपि जनपदात् वुञ् । सुपञ्चालेषु भव इत्यत्र ॥