42124: जनपदतदवध्योश्च¶
Padacheda: जनपद-तद्-अवध्योः | S | 6 | 2 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix वुञ् comes in the remaining senses after a वृद्ध word denoting an inhabited kingdom or a limit of such kingdom
Vasu English Translation¶
The affix वुञ् comes in the remaining senses after a वृद्ध word denoting an inhabited kingdom or a limit of such kingdom The phrases वृद्धात् and देशे are understood here, being qualified by जनपद and तदवधि ॥ This debars the affix छ ॥ Thus आभिसारकः and आदर्शकः are examples of जनपद ॥ And औपुष्टकः and श्यामायनकः from औपुष्ट and श्यामायन two uninhabited countries, are illustrations of जनपदावधि ॥
The अवधि or limit of an inhabited country or जनपद must be a country and not a village. This is so, in order to prevent, by anticipation, the application of छ by (4.2.137) to words like त्रिगर्त्त which is an arid desert: as त्रैगर्त्तकः ॥ The word तदवधि means either “the boundary of that (जनपद)” or “that which itself is a boundary”.
Bhashya¶
जनपदतदवध्योश्च (1545) (वुञ्ञोऽधिकरणम्) (5435 सूत्रातिव्याप्तिप्रदर्शकवार्तिकम्॥ 1 .।) - जनपदतदवध्योर्वुञ्ञ्विधानेऽवयवमात्रात्प्रसङ्गः - (भाष्यम्) जनपदतदवध्योर्वुञ्ञो विधानेऽवयवमात्रात्प्राप्नोति। मौञ्ञ्जो नाम वाहीकेषु ग्रामस्तस्मिन् भवो मौञ्ञ्जीयः॥ एवं तर्हि जनपदादेव जनपदावधेः॥ (5436 सूत्रांशवैर्यथ्यप्रदर्शकवार्तिकम्॥ 2 ॥) - जनपदादिति चेद्वचनानर्थक्यम् - (भाष्यम्) जनपदादिति चेदवधिग्रहणमनर्थकम्। सिद्धं जनपदादित्येव। (सिद्धान्तभाष्यम्) इदं तर्हि प्रयोजनम् -जनपदावधेर्वुञ्ञेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति। किं चान्यत्प्राप्नोति? छः। गर्तोत्तरपदाच्छविधेर्जनपदाद्वुञ्ञ् पूर्वविप्रतिषिद्धमिति वक्ष्यति स पूर्वविप्रतिषेधो न पठितव्यो भवति॥
Kashika¶
वृद्धादित्येव, देश इति च। तद्विशेषणं जनपदतदवधी। वृद्धात् जनपदवाचिनस्तदवधिवाचिनश्च प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः। छस्यापवादः। आभिसारकः। आदर्शकः। जनपदावधेः खल्वपि — औपुष्टकः। श्यामायनकः। तदवधिरपि जनपद एव गृह्यते न ग्रामः। किमर्थं तर्हि अवधिग्रहणम्? बाधकबाधनार्थम्। गर्तोत्तरपदाच्छं बाधित्वा वुञेव जनपदावधेर्भवति। त्रैगर्तकः॥
Siddhanta Kaumudi¶
जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् स्यात् । आदर्शकः । त्रैगर्तकः ॥
Balamanorama¶
जनपदतदवध्योश्च - जनपदतदवध्योश्च । आदर्शक इति । आदर्शो नाम जनपदः । तत्र भव इत्यर्थः । त्रिगत्रो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्तोत्तरपदच्छं बाधितुमिह तदवधिग्रहणम् । तदाह — त्रैगर्तक इति ।
Tattvabodhini¶
जनपदतदवध्योश्च - जनपद । स चासौ अवधिश्चेति कर्मधारयाज्जनपदजरूप एवावधिर्लभ्यते । न च जनपदत्वादेव सिद्धे अवधिग्रहणं व्यर्थं,बुञेव यथा स्यान्नान्य॑दित्येतदर्थं तस्यावश्यकत्वात् । अत एव जनपदावधिवाचिनस्त्रिगर्तशब्दार्तोत्तरपदा॑दिति च्छो न भवति, किंतुअवृद्धादपि बहुवचनविषया॑दित्युत्तरसूत्रेण वुञेव भवतीत्याशयेनोदाहरति — त्रैगर्तक इति ।जनपदतदवध्यो॑रिति सूत्रे जनपदावधिवाचिन उदाहरणं तुश्यामायनकः॑इत्यादि बोध्यम् । नागरा ब्राआहृणा इति । कत्त्र्यादिषुमाहिष्मती॑ति संज्ञाशब्दसाहचर्यात्संज्ञाभूतनगरशब्दस्यैव ढकञानाग रेयके॑इति भाव्यमिति भावः ।
Padamanjari¶
तदवधिरपि जनपद एव गृह्यते इति । स चासाववधिरिति कर्मधारय आश्रीयते, न तु तस्यावधिस्तदवधिरिति षष्ठीसमास इत्यर्थः । तथा हि सति मौञ्जी नामावधिभूतो ग्रामः, तत्र भवो मौञ्जीय इत्यत्रापि स्यात् । कस्य पुनरसाववधिरिति चेत् ? सन्निधानाज्जनपदस्यैवेति विज्ञायते ॥ गर्तोतरपदाच्छ्ंअ बाधित्वेति । अन्यथा तु गर्तोतरपदाच्छाए भवतीत्यस्यावकाशः - वृकगर्तीयः, जनपदवुञोऽवकाशः - आङ्गकः; त्रिगर्तशब्दादुभयप्रसङ्गे परत्वाच्छः स्यात्, ततश्च गर्तोतरपदाच्छविधेर्जनपदाद् वुञ् पूर्वविप्रतिषिद्ध इति पूर्वविप्रतिषेधः पठितव्यो भवति । त्रैगर्तक इति । उतरसूत्रेण वुञ् । एतेनोतरत्र तदवधिग्रहणस्योपयोगं दर्शयति ॥
Nyaas¶
तदवधेरपि इत्यादि। जनपदतदवध्योश्च इत्यत्र तच्छब्देन सन्निहितत्वाज्जनपद एवपरामृश्यते। न चायं षष्ठीसमासः। षष्टीसमासे ह्रजनपदोऽपि योऽवधिस्ततोऽपि वुञ् प्रसज्येत। छ एव तस्येष्यते - मौञ्जी नाम वाहीकानामवधिग्र्रामः, तत्र भवो मौञ्जीय इति। तस्मात् समानाधिकरण एवायं समासः - सएव जनपदोऽवधिर्मर्यादा तदवधिरिति। तेन जनपदावधिरेव एव गृह्यन्ते, न ग्रामः।किमर्थं तर्हि तदवधिग्रहणम् इति। यदि तदवधिरपि जनपद एव गृह्रते,निरर्थकं तर्हि तस्य ग्रहणम्, जनपदाच्च इत्येतावदेव वक्तव्यमित्यभिप्रायः। बाधकबाधनार्थम् इति। गर्तोत्तरपदाद्वक्ष्यमाणश्छ एव परत्वाद्विशेषविहितत्वाच्च बाधकः, तस्य बाधनार्थं तदवधिग्रहणम्।तेनहि त्रिगर्तेषु भवस्त्रैगर्तक इत्यत्रोत्तरसूत्रेण गर्तत्तोत्तरपदाच्छं बाधित्वा वुञेव भवति॥
Prakriyasarvasvam¶
वृद्धाज्जनपदात् जनपदावधेश्च वुञ् । आहिसारकः । त्रैगर्तो जनपदावधि- र्भूतोऽवान्तरजनपदः ! तत्र जातस्त्रैवर्तकः । ‘जनपदावधेरपि ग्रामादेर्नेष्टम्’ ॥