42125: अवृद्धादपि बहुवचनविषयात् =============================== **Padacheda:** अ-वृद्धात् | S | 5 | 1 | अपि | S | 0 | 0 | बहुवचन-विषयात् | S | 5 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix वुञ् comes in the remaining senses, even after a word which is not a वृद्ध which is always plural, when it denotes an inhabited country or a limit of such country, as well as after such वृद्ध words. Vasu English Translation ------------------------ The affix वुञ् comes in the remaining senses, even after a word which is not a वृद्ध which is always plural, when it denotes an inhabited country or a limit of such country, as well as after such वृद्ध words. The words जनपद and तदवधि are to be read into the aphorism. This debars छ and अण् ॥ Thus from अङ्गाः, वङ्गाः and कलिङ्गाः which are non-*Vriddha* Kingdom denoting words, always having a plural form, we have आङ्ककः, वाङ्गकः and कालिंगकः ॥ Similarly अजमीढाः and अजक्रन्दाः are non-*Vriddha* always plural words, denoting boundary of kingdom; we have from them आजमीढकः and आजक्रन्दकः ॥ The affix will apply, of course to *Vriddha* जनपद word by the last *sutra*, though these be always plural in form. Thus दावर्कः and जाम्बकः from दार्वाः and जाम्बाः ॥ So also to *Vriddha* words denoting limit of a Kingdom: कालंजराः — कालंजरकः, वैकुलिशाः -- वैकुलिशकः ॥ The word विषय is used in the *sutra* to indicate that the word should be plural in essence, having no corresponding singular form. Therefore the rule will not apply to वर्तन्यः plural of वर्तनी ॥ The derivative from it will be वार्तनः ॥ The word अपि is used in the *sutra* to indicate that *Vriddha*-words which would have taken वुञ् by the last *sutra* are not debarred by this *sutra*, when they are plural in form. This debarring would have taken place, by the rule of interpretation known as तक्रकौण्डिन्यन्याय; but for the use of the word अपि ॥ This maxim or *nyaya* is thus explained in *Padamanjari*:-- पूर्वसूत्रे हि जनपदसामान्ये वृद्धात् वुञ् विहितः, यथा ब्राह्मणसामान्ये दधिदानं; इह तु बहुवचनविषयेविशेषेऽवृद्धाद् वुञ्, यथा कौण्डिन्ये तक्रदानं, ततश्च बहुवचनादपि वृद्धाद् वुञिप्राप्ते आरभ्यमाणोऽवृद्धाद् वुञ् वृद्धाद् वुञोबाधकः स्यादित्यपि शब्दन समुच्चीयते इत्यर्थः ॥ Kashika ------- जनपदतदवध्योरित्येव। अवृद्धाद् वृद्धात् च जनपदात् तदवधिवाचिनश्च बहुवचनविषयात् प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः। अण्छयोरपवादः। अवृद्धाद् जनपदात् तावत् — अङ्गाः। वङ्गाः। कलिङ्गाः। आङ्गकः। वाङ्गकः। कालिङ्गकः। अवृद्धाज्जनपदावधेः — अजमीढाः। अजक्रन्दाः। आजमीढकः। आजक्रन्दकः। वृद्धात् जनपदात् — दार्वाः। जाम्ब्वाः। दार्वकः। जाम्ब्वकः। वृद्धाद् जनपदावधेः — कालञ्जराः। वैकुलिशाः। कालञ्जरकः। वैकुलिशकः। विषयग्रहणमनन्यत्रभावार्थम्। जनपदैकशेषबहुत्वे मा भूत्। वर्तन्यः — वार्तनः। अपिग्रहणं किम्, यावता वृद्धात् पूर्वेणैव सिद्धम्? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायीति समुच्चीयते॥ Siddhanta Kaumudi ----------------- अवृद्धाद्वृद्धाच्च जनपदतदवधिवाचिनो बहुवचनविषयात्प्रातिपदिकाद्वुञ् स्यात् । अवृद्धादणो वृद्धाच्छस्यापवादः । अवृद्धाज्जनपदात्, आङ्गकः । अवृद्धाज्जनपदावधेः, आजमीढकः । वृद्धाज्जनपदात्, दार्वकः । वृद्धाज्जनपदावधेः, कालञ्जरकः । विषयग्रहणं किम् । एकशेषेण बहुत्वे माभूत् । वर्तनी च वर्तनी च वर्तनी च वर्तन्यः, तासु भवो वार्तनः ॥ Balamanorama ------------ **अवृद्धादपि बहुवचनविषयात्** - अवृद्धादपि बहुवचनविषयात् । अवृद्धाज्जनपदादिति । 'उदाह्यियते' इति शेषः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । आजमीढक इति । अजमीढेषु भव इत्यर्थः । अजमीढाख्यो जनपदः कस्यचिज्जनपदस्यावधिः । वृद्धाज्जनपदादिति । 'उदाह्यियते' इति शेषः । दार्वक इति । 'दार्वा' इति बहुवचनान्तो जनपदविशेषे वर्तते । तत्र भव इत्यर्थः । कालञ्जरक इति । कलञ्जरेषुभव इत्यर्थः । Padamanjari ----------- अण्च्छयोरपवाद इति । अवृद्धादणोऽपवादो वृद्धाच्छस्य । इहावृद्धादपि बहुवचनादित्येव सिद्धम्; यौगिको बहुवचनशब्दः - बहूनामर्थानां वचनो बहुवचन इति । यदि वा बहुवचनाद्वहुवचनान्तादित्यर्थः, नार्थो विषयग्रहणेन ? तत्राह - जनपदैकशेषबहुत्व इति । जनपदस्यैकशेषवशेन यद्वहुत्वं तत्रेत्यर्थः । वर्तन्य इति । अवयवभेदेन भेदमाश्रित्य एकशेषः । नायं नित्यबहुवचनान्तः; द्व्येकयोरपि दर्शनात् । तक्रकौण्डिन्यायेनेति । पूर्वसूत्रे हि जनपदसामान्ये वृद्धाद् वुञ् विहितः, यथा - ब्राह्मणसामान्ये दधिदानम् । इह तु बहुवचनविषये विशेषेऽवृद्धाद् वुञ्, यथा - कौण्डिन्ये तक्रदानम्, ततश्च बहुवचनादपि वृद्धाद् वुञि प्राप्ते आरभ्यमाणोऽवृद्धाद् वुञ् वृद्धाद् वुञो बाधकः स्यादित्यापिशब्देन समुच्चीयत इत्यर्थः । इह बहुवचनविषयादित्येतावता सिद्धमवृद्धार्थोऽयमारम्भः । वृद्धाधिकारविच्छेदार्थं त्ववृद्धादपीति वचनम् ॥ Nyaas ----- `अण्छयोरपवादः` इति। अवृद्धादणोऽपवादः, वृद्धाच्छस्य। अथ विषयग्रहणं किमर्थम्, विनापि तेन विशेषो लभ्यत एव। कथम्? इह जनपदतदवधिशब्दाभ्यां समानाधिकरणत्वाद्वहुवचनशब्दो न पारिभाषिको विज्ञायते,किं तर्हि? अन्वर्थः - बहूनामर्थानां वचनो यो जनपदस्तदवधिश्चेति। यश्च बहूनामर्थानां वचनः सोऽर्थान् बहून् ब्राऊवन् सामर्थ्यादेव बहुवचनविषयो भवति? इत्याह - `विषयग्रहणम्` इत्यादि। अनन्यत्रभावः कथं नाम लभ्यत इत्येवमर्थं विषयग्रहणम्। अनन्यत्रभावः किमर्थमिष्यत इत्याह - जनपदैकदेशः क्रियते। वर्तनी च वर्तनी च वर्तनी च वर्तन्यः,तद्बहूनां वाचको भवति। ततश्च यदि विषयघणं न क्रियते ततो वर्तनीषु भव इति वुञ् स्यात्। विषयग्रहणे तु सति न भवति, अनन्यत्रभावो विषयः। तेनैवं विज्ञायते - बहुवचनं न यो व्यभचरति। यश्चैकशेषः स बहूवचनं व्यभिचरति, तस्यहि विवक्षाभावे बहुत्वात्। द्वयोरपि च कदाचिद्वृत्तेः।`अपिग्रहणम्` इति। अपिग्रहणं हि वृद्धादपि यथा स्यादित्येवमर्थं क्रियते। वृद्धात्पूर्वेणैव सिद्धः प्रत्ययः, तत् किमपिग्रहणेन? `तक्रकौण्डिन्यायेन` इति। यथा `ब्राआहृणेभ्यो दधि दीयता तक्रं कौण्डिन्याय` इति सामान्येन वृत्तस्य दधिदानस्य विशेषे वर्तमानेन तक्रदानेन बाधा क्रियते, तथेहापि बहुवचनविषये च सामान्येन प्रवृत्तस्य पूर्वयोगस्य बहुवचनविषये वर्तमानेनानेन योगेन बाधा विज्ञायते। तस्माद्वृद्धादपि यथा स्यादित्यपि शब्देन समुच्चीयते॥ Prakriyasarvasvam ----------------- अवृद्धादपि बहुवचननियताज्जनपदात् तदवधेश्च वुञ् । पञ्चालेषु भवः पाञ्चालकः । तदवधेः आजमीढकः । (वा० ७-३-१२)ति तदन्तविधेरेतत्पूर्वादपि जनपदात् वुञ् । सुपञ्चालेषु भव इत्यत्र ॥