42124: जनपदतदवध्योश्च ===================== **Padacheda:** जनपद-तद्-अवध्योः | S | 6 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix वुञ् comes in the remaining senses after a वृद्ध word denoting an inhabited kingdom or a limit of such kingdom Vasu English Translation ------------------------ The affix वुञ् comes in the remaining senses after a वृद्ध word denoting an inhabited kingdom or a limit of such kingdom The phrases वृद्धात् and देशे are understood here, being qualified by जनपद and तदवधि ॥ This debars the affix छ ॥ Thus आभिसारकः and आदर्शकः are examples of जनपद ॥ And औपुष्टकः and श्यामायनकः from औपुष्ट and श्यामायन two uninhabited countries, are illustrations of जनपदावधि ॥ The अवधि or limit of an inhabited country or जनपद must be a country and not a village. This is so, in order to prevent, by anticipation, the application of छ by (4.2.137) to words like त्रिगर्त्त which is an arid desert: as त्रैगर्त्तकः ॥ The word तदवधि means either "the boundary of that (जनपद)" or "that which itself is a boundary". Bhashya ------- जनपदतदवध्योश्च (1545) (वुञ्ञोऽधिकरणम्) (5435 सूत्रातिव्याप्तिप्रदर्शकवार्तिकम्॥ 1 .।) - जनपदतदवध्योर्वुञ्ञ्विधानेऽवयवमात्रात्प्रसङ्गः - (भाष्यम्) जनपदतदवध्योर्वुञ्ञो विधानेऽवयवमात्रात्प्राप्नोति। मौञ्ञ्जो नाम वाहीकेषु ग्रामस्तस्मिन् भवो मौञ्ञ्जीयः॥ एवं तर्हि जनपदादेव जनपदावधेः॥ (5436 सूत्रांशवैर्यथ्यप्रदर्शकवार्तिकम्॥ 2 ॥) - जनपदादिति चेद्वचनानर्थक्यम् - (भाष्यम्) जनपदादिति चेदवधिग्रहणमनर्थकम्। सिद्धं जनपदादित्येव। (सिद्धान्तभाष्यम्) इदं तर्हि प्रयोजनम् -जनपदावधेर्वुञ्ञेव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति। किं चान्यत्प्राप्नोति? छः। गर्तोत्तरपदाच्छविधेर्जनपदाद्वुञ्ञ् पूर्वविप्रतिषिद्धमिति वक्ष्यति स पूर्वविप्रतिषेधो न पठितव्यो भवति॥ Kashika ------- वृद्धादित्येव, देश इति च। तद्विशेषणं जनपदतदवधी। वृद्धात् जनपदवाचिनस्तदवधिवाचिनश्च प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैषिकः। छस्यापवादः। आभिसारकः। आदर्शकः। जनपदावधेः खल्वपि — औपुष्टकः। श्यामायनकः। तदवधिरपि जनपद एव गृह्यते न ग्रामः। किमर्थं तर्हि अवधिग्रहणम्? बाधकबाधनार्थम्। गर्तोत्तरपदाच्छं बाधित्वा वुञेव जनपदावधेर्भवति। त्रैगर्तकः॥ Siddhanta Kaumudi ----------------- जनपदवाचिनस्तदवधिवाचिनश्च वृद्धाद्वुञ् स्यात् । आदर्शकः । त्रैगर्तकः ॥ Balamanorama ------------ **जनपदतदवध्योश्च** - जनपदतदवध्योश्च । आदर्शक इति । आदर्शो नाम जनपदः । तत्र भव इत्यर्थः । त्रिगत्रो नाम जनपदविशेषस्यावधिः । जनपदत्वेन सिद्धावपि त्रिगर्तशब्दे परमपि गर्तोत्तरपदच्छं बाधितुमिह तदवधिग्रहणम् । तदाह — त्रैगर्तक इति । Tattvabodhini ------------- **जनपदतदवध्योश्च** - जनपद । स चासौ अवधिश्चेति कर्मधारयाज्जनपदजरूप एवावधिर्लभ्यते । न च जनपदत्वादेव सिद्धे अवधिग्रहणं व्यर्थं,बुञेव यथा स्यान्नान्य॑दित्येतदर्थं तस्यावश्यकत्वात् । अत एव जनपदावधिवाचिनस्त्रिगर्तशब्दार्तोत्तरपदा॑दिति च्छो न भवति, किंतुअवृद्धादपि बहुवचनविषया॑दित्युत्तरसूत्रेण वुञेव भवतीत्याशयेनोदाहरति — त्रैगर्तक इति ।जनपदतदवध्यो॑रिति सूत्रे जनपदावधिवाचिन उदाहरणं तुश्यामायनकः॑इत्यादि बोध्यम् । नागरा ब्राआहृणा इति । कत्त्र्यादिषुमाहिष्मती॑ति संज्ञाशब्दसाहचर्यात्संज्ञाभूतनगरशब्दस्यैव ढकञानाग रेयके॑इति भाव्यमिति भावः । Padamanjari ----------- तदवधिरपि जनपद एव गृह्यते इति । स चासाववधिरिति कर्मधारय आश्रीयते, न तु तस्यावधिस्तदवधिरिति षष्ठीसमास इत्यर्थः । तथा हि सति मौञ्जी नामावधिभूतो ग्रामः, तत्र भवो मौञ्जीय इत्यत्रापि स्यात् । कस्य पुनरसाववधिरिति चेत् ? सन्निधानाज्जनपदस्यैवेति विज्ञायते ॥ गर्तोतरपदाच्छ्ंअ बाधित्वेति । अन्यथा तु गर्तोतरपदाच्छाए भवतीत्यस्यावकाशः - वृकगर्तीयः, जनपदवुञोऽवकाशः - आङ्गकः; त्रिगर्तशब्दादुभयप्रसङ्गे परत्वाच्छः स्यात्, ततश्च गर्तोतरपदाच्छविधेर्जनपदाद् वुञ् पूर्वविप्रतिषिद्ध इति पूर्वविप्रतिषेधः पठितव्यो भवति । त्रैगर्तक इति । उतरसूत्रेण वुञ् । एतेनोतरत्र तदवधिग्रहणस्योपयोगं दर्शयति ॥ Nyaas ----- `तदवधेरपि` इत्यादि। `जनपदतदवध्योश्च` इत्यत्र तच्छब्देन सन्निहितत्वाज्जनपद एवपरामृश्यते। न चायं षष्ठीसमासः। षष्टीसमासे ह्रजनपदोऽपि योऽवधिस्ततोऽपि वुञ् प्रसज्येत। छ एव तस्येष्यते - मौञ्जी नाम वाहीकानामवधिग्र्रामः, तत्र भवो मौञ्जीय इति। तस्मात् समानाधिकरण एवायं समासः - सएव जनपदोऽवधिर्मर्यादा तदवधिरिति। तेन जनपदावधिरेव एव गृह्यन्ते, न ग्रामः।`किमर्थं तर्हि तदवधिग्रहणम्` इति। यदि तदवधिरपि जनपद एव गृह्रते,निरर्थकं तर्हि तस्य ग्रहणम्, `जनपदाच्च` इत्येतावदेव वक्तव्यमित्यभिप्रायः। `बाधकबाधनार्थम्` इति। गर्तोत्तरपदाद्वक्ष्यमाणश्छ एव परत्वाद्विशेषविहितत्वाच्च बाधकः, तस्य बाधनार्थं तदवधिग्रहणम्।तेनहि त्रिगर्तेषु भवस्त्रैगर्तक इत्यत्रोत्तरसूत्रेण गर्तत्तोत्तरपदाच्छं बाधित्वा वुञेव भवति॥ Prakriyasarvasvam ----------------- वृद्धाज्जनपदात् जनपदावधेश्च वुञ् । आहिसारकः । त्रैगर्तो जनपदावधि- र्भूतोऽवान्तरजनपदः ! तत्र जातस्त्रैवर्तकः । 'जनपदावधेरपि ग्रामादेर्नेष्टम्' ॥