42117: वाहीकग्रामेभ्यश्च¶
Padacheda: वाहीक-ग्रामेभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affixes ठञ् and ञिठ् come in the remaining senses after the वृद्ध words denoting the villages of वाहीक।
Vasu English Translation¶
The affixes ठञ् and ञिठ् come in the remaining senses after the वृद्ध words denoting the villages of वाहीक। The word वृद्धात् is to be read into this sutra. This debars the affix छ (4.2.114). Thus शाकलिकी or शाकलिका, मान्थविकी or मान्थविका ॥
Kashika¶
वृद्धादित्येव। वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ्ञिठौ प्रत्ययौ भवतः शैषिकौ। छस्यापवादौ। शाकलिकी, शाकलिका। मान्थविकी, मान्थविका॥
Siddhanta Kaumudi¶
वाहीकग्रामवाचिभ्यो वृद्धेभ्यष्ठञ् ञिठौ स्तः । छस्यापवादः । कास्तीरं नाम वाहीकग्रामः । कास्तीरिकी । कास्तीरिका ॥
Balamanorama¶
वाहीकग्रामेभ्यश्च - तदाह — वाहीकग्रामवाचिभ्य इति ।
Tattvabodhini¶
वाहीकग्रामेभ्यश्च - वृद्धादेवेति ।वृद्धाच्चेत्प्राचमेवे॑ति विपरीतनियमस्तु न भवति,अप्राग्देशवाचिनो वृद्धस्य उवर्णान्तस्याऽभावात् ।
Padamanjari¶
च्छस्यापवादौ इति । एवं च ये छेनैव बाधिता अव्ययतीररूप्योतरपदोदीच्यग्रामकोपधविषयास्तद्विषयेऽप्येतावेव भवतः, न चेदन्येन बाधः, तद्यथा - आरान्नाम वाहीकग्रामः आरात्की, आरात्का, ठिसुक्तान्तात्कःऽ । तथा कास्तीरं नाम वाहीकग्रामः कास्तीरिकी, कास्तीरिका । इह तु दाशरूप्यं नाम वाहीकग्रामः,’धन्वयोपधात्’ इति वुञ् ठञ्ञिठौ बाधते - दाशरूप्यकः । तथा शकलान्यस्मिन्सन्ति शाकलं नामोदीच्यग्रामः भूयो वाहीकग्रामः, ततष्ठञ्ञिठौ भवतः - शाकलिकी, शाकलिका । इह तु सौसुकं नाम वाहीकग्रामः प्रस्थोतरपदादिसूत्रेण प्राप्तं कोपधलक्षणमणं छाए बाधते, परत्वातमप्यपवादत्वाद्’वृद्धादकेकान्त’ इत्यत्र’कोपधग्रहणं सोसुकाद्यर्थम्’ इति कोपलक्षणश्लो बाधते, सौसुकीयः ॥
Prakriyasarvasvam¶
वृद्धेभ्यो म्लेच्छग्रामेभ्यष्ठञ्ञिठौ स्तः । मान्थविकी । मान्थविका ॥