42107: दिक्पूर्वपदादसंज्ञायां ञः

Padacheda: दिक्-पूर्वपदात् | S | 5 | 1 |

अ-संज्ञायाम् | S | 7 | 1 |

ञः | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ञ comes in the remaining senses after a word preceded by another that signifies ‘direction’ provided the compound is not a name.

Vasu English Translation

The affix ञ comes in the remaining senses after a word preceded by another that signifies ‘direction’ provided the compound is not a name. To a stem, whose first member is a word denoting direction, and which is not a Name, the affix ञ is added, forming the feminine in आ ॥ The word असंज्ञायाम् qualifies the ‘base’. This debars अण् ॥ Thus पूर्वशाला + ञ = पौर्वशालः (6.4.148), (7.2.117) ‘who is in the eastern hall’. Similarly दाक्षिणशालः, आपरशालः ॥

Why do we say “when not a Name”? Observe, from the word पूर्वेषुकामशमी (2.1.50) we have पूर्वैषुकामशमः (7.3.14), The example illustrates how first a compound of Tatpurusha kind is formed by the words पुव + इषु-कामशामी; “Ishukamshami-in-the-East”; the whole being the name of the city. Then when the Taddhita affix is added to this word, the first vowel is not vriddhied, as is the general rule (7.2.117); but the first vowel of the second member of the compound is vriddhied, viz the letter इ of इषुकामशमी by rule (7.3.14). Similarly अपरैषुकामशमः “who is in Ishukamashami-in-the-West”.

The word ‘पद’ is used in the sutra for the sake of percision, for had the sutra been दिक्पूर्वादसंज्ञायां, there would rise the doubt, whether the the word-form दिक् was meant, or words denoting दिक् were meant. In fact the स्वरूपविधि is debarred by the use of the word ॥ For had it meant दिक्; the rule would have applied to words like दिग्गजः &c.

Kashika

असंज्ञायामिति प्रकृतिविशेषणम्। दिक्पूर्वपदात् प्रातिपदिकादसंज्ञाविषयाद् ञः प्रत्ययो भवति शैषिकः। अणोऽपवादः। पौर्वशालः। दाक्षिणशालः। आपरशालः। असंज्ञायामिति किम्? पूर्वैषुकामशमः। अपरैषुकामशमः। दिक्संख्ये संज्ञायाम् (२.१.५०) इति समासः। प्राचां ग्रामनगराणाम् (७.३.१४) इत्युत्तरपदवृद्धिः। पदग्रहणं स्वरूपविधिनिरासार्थम्॥

Siddhanta Kaumudi

अणोपवादः । पौर्वशालः । असंज्ञायां किम् । संज्ञाभूतायाः प्रकृतेर्माभूत् । पूर्वेषुकामशम्यां भवः पूर्वैषुकामशमः ।प्राचां ग्रामनगरणाम् (SK1400) इत्युत्तरपदवृद्धिः ॥

Laghu Siddhanta Kaumudi

अस्माद्भवाद्यर्थे ञः स्यादसंज्ञायाम्॥

Balamanorama

दिक्पूर्वपदादसंज्ञायां ञः - दिक्पूर्वपदात् । पञ्चम्यर्थे सप्तमी । असंज्ञाभूताद्दिक्पूर्वपदकाञ्ञः स्यादित्यर्थः । पौर्वशाल इति । पूर्वस्यां शालायां भव इत्यर्थे ‘तद्धितार्थ’ इति समासाञ्ञः ।

Tattvabodhini

दिक्पूर्वपदादसंज्ञायां ञः - दिक्पूर्व ।असंज्ञायामि॑त्यत्र सौत्रत्वात्पञ्चम्यर्थे सप्तमीत्याशयेनाह -संज्ञाभूताया इति ।

Padamanjari

असंज्ञायामिति । न चैवमसंज्ञाया इति पञ्चम्या निर्देशः, विषयसप्तम्यापि तदर्थलाभादित्याह - संज्ञाविषयादिति । पौर्वशाल इति । पूर्वस्यां शालायां भव इति तद्धितार्थे समासः, ततः प्रत्ययः । पदग्रहणमित्यादि ।’दिक्पूर्वाद्’ इत्युच्यमाने स्वरूपं स्यात्, ततश्च दिग्गज इत्यादेरेवस्यात् । पदग्रहणे तु सति दिग्विशेषवाचिनां ग्रहणं भवति, कथम् ? व्यधिकरणपदो बहुव्रीहिः - दिशः पूर्वपदमस्मिन्निति,’दिशः’ इति वाचकापेक्षया षष्ठी, दिशो वाचकं पूर्वपदस्मिन्नित्यर्थः ॥

Nyaas

पौर्वशालः`इति। पूर्वस्यां शालायां भवः पौर्वशालः। `तद्धितार्थः (2.1.50) इत्यादिना तद्धितार्थे समासः, ततः प्रत्ययः।अथ पदग्रहणं किमर्थम्? न दिक्पूर्वात् इत्येवोच्येत? इत्यत आह - पदग्रहणम् इत्यादि। असति हि पदग्रहण स्वरूपग्रहणं स्यात्। तथा च दिग्गजः, दिग्नागः, दिग्दाहः - इत्येवमादिः प्रकृतिर्विज्ञायते। पदग्रहणे तु सति दिग्विशेषो गृह्रते,कथम्? पदग्रहणसामर्थ्याद्व्याधिकरणे बहुव्रीहिर्विज्ञायते - दिशः पूर्वपदं यस्य। दिश इति च वाचकापेक्षया षष्ठी विज्ञायते। तेनेह तदभिधायी पूर्वादिदिक्शब्दो गृह्रते।

Prakriyasarvasvam

पूर्वशालायां भवः पौर्वशालः । संज्ञारूपात् तु न । प्राग्देशे पूर्वकृष्णमृत्तिकाख्यो ग्रामः । तस्मादणि कृते ‘उत्तरपदस्ये’त्यधिकारे,