42103: वर्णौ वुक्¶
Padacheda: वर्णौ | S | 7 | 1 |
वुक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
To the same stem is added the affix वुक् when it treats about something which is to be found in the land of वर्णु (name of a river and also the country near it).
Vasu English Translation¶
To the same stem is added the affix वुक् when it treats about something which is to be found in the land of वर्णु (name of a river and also the country near it). The Varnu is the name of a river, and the country near it is also called Varnu, the affix denoting country being elided by (4.2.81). Thus कान्थकम् ॥
Kashika¶
कन्थाया इत्येव। वर्णौ या कन्था तस्या वुक् प्रत्ययो भवति शैषिक ः। ठकोऽपवादः। वर्णुर्नाम नदः, तत्समीपो देशो वर्णुः। तद्विषयार्थवाचिनः कन्थाशब्दादयं प्रत्ययः। तथाहि — जातं हिमवत्सु कान्थकम्॥
Siddhanta Kaumudi¶
वर्णुर्नदस्तस्य समीपदेशो वर्णुः, तद्विपयार्थवाचिकन्थाशब्दाद्वुक् स्यात् । यथा हि जातं हिमवत्सु कान्थकम् ॥
Balamanorama¶
वर्णौ वुक् - वर्णौ वुक् । वर्णुसमीपेति । वर्णुर्नाम सिन्धुनदः, तस्याऽदूरभव इत्यर्थे सुवास्त्वादित्वादणोजनपदे लुबि॑ति लुप् । तथाच वर्णुसमीपदेशो वर्णुः, तस्मिन् या कन्था तद्वाचकाद्वक्प्रत्यय इति यावत् ।
Tattvabodhini¶
वर्णौ वुक् - वर्णो वुक् । वर्णुरिति ।अदूरभवेश्चे॑त्यर्थे सुवास्त्वादित्वादणिजनपदे लु॑बिति लुप् ।अमेहक्वतसित्रेभ्य एव । अमात्य इति । अमाशब्दः समीपवाची स्वरादिः । अमा=समीपे भव इत्यर्थः ।
Padamanjari¶
तत्समीपो देशो वर्णुरिति । ठदूरभवश्चऽ इत्यर्थे’सुवास्त्वादिभ्यो’ ण्ऽ इत्यण्, तस्य’जनपदे लुप्’ इति लुप् । तद्विषयार्थवाचिन इति । स वर्णुर्देअशो विषयो यस्यार्थस्य तद्वाचिन इत्यर्थः । विषयग्रहणेन वर्णाविति विषयसप्तमी दर्शयति ॥
Nyaas¶
वर्णुः इति। नदोऽभिधीयते। रुआओतसि च कन्था न सम्भवीति सामीपिकमधिकरणं विज्ञायते, अत आह - तत्समीपो देशो वर्णुः इति। वर्णुशब्दात् अदूरभवश्च (4.2.70) इत्यत्रार्थे सुवास्त्वादिभ्योऽण् (4.2.77) इत्यण्, तस्य जनपदे लुप् (4.2.81) इति लुपि कृते वर्णुरिति भवति। ननु च प्रतिपदविधानात् प्रत्ययस्य लुब्न भवति? नैवम्; सुवास्त्वादिपाठो हि जनपदादान्यस्मिन् प्रत्ययार्थे कृतार्थः -`वार्णवो ग्रामो नगरमिति, न तु जनपदे। तत्र तु परत्वाल्लोपेन भवितव्यम्। `तद्धिषयार्थ`इति। विषयग्रहणेन वर्णादिति सप्तम्या विषयसप्तमीत्वं दर्शयति। स वर्णुदेशो विषयो यस्य तद्विषयार्थः। सा पुनः कन्थैव॥
Prakriyasarvasvam¶
वर्णसंज्ञनदीसमीपगात् कन्थाग्रामाद् वुक् स्यात् । कान्थकम् ॥