42103: वर्णौ वुक् ================= **Padacheda:** वर्णौ | S | 7 | 1 | वुक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- To the same stem is added the affix वुक् when it treats about something which is to be found in the land of वर्णु (name of a river and also the country near it). Vasu English Translation ------------------------ To the same stem is added the affix वुक् when it treats about something which is to be found in the land of वर्णु (name of a river and also the country near it). The *Varnu* is the name of a river, and the country near it is also called *Varnu*, the affix denoting country being elided by (4.2.81). Thus कान्थकम् ॥ Kashika ------- कन्थाया इत्येव। वर्णौ या कन्था तस्या वुक् प्रत्ययो भवति शैषिक ः। ठकोऽपवादः। वर्णुर्नाम नदः, तत्समीपो देशो वर्णुः। तद्विषयार्थवाचिनः कन्थाशब्दादयं प्रत्ययः। तथाहि — जातं हिमवत्सु कान्थकम्॥ Siddhanta Kaumudi ----------------- वर्णुर्नदस्तस्य समीपदेशो वर्णुः, तद्विपयार्थवाचिकन्थाशब्दाद्वुक् स्यात् । यथा हि जातं हिमवत्सु कान्थकम् ॥ Balamanorama ------------ **वर्णौ वुक्** - वर्णौ वुक् । वर्णुसमीपेति । वर्णुर्नाम सिन्धुनदः, तस्याऽदूरभव इत्यर्थे सुवास्त्वादित्वादणोजनपदे लुबि॑ति लुप् । तथाच वर्णुसमीपदेशो वर्णुः, तस्मिन् या कन्था तद्वाचकाद्वक्प्रत्यय इति यावत् । Tattvabodhini ------------- **वर्णौ वुक्** - वर्णो वुक् । वर्णुरिति ।अदूरभवेश्चे॑त्यर्थे सुवास्त्वादित्वादणिजनपदे लु॑बिति लुप् ।अमेहक्वतसित्रेभ्य एव । अमात्य इति । अमाशब्दः समीपवाची स्वरादिः । अमा=समीपे भव इत्यर्थः । Padamanjari ----------- तत्समीपो देशो वर्णुरिति । ठदूरभवश्चऽ इत्यर्थे'सुवास्त्वादिभ्यो' ण्ऽ इत्यण्, तस्य'जनपदे लुप्' इति लुप् । तद्विषयार्थवाचिन इति । स वर्णुर्देअशो विषयो यस्यार्थस्य तद्वाचिन इत्यर्थः । विषयग्रहणेन वर्णाविति विषयसप्तमी दर्शयति ॥ Nyaas ----- `वर्णुः` इति। नदोऽभिधीयते। रुआओतसि च कन्था न सम्भवीति सामीपिकमधिकरणं विज्ञायते, अत आह - `तत्समीपो देशो वर्णुः` इति। वर्णुशब्दात् **अदूरभवश्च** (4.2.70) इत्यत्रार्थे **सुवास्त्वादिभ्योऽण्** (4.2.77) इत्यण्, तस्य **जनपदे लुप्** (4.2.81) इति लुपि कृते वर्णुरिति भवति। ननु च प्रतिपदविधानात् प्रत्ययस्य लुब्न भवति? नैवम्; सुवास्त्वादिपाठो हि जनपदादान्यस्मिन् प्रत्ययार्थे कृतार्थः -`वार्णवो ग्रामो नगरमिति, न तु जनपदे। तत्र तु परत्वाल्लोपेन भवितव्यम्। `तद्धिषयार्थ`इति। विषयग्रहणेन वर्णादिति सप्तम्या विषयसप्तमीत्वं दर्शयति। स वर्णुदेशो विषयो यस्य तद्विषयार्थः। सा पुनः कन्थैव॥ Prakriyasarvasvam ----------------- वर्णसंज्ञनदीसमीपगात् कन्थाग्रामाद् वुक् स्यात् । कान्थकम् ॥