42098: दक्षिणापश्चात्पुरसस्त्यक्

Padacheda: दक्षिणा-पश्चात्-पुरसः | S | 5 | 1 |

त्यक् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The words 1. दक्षिणा 2. पश्चात् and 3. पुरस् the affix त्यक् (त्य) is added in the remaining senses.

Vasu English Translation

The words 1. दक्षिणा 2. पश्चात् and 3. पुरस् the affix त्यक् (त्य) is added in the remaining senses. As दाक्षिणात्यः ‘pertaining or produced in the south’; पाश्चात्यः ‘occidental’, पौरस्त्यः ‘oriental’.

Kashika

दक्षिणा पश्चात् पुरस् इत्येतेभ्यस्त्यक् प्रत्ययो भवति शैषिकः। दाक्षिणात्यः। पाश्चात्त्यः। पौरस्त्यः॥

Siddhanta Kaumudi

दक्षिणेत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ॥

Laghu Siddhanta Kaumudi

दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः॥

Balamanorama

दक्षिणापश्चात्पुरसस्त्यक् - दक्षिणापश्चात् । आजन्तमव्ययमिति । अव्ययसाहचर्यादाजन्तं गृह्रत इति भावः । दक्षिणा, पश्चात्, पुरस्, एभ्योऽव्ययेभ्यो जाताद्यर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः ।

Tattvabodhini

दक्षिणापश्चात्पुरसस्त्यक् - दक्षैणापश्चात् । अव्ययमिति । साहचर्यादिति भावः । एवं चदाक्षिणात्य॑इत्यत्रसर्वनाम्नो वृत्तिमात्रे॑इति पुंवद्भावशङ्कैव नास्तीति बोध्यम् । पाश्चात्त्य इति । कथं तर्हिपश्चात्तनैः कश्चन नुद्यमानः॑इति । न च दिग्देशवाचिनि पश्चाच्छब्दे सावकाशं त्यकं कालवाचकात् टउटउलौ बाधेते परत्वादिति वाच्यम् ।अग्रादिपश्चा॑दिति डिमचा टउटउलोर्बाधस्य दुर्वारत्वात् । सत्यम् । पश्चात्तन्वन्ति पश्चात्तना इति कथंचित्समाधेयम् ।

Padamanjari

दक्षिणाशब्दः’दक्षिणादाच्’ इत्याजन्तोऽव्ययं गृह्यते; पश्चात्पुरोभ्यां साहचर्यात् । तेन न टाबन्तस्य प्रवीणवाचिनो ग्रहणम् ॥

Nyaas

पश्चात्पुरसोरव्ययत्वात् साहचर्याद्दक्षिणाशब्दोऽपि दक्षिणादाच् (5.3.36) इत्यजन्तमध्ययमेव गृह्रते। एवं च अव्ययात्त्यप् (4.2.104) इत्यत्र परिगणनात् त्यपः प्राप्तिर्नास्तीत्यणोऽपवादोऽयं योगः॥

Prakriyasarvasvam

दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥

Sutra Prayogas

  • पौरस्त्यान् (रघुवंशम्): दक्षिणापश्चात्पुरसस्त्यक् इति त्यक्प्रत्ययः।

  • पाश्चात्त्यैः (रघुवंशम्): दक्षिणापश्चात्पुरसस्त्यक् इति त्यक्प्रत्ययः।

  • पाश्चात्यभागम् (शिशुपालवधम्): दक्षिणापश्चात्पुरसस्त्यक् इति त्यक्प्रत्ययः।