42098: दक्षिणापश्चात्पुरसस्त्यक् ================================ **Padacheda:** दक्षिणा-पश्चात्-पुरसः | S | 5 | 1 | त्यक् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The words 1. दक्षिणा 2. पश्चात् and 3. पुरस् the affix त्यक् (त्य) is added in the remaining senses. Vasu English Translation ------------------------ The words 1. दक्षिणा 2. पश्चात् and 3. पुरस् the affix त्यक् (त्य) is added in the remaining senses. As दाक्षिणात्यः 'pertaining or produced in the south'; पाश्चात्यः 'occidental', पौरस्त्यः 'oriental'. Kashika ------- दक्षिणा पश्चात् पुरस् इत्येतेभ्यस्त्यक् प्रत्ययो भवति शैषिकः। दाक्षिणात्यः। पाश्चात्त्यः। पौरस्त्यः॥ Siddhanta Kaumudi ----------------- दक्षिणेत्याजन्तमव्ययम् । दाक्षिणात्यः । पाश्चात्त्यः । पौरस्त्यः ॥ Laghu Siddhanta Kaumudi ----------------------- दाक्षिणात्यः। पाश्चात्यः। पौरस्त्यः॥ Balamanorama ------------ **दक्षिणापश्चात्पुरसस्त्यक्** - दक्षिणापश्चात् । आजन्तमव्ययमिति । अव्ययसाहचर्यादाजन्तं गृह्रत इति भावः । दक्षिणा, पश्चात्, पुरस्, एभ्योऽव्ययेभ्यो जाताद्यर्थेषु त्यक्प्रत्ययः स्यादित्यर्थः । Tattvabodhini ------------- **दक्षिणापश्चात्पुरसस्त्यक्** - दक्षैणापश्चात् । अव्ययमिति । साहचर्यादिति भावः । एवं चदाक्षिणात्य॑इत्यत्रसर्वनाम्नो वृत्तिमात्रे॑इति पुंवद्भावशङ्कैव नास्तीति बोध्यम् । पाश्चात्त्य इति । कथं तर्हिपश्चात्तनैः कश्चन नुद्यमानः॑इति । न च दिग्देशवाचिनि पश्चाच्छब्दे सावकाशं त्यकं कालवाचकात् टउटउलौ बाधेते परत्वादिति वाच्यम् ।अग्रादिपश्चा॑दिति डिमचा टउटउलोर्बाधस्य दुर्वारत्वात् । सत्यम् । पश्चात्तन्वन्ति पश्चात्तना इति कथंचित्समाधेयम् । Padamanjari ----------- दक्षिणाशब्दः'दक्षिणादाच्' इत्याजन्तोऽव्ययं गृह्यते; पश्चात्पुरोभ्यां साहचर्यात् । तेन न टाबन्तस्य प्रवीणवाचिनो ग्रहणम् ॥ Nyaas ----- पश्चात्पुरसोरव्ययत्वात् साहचर्याद्दक्षिणाशब्दोऽपि **दक्षिणादाच्** (5.3.36) इत्यजन्तमध्ययमेव गृह्रते। एवं च **अव्ययात्त्यप्** (4.2.104) इत्यत्र परिगणनात् त्यपः प्राप्तिर्नास्तीत्यणोऽपवादोऽयं योगः॥ Prakriyasarvasvam ----------------- दाक्षिणात्यः । पाश्चात्यः । पौरस्त्यः ॥ Sutra Prayogas -------------- * **पौरस्त्यान्** (रघुवंशम्): `दक्षिणापश्चात्पुरसस्त्यक्` इति त्यक्प्रत्ययः। * **पाश्चात्त्यैः** (रघुवंशम्): `दक्षिणापश्चात्पुरसस्त्यक्` इति त्यक्प्रत्ययः। * **पाश्चात्यभागम्** (शिशुपालवधम्): `दक्षिणापश्चात्पुरसस्त्यक्` इति त्यक्प्रत्ययः।