42097: नद्यादिभ्यो ढक्

Padacheda: नदी-आदिभ्यः | S | 5 | 3 |

ढक् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ढक् comes after the words नदी etc. in the remaining senses i.e. तत्र जातः (4.3.25) etc.

Vasu English Translation

The affix ढक् comes after the words नदी etc. in the remaining senses i.e. तत्र जातः (4.3.25) etc. Thus नादेयं, ‘pertaining to a river’, माहेयम् ‘earthen’, &c. 1 नदी, 2 मही, 3 वाराणसी, 4 श्रावस्ती, 5 कीशाम्बी, 6 वनकौशाम्बी (वनको) 7 काशपरी 8 काशफरी (फारी) 9 खादिरी, 10 पूर्वनगरी, 11 पाठा (पावा) 12 माया (मावा) 13 शाल्वा (साल्वा)14 दावी, 15 सेतकी (वासेनकी) 16 वडवाया वृषे. 17 दाल्वा.

The word पूर्वनगरी occurs in the above list. Its derivative will be पौर्वनगरेयम् ॥ But some say, it is composed of three words पूर्-वन-गिरि and they apply the affix to each of them separately. As पौरेयम्, वानेयम् and गैरेयम् ॥

Kashika

नदी इत्येवमादिभ्यो ढक् प्रत्ययो भवति। नादेयम्। माहेयम्। पूर्वनगरीशब्दोऽत्र पठ्यते। पौर्वनगरेयम्। केचित् तु पूर्वनगिरीति पठन्ति, विच्छिद्य च प्रत्ययं कुर्वन्ति। पौरेयम्। वानेयम्। गैरेयमिति। तदुभयमपि दर्शनं प्रमाणम्॥ नदी। मही। वाराणसी। श्रावस्ती। कौशाम्बी। नवकौशाम्बी। काशफरी। खादिरी। पूर्वनगरी। पावा। मावा। साल्वा। दार्वा। दाल्वा। वासेनकी। वडवाया वृषे (ग०सू० ९३)॥

Siddhanta Kaumudi

नादेयम् । माहेयम् । वाराणसेयम् ॥

Laghu Siddhanta Kaumudi

नादेयम्। माहेयम्। वाराणसेयम्॥

Balamanorama

नद्यादिभ्यो ढक् - नद्यादिभ्यो ढक् । माहेयमिति । मही=भूमिः, तस्यां जातादीत्यर्थः । वाराणसेयमिति । वाराणस्यां जातादीत्यर्थः ।

Padamanjari

गणे नदीति स्वरूपग्रहणम्, न संज्ञा; नद्याः मह्यादीनां पृथग्रहणात् । पौरेयमित्यादिषु पुरि भवम्, वने भवम्, गिरौ भवमिति विग्रहः । उभयमपि दर्शनं प्रमाणमिति । उभयथाप्याचार्येण शिष्याणां प्रतिपादितत्वात् ॥

Nyaas

यान्यत्रावृद्धानि तेभ्योऽणि प्राप्तेष वृद्धेभ्यस्तु वाराणसीत्येवमादिभ्यश्छे प्राप्तेऽपवादः। केषाञ्चित् रोपधेतोः प्राचाम् (4.2.123) इति वुञि प्राप्ते ढगारभ्यते। पौरेयम् इति। पुरि भवम्। वने भवं वानेयम्गैरेयम् इति। गिरौ भवम्। `तदुभयमपि दर्सनं प्रमाणभूतम् इति। उभयथाऽप्याचार्येण शिष्याणां प्रतिपादित्वात्।गणे नदीत्येतत् स्वरूपेण ग्रहणम्, न संज्ञाग्रहणार्थम्। संज्ञाग्रहणे हि महृदीनां पाठोऽनर्थकः स्यात्।

Prakriyasarvasvam

नदीमहोश्वावस्तीवाराणसीकौशाम्बीवनकौशाम्बीसाल्वापूर्वनगरीपूर्वनगिरिभ्यः । नादेयः । माहेयः । श्रावस्तेयः । वाराणसेयः । कौशाम्बेयः । वानकौशाम्बेयः । साल्वेयः । पौर्वनगरेयः । पौरेयः । वानेयः । गैरेयः । ‘बडवाया वृषे’ (ग. सू०) बडवायाः पतित्वेन सम्बन्धी, बाडवेयो वृषः ॥