42094: ग्रामाद्यखञौ

Padacheda: ग्रामात् | S | 5 | 1 |

य-खञौ | S | 1 | 2 |

Sutrartha


Vasu English Summary

The affixes व and खञ् (ईन) come after the word ग्राम।

Vasu English Translation

The affixes व and खञ् (ईन) come after the word ग्राम। As ग्राम्य and ग्रामीणः, ‘a rustic’.

Kashika

ग्रामशब्दाद् य खञ् इत्येतौ प्रत्ययौ भवतः। ग्राम्यः। ग्रामीणः॥

Siddhanta Kaumudi

ग्राम्यः । ग्रामीणः ॥

Laghu Siddhanta Kaumudi

ग्राम्यः। ग्रामीणः॥

Balamanorama

ग्रामाद्यखञौ - ग्रामाद्यखञौ । ग्राम्य इति । यप्रत्ययेयस्येति चे॑ति लोपः । ग्रामीण इति । खञ ईनादेशः, णत्वम् ।

Padamanjari

ग्रामशब्दः कत्र्यादिषु पठ।ल्ते, तेन ढकञपि भवति ॥

Nyaas

वृद्धलक्षणे छे प्राप्ते वचनम्॥

Prakriyasarvasvam

ग्राम्यः । ग्रामीणः । कत्रचादित्वाद् ग्रामेयकोऽपि ॥

Sutra Prayogas

  • ग्रामीणवध्वस्तमलक्षिता (शिशुपालवधम्): ग्रामाद्यखञौ इति खञ्प्रत्ययः।