42093: राष्ट्रावारपाराद्घखौ¶
Padacheda: राष्ट्रा-आवार-पारात् | S | 5 | 1 |
घ-खौ | S | 1 | 2 |
Sutrartha¶
Vasu English Summary¶
The affixes घ and ख are respectively added after the words 1. राष्ट् and 2. अवारपार।
Vasu English Translation¶
The affixes घ and ख are respectively added after the words 1. राष्ट् and 2. अवारपार। The affix इय substituted for घ, and ईन for ख (7.1.2). Thus राष्ट्रियः ‘born &c. in a country’, अवारपारीणः ‘who or what goes or extends to both banks’.
Vart:- The affix ख comes also when the words अवार and पार are taken separately; as well as when compounded inversely: e.g. अवारीणः ‘belonging to this bank of the river’, पारीणः ‘belonging to the other bank’, पारावारीणः ‘belonging to the other bank as well as to this’. Here as well as in several of the subsequent aphorisms, merely the stems and their appropriate affixes are given; the sense of these affixes are those of ‘being born’ &c. to be taught hereafter in (4.3.25) and sutras that follow it.
“There shall now be mentioned derivatives which end with those affixes the first whereof is घ, and the last where of are ट्यु (4.3.24), with specification of the original term to which the application of those affixes is appropriate; and their varieties of meaning, such as ‘being produced therefrom’ (4.2.25), and the like, shall be mentioned; and the declensional cases in connection with which the affixes are appropriately applicable”. (Dr. Ballantyne’s Laghu **Kaumudi).
Bhashya¶
राष्ट्रावारपाराद्धखौ (1514) (घखाधिकरणम्) (5398 सिद्धान्तवार्तिकम्॥ 1 ॥) - अवारपाराद्विगृहीतादपि - (भाष्यम्) अवारपाराद्विगृहीतादपीति वक्तव्यम्। अवारीणः, पारीणः, अवारपारीणः॥ (5399 सिद्धान्तवार्तिकम्॥ 2 ॥) - विपरीताच्च - (भाष्यम्) विपरीताच्चेति वक्तव्यम्। पारावारीणः॥
Kashika¶
राष्ट्र अवारपार इत्येताभ्यां यथासंख्यं घखावित्येतौ प्रत्ययौ भवतः। राष्ट्रियः। अवारपारीणः॥ विगृहीतादपीष्यते॥ अवारीणः। पारीणः॥ विपरीताच्च॥ पारावारीणः। प्रकृतिविशेषोपादानमात्रेण तावत् प्रत्यया विधीयन्ते। तेषां तु जातादयोऽर्थाः समर्थविभक्तयश्च पुरस्ताद् वक्ष्यन्ते॥
Siddhanta Kaumudi¶
आभ्यां क्रमाद्घखौ स्तः शेषे । राष्ट्रियः । अवारपारीणः ।<!अवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ अवारीणः । पारीणः । इह प्रकृतिविशेषाद्धादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥
Laghu Siddhanta Kaumudi¶
आभ्यां क्रमाद् घखौ स्तः शेषे । राष्ट्रे जातादिः राष्ट्रियः । अवारपारीणः । सवारपाराद्विगृहीतादपि विपरीताच्चेति वक्तव्यम् (वार्त्तिकम्) । अवारीणः । पारीणः । पारावारीणः । इह प्रकृतिविशेषाद् घादयष्ट्युट्युलन्ताः प्रत्यया उच्यन्ते तेषां जातादयोऽर्थविशेषाः समर्थविभक्तयश्च वक्ष्यन्ते ॥
Balamanorama¶
राष्ट्रावारपाराद्घखौ - राष्ट्रावारपाराद्धखौ । आभ्यामिति । राष्ट्रशब्दादवारपारशब्दाच्चेत्यर्थः । राष्ट्रिय इति । राष्ट्रे जातः भव इत्यादिरर्थो यथायथं बोध्यः । धस्य इयः । अवारपारीण इति । खस्य ईनादेशः, णत्वम् ।अवारपारादविगृहीतादपीति । अवारशब्दात्पारशब्दाच्च पृथग्भूतदादपि खो वक्तव्य इत्यर्थः । विपरीताच्चेति । पाराऽवारशब्दादपीत्यर्थः । ननुसार्ष्टावारपारे॑त्यरभ्यविभाषा पूर्वाह्णाऽपराह्णाभ्या॑मित्यन्तैः सूत्रै राष्ट्रादिशब्देभ्यः प्रकृतिभ्यः शेषेऽर्थे प्रत्यया विहिताः । तस्यापत्यमित्यादिवदर्थविशेषास्तु न निर्दिश्यन्ते, यत्किञ्चिद्विभक्त्यन्तेभ्यो राष्ट्रादिप्रकृतिविशेषेभ्यो घादयः टउटउलन्ताः प्रत्ययाः स्युः,समर्थानां प्रथमाद्वे॑त्थस्यानुपस्थित्या प्रथमोच्चारितविभक्तिविशेषानुपस्थितेः । किंच ‘तत्र जातः’ इत्यादिसूत्रेषूत्तरेषु अर्थविशेषा एव निर्दिष्टाः । तत्र प्रथमोच्चारितसप्तम्यन्तादितत्तद्विभक्त्यन्तेभ्यः सर्वेभ्यः साधारणा अणादय एव स्युः । तत्राह — इह प्रकृतीत्यादिना ।राष्ट्रावारे॑त्यादिसूत्राणां प्रकृतिविशेषेभ्यः केवलप्रत्ययविधीनामर्थविशेषविभक्तिविशेषाकाङ्क्षायां, ‘तत्र जातः’ इत्यादि सूत्राणां च केवलमर्थविशेषणिर्देशपराणांसमर्थाना॑मिति सूत्रलब्धतत्तद्विभक्तिकप्रकृतिविशेषाणां विधेयप्रत्ययविशेषाकाङ्क्षायां परस्परमेकवाक्यत्वे सति तत्र जात इत्याद्यर्थेषु प्रथमोच्चारिततत्तद्विभक्त्यन्तेभ्यो राष्ट्रादिशब्देभ्यो घादयः ठ्युठ्युलन्ताः प्रत्ययाः स्युरिति लभ्यत इति भावः । राष्ट्राद्यन्याभ्यस्तु प्रकृतिभ्यो जाताद्यर्थेषु अणादयः साधारणा भवन्त्येव ।
Padamanjari¶
विगृहीतादपीष्यते इति । सूत्रे तु संघातस्यैव ग्रहणम्; अन्यथा वैषम्यात्संख्यातानुदेशो न स्यात् । विपरीताच्चेति । इयमपीष्टिरेव ॥
Nyaas¶
राष्ट्रशब्दात् वृद्धाच्छः (4.2.114) इति च्छे प्राप्ते।अवारपारशब्दादणि घखौ विधीयेते। अवारस्य पारमवारपारमिति षष्ठीसमासः। राजदन्तादिषु दर्शनात् पारावारमित्यपि पक्षे भवति। विगृहीताद्विपरीताच्च लभ्यते। वक्तव्यमेवैतत्। अथ वा - एकशेषो विज्ञास्यते, तत्रैकः समुदायारेथः, अपरोऽवयवार्थो भविष्यति। विपरीतस्यापि एकार्थानां विरूपाणाम् (1.2.64।वा।23) इत्येकशेषो न विरुध्यते, था - वक्रदण्डश्च कुटिलदण्डश्च कुटिलदण्डाविति, यथा च यङ्लुकाविति। ननु च तस्यैवं प्रकृतयो भवन्ति, पञ्च राष्ट्रादिशब्दाः,प्रत्ययौ तु द्वौ - इति वैषम्यात् संख्यातानुदेशो न सिध्यति? नैष दोषः;निर्देशापेक्षं हि यथासंख्यत्वम्। निर्देशश्च द्वयोरेव तदपेक्षया प्रकृते यथासंख्यत्वम्। एवं पञ्चाद्यभेद उपजायते, न स यथासंख्यं बाधते। यथा वुञादीनाञ्च गणापेक्षया यथासंख्यं प्रवृत्ते तु यथासंख्येन प्रत्ययोत्पत्तिवेलायां गणेषु यद्यपि प्रातिपदिकरूपाण्यसमसंख्यानि भवन्ति, तथात्रापि यथासंख्यं न हीयते। कुतः पुनरवगतम् - एकशेषोऽयमिति? व्याख्यानात्।प्रकृतिविशेषोपादानमात्रेण इति। मात्रशब्दो जाताद्यर्थविभक्तिनिर्देशस्य च व्यवच्छेदाय॥
Prakriyasarvasvam¶
आभ्यां शेषे जाताद्यर्थे क्रमात् खघौ स्तः । राष्ट्रियः । अवारपारीणः । अवाक्तीरमवारम् । परतीरं पारम् । ‘व्यस्ताद् विपर्यस्ताच्च’ अवारीणः । पारीणः । पारावारीणः ॥
Vartika¶
अवारपाराद्विगृहीताद्विपरीताच्चेति वक्तव्यम् ।