42095: कत्र्यादिभ्यो ढकञ्¶
Padacheda: कत्रि-आदिभ्यः | S | 5 | 3 |
ढकञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ढकञ् (एयक) comes after the words कत्रि etc.
Vasu English Translation¶
The affix ढकञ् (एयक) comes after the words कत्रि etc. As कात्रेयकः, औम्भेयकः &c.
1 कत्रि, 2 उम्भि, 3 पुष्कर, 4 पुष्कल, 5 मोदन, 6 कुम्भी, 7 कुण्डिन, 8 नगरी (नगर) 9 माहिष्मती, 10 वर्मती, (चर्मण्वती) 11 उख्या, 12 ग्राम, 13 कुड्याया (कुल्याया) यलोपश्च, 14 वञ्जी, 15 भक्ति.
Bhashya¶
कत्र्र्यादिभ्यो ढकञ्ञ् (1516) (ढकञ्ञ्प्रत्ययाधिकरणम्) (ग्रामपदविषयकशङ्कासमाधानभाष्यम्) ग्रामाच्चेति वक्तव्यम्। ग्रामेयकः। तत्तर्हि वक्तव्यम्? न वक्तव्यम्। कत्र्र्यादीभ्यो ढकञ्ञित्यत्र ग्रामादित्येतदनुवर्तिष्यते॥
Kashika¶
कत्रि इत्येवमादिभ्यो ढकञ् प्रत्ययो भवति। कात्रेयकः। औम्भेयकः॥ कत्रि। उम्भि। पुष्कर। पुष्कल। मोदन। कुम्भी। कुण्डिन। नगर। वञ्जी। भक्ति। माहिष्मती। चर्मण्वती। ग्राम। उख्या। कुड्याया यलोपश्च (ग० सू० ९२)। कत्र्यादिः॥
Siddhanta Kaumudi¶
कुत्सितास्त्रयः कत्त्रयः । तत्र जातादिः कात्त्रेयकः । नाकरेयकः । ग्रामादित्यनुवृत्तेः ग्रामेयकः ॥
Balamanorama¶
कत्त्र्यादिभ्यो ढकञ् - कत्र्यादिभ्यो । कत्रय इति । ‘कुगतिप्रादयः’ इति कुशब्दस्य समासः ।त्रौ चे॑ति कोः कदादेशः । कात्रेयक इति । ढकञ्, ञकारस्य एयादेशः ।लोपो व्यो॑रिति यलोपः । अनुवृत्तेरिति । स्वरितत्वादिति भावः । तथाच ग्रामशब्दाड्ढकञपि लभ्यते इत्यर्थः ।
Tattvabodhini¶
कत्त्र्यादिभ्यो ढकञ् - कुत्सितास्त्रय इति । इह बहुव्रीहिरपि सुवचः । इहैव निपातनात्कोः कद्भावः ।कद्भावे त्रावुपसङ्ख्यान॑मिति तु प्रत्याख्येयम् ।
Padamanjari¶
कात्त्रेयक इति । कुत्सितास्त्रयः कत्रय इति बहुव्रीहिर्वा । अस्मादेव निपातनात्कोः कद्भावः, तेन कद्भावे’त्रौ उपसंख्यानम्’ इति न वक्तव्यं भवति । कुल्याया यलोपश्चेति । केचितु तृतीयं वर्णं लकारं पठन्ति, अन्ये तु डकारम् ॥ कुलकुक्षिग्रीवाभ्यः श्वास्यलङ्कारेषु । अयं योगः शक्योऽवक्तुम् । कथम् ? कौलेयकः श्वा यदा कुलशब्दः श्वकुले वर्तते तदा तस्यापत्यमपि श्वैव भवति, तत्र ठपूर्वपदादन्यतरस्याम्ऽ इति ढकञा सिद्धम्; कुक्षिग्रीवाशब्दाभ्याम्’दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्’ इति ढञि कृते आस्यलङ्कारयोस्स्वार्थिकः कन् भविष्यति ॥
Nyaas¶
कत्त्र्यादिषु यद्वृद्धं पठते ततश्छे प्राप्ते शेषेभ्यस्त्वणीति योगोऽयमारभ्यते। कत्त्रिशब्दश्च तत्पुरुषः - कुत्सितास्त्रयः, कोः कत् तत्पुरुषेऽचि (6.3.101) इतियोगविभागात् कद्भावः। अत एव निपातनाद्बहुव्रीहिर्वा - कुत्सितास्त्रयो यस्याः कत्त्रिः। कुडआया यलोपश्च इति। कुडज्ञाशब्दाड् ढञ् भवति यलोपश्च -कौडेयकः।ये तु कुल्याया यलोपश्च इति पठन्ति तेषां कौलेयकः॥
Prakriyasarvasvam¶
ढस्य एय् । कत्त्र्युम्भिकुम्भिकुण्डिनपुष्करपुष्कलमोदनमाहिष्मतीवर्मतीनगर- ग्रामेभ्यः । कुत्सितास्त्रयः कत्रयः । तेषु जातादिः । कात्रेयकः । कत्रिरिति बहुव्रीहिर्वेति हरः । औम्भेयकः । कौम्भेयकः । कौण्डिनेयकः । पौष्करेयकः । पौष्कलेयकः । मौदनेयकः । माहिष्मतेयकः । वार्मतेयकः । नागरेयकः । संज्ञाशब्दा- न्नगरादेव ढकञ् । प्रसिद्धात्तु नागरः । ‘कुल्याया यलोपश्च’ (ग. सू०) कौलेयकं जलम् ॥