42087: कुमुदनडवेतसेभ्यो ड्मतुप्¶
Padacheda: कुमुद-नड-वेतसेभ्यः | S | 5 | 3 |
ड्मतुप् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ड्मतुप् comes after the words 1. कुमुद 2. नड and 3. वेतस in the above four senses and the final of these words is elided before this affix.
Vasu English Translation¶
The affix ड्मतुप् comes after the words 1. कुमुद 2. नड and 3. वेतस in the above four senses and the final of these words is elided before this affix. Thus कुमुद्वान्, नड्वान्, वेतस्वान् ॥
Vart:- So also after the word महिष, as महिष्मान् ॥
Bhashya¶
कुमुदनडवेतसेभ्यो ड्मतुप् (1508) (विधायकं भाष्यम्) महिषाच्चेति वक्तव्यम्। महिष्मान्॥
Kashika¶
कुमुद नड वेतस इत्येतेभ्यः शब्देभ्यो ड्मतुप् प्रत्ययो भवति चातुरर्थिकः। कुमुद्वान्। नड्वान्। वेतस्वान् ॥ महिषाच्चेति वक्तव्यम्॥ महिष्मान् नाम देशः॥
Siddhanta Kaumudi¶
कुमुद्वान् । नड्वान् । वेतस्वान् । आद्ययोः झयः (SK1898) इति अन्त्ये मादुपधायाः - (SK1897) इति वक्ष्यमाणेन वः ।<!महिषाच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ महिष्मान्नाम देशः ॥
Balamanorama¶
कुमुदनडवेतसेभ्यो ड्मतुप् - कुमुदनड । कुमुद नड वेतस-एतेभ्यो ड्मतुप्स्यादित्यर्थः । डकार उपौ च इतः । अयं मत्वर्थ एवेति ‘न पदान्ते ति’ सूत्रभाष्यकैयटयोः स्थितम् । कुमुद्वानिति । कुमुदाः अस्मिन्सन्तीति विग्रहः । ङ्भतुपि डित्त्वाट्टिलोपः । नड्वानिति । नडा अस्मिन्सन्तीति विग्रहः ।कुमुद्वान्कुमुदप्राये॑ इस्यमरः । वेतस्वानिति । वेतसा अस्मिन्सन्तीति विग्रहः । आद्ययोरिति । कुमुद्वच्छब्दे, नड्वच्छब्दे च ‘झयः’ इति मतुपो मस्य वकारः, वेतस्वच्छब्दे तु ‘मादुपधायाः’ इति मस्य वकार इत्यर्थः । वस्तुतस्तु नड्वच्छब्देऽपि ‘झयः’ इत्यस्याऽसिद्धत्वात् ‘मादुपधायाः’ इत्येव न्याय्यं,प्रकरणे प्रकरणमसिद्धं, नतु एकस्मिन्नेव प्रकरणे पूर्वयोगं प्रति परस्याऽसिद्धत्व॑मित्यस्य ‘उपसर्गादसमासे’ इति सूत्रभाष्ये दूषितत्वात् ।वेतस्वा॑नित्यत्र रुत्वं तु न, अल्लोपस्य स्थानिवत्त्वात् ।न पदान्ते॑ति निषेधस्तु न, पदे अन्त इति विगृह्र पदे परतश्चरमावयवे कर्तव्ये पदपदस्थाऽजादेशस्यैव तन्निषेधप्रवृत्तेर्भाष्येऽभ्युपगतत्वात् । पूर्वत्रासिद्धे न स्थानिव॑दिति निषेधोऽपि न, पदे अन्त इति विगृह्र तत्र स्थानिवत्त्वनिषेधव्यावृत्तिसाधनपरभाष्यप्रामाण्येन पदचरमावयवकार्यविधायकातिरिक्तस्यैव त्रैपादिकस्य ग्रहणादिति शब्देन्दुशेखरे विस्तरः । माहिषाच्चेत्यनन्तरं तुड्भतु॑बिति शेषः । महिष्मानिति । महिषा अस्मिन्सन्तीति विग्रहः । टित्त्वाट्टिलोपः । अल्लोपस्य स्थानिवत्त्वान्न जश्त्वम् ।प्रत्यये भाषायां नित्य॑मिति तु न, तस्य सवर्णे परतो विधेः । न हि षकारसवर्णोऽनुनासिकोऽस्ति ।
Padamanjari¶
कुमुद्वानित्यादौ झयः’मादुपधायाश्च’ इति वत्वम् । अथ वकारादिरेव कस्मान्न विहितः ? ज्ञापनार्थम्, एतज्ज्ञापयति - अन्येभ्योऽप्ययं भवतीति । तेन महिष्मानिति सिद्धं भवति, महिषाच्चेति न वक्तव्यं भवति । एतेनैतदपि निरस्तम् - प्रकृतस्यैव मतुपो डित्वातिदेशेन सिद्धमिति, न हि डित्वातिदेशे पूर्वोक्तं ज्ञापनं समर्थितं भवति ॥
Nyaas¶
कुमुदशब्दाट्ठच्ठकोः प्राप्तयोः। नडशब्दादपि नडशादाड्ड्वलच् (4.2.88) इति नडादीनां कुक्च 4.2.102) इति। अस्मश्च विधौ प्राप्ते वेतसशब्दादपि मतुब् विधीयते। महिषाच्च इत्यादि। महिषशब्दान्मतुब् विधीयते इत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्राच्चकारोऽनुवर्तते, स चानुक्तसमच्चयार्थः। तेन महिषशब्दादपि भविष्यतीति॥
Prakriyasarvasvam¶
डित्त्वाट्टिलोपः । कुमुद्वान् ॥
Vartika¶
महिषाच्चेति वक्तव्यम् ।
Sutra Prayogas¶
कुमुद्वत्सु (रघुवंशम्): कुमुदनडवेतसेभ्यो ड्यतुप् इति ड्यतुप्-प्रत्ययः।
कुमुद्वती (रघुवंशम्): कुमुदनडवेतसेभ्यो डतुपु इति डमतुप्प्रत्ययः।
कुमुद्वतीनां (शिशुपालवधम्): कुमुदनडवेतसेभ्यो ड्मतुप् इति मतुप्प्रत्ययः।