42088: नडशादाड्ड्वलच्

Padacheda: नड-शादात् | S | 5 | 1 |

ड्वलच् | S | 1 | 1 |

Sutrartha


Vasu English Summary

The affix ड्वलच् comes after 1. नड and 2. शाद in the four senses given above, the final of the words being elided.

Vasu English Translation

The affix ड्वलच् comes after 1. नड and 2. शाद in the four senses given above, the final of the words being elided. Thus नड्वलम् and शाद्वलम् ॥

Kashika

नडशादशब्दाभ्यां ड्वलच् प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। नड्वलम्। शाद्वलम्॥

Siddhanta Kaumudi

नड्वलः । शादो जम्बालघासयोः । शाद्वलः ॥

Laghu Siddhanta Kaumudi

नङ्वलः । शाद्वलः ॥

Balamanorama

नडशादाड्ड्वलच् - नडशादाड्ड्वलच् । नड्वल इति । डित्त्वाट्टिलोपः । शाद्वल इति । शादा अस्मिन्सन्तीति विग्रहः । शादो — दन्त्योपधः । डोपध इत्यन्ये ।नडप्राये नड्वान्नड्वल इत्यपी॑त्यमरः । ‘शाद्वलः शादहरिते’ इति च ।

Padamanjari

शादशब्दो दोपधः,’पङ्को’ स्त्री शादकर्दमौऽ इति ॥

Prakriyasarvasvam

टिलोपः । नड्वलः । शादः शष्पः । तद्वान् शाद्वलः । शाद्वला दूर्वेति नीलत्वोपचारात् ॥

Sutra Prayogas

  • शाद्वलानि (रघुवंशम्): नडशादादूङ्वलच् इति ड्वलच्प्रत्ययः।

  • नड्वलानि (रघुवंशम्): नडशादाद् ड्वलच् इति ड्वलच्प्रत्ययः।

  • शाद्वलेभ्यः (किरातार्जुनीयम्): नडशादाद्वलच् इति वलच्प्रत्ययः।