42082: वरणादिभ्यश्च¶
Padacheda: वरण-आदिभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
Also after the word वरण etc. the affix denoting locality becomes elided but the number and gender are not changed.
Vasu English Translation¶
Also after the word वरण etc. the affix denoting locality becomes elided but the number and gender are not changed. After the words वरण the quadruply significant affix is elided by लुप् ॥ The origination of this rule is for the sake of what is not a kingdom (or जनपद), to which the last rule applies. Thus वरणानामदूरभवं नगरं = वरणाः “the city (not a kingdom) not far from the place Varana”, So also शृङ्गी, शाल्मलयः ॥ The word च in the sutra implies that this rule applies even to words other than those which are given in the list of वरणादि ॥ As कटुकबदरी “a city near to bitter* Badari* tree”.
1 वरणा, (वरण) 2 शृङ्गी, 3 शाल्मलि, 4 शुण्डी, 5 शयाण्डी, 6 पर्णी, 7 ताम्रपर्णी, 8 गोद (पूर्वो गोदो, पूर्वेण गोदौ, अपरेण गोदौ), 9 आलिङ्ग्यायन, 10 जानपदी (जालपदी; जालपद) 11 जम्बू, 12 पुष्कर, 13 चम्पा, 14 पम्पा, 15 वल्गु, 16 उज्जयनी (उज्जयिनी), 17 गया, 18 मथुरा, 19 तक्षशिला, 20 उरसा (उरशा) 21 गोमती, 22 वलभी, 23 कटुकबदरी (with कन्दुक), 24 शिरीषाः 25 काञ्ची, 26 सदाण्डी, 27 वणिकि, 28 वणिक, Is also आकृतिगण ॥
Kashika¶
वरण इत्येवमादिभ्य उत्पन्नस्य चातुरर्थिकस्य प्रत्ययस्य लुब् भवति। अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः। शृङ्गी। शाल्मलयः। चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति। कटुकबदर्या अदूरभवो ग्रामः कटुकबदरी। शिरीषाः। काञ्ची॥ वरणाः, पूर्वौ गोदौ। आलिङ्ग्यायन। पर्णी। शृङ्गी। शाल्मलयः। सदाण्वी। वणिकि। वणिक। जालपद। मथुरा। उज्जयिनी। गया। तक्षशिला। उरशा। आकृत्या॥
Siddhanta Kaumudi¶
अजनपदार्थ आरम्भः । वरणानामदूरभवं नगरं वरणाः ॥
Laghu Siddhanta Kaumudi¶
अजनपदार्थ आरम्भः। वरणानामदूरभवं नगरं वरणाः॥
Balamanorama¶
वरणादिभ्यश्च - अथ प्रकृतमारभते — वरणादिभ्यश्च ।जनपदे लु॑बित्त्युत्तरमिदं सूत्रम् । वरणादिभ्यः परस्य चातुरर्थिकप्रत्ययस्य लुप्स्यादित्यर्थः । पूर्वेणैव सिद्धे किमर्थमिदमित्यत आह — अजनपदार्थ इति । वरणानामिति । वरणा नाम नदी काश्या उत्तरतः प्रसिद्धा । अवयवाभिप्रायं, पूजार्थ वा बहुवचनम् । वरणानामदूरभवं नगरं-वरणाः । अत्र लुप्तप्रत्ययान्तस्य वरणाशब्दस्य नगरे वाच्ये प्रकृतिवत्स्त्रीलिङ्गं बहुवचनं च ।
Tattvabodhini¶
वरणादिभ्यश्च - वरणादि । चकारोऽनुक्तसमुच्चयार्थः, तेनास्याकृतिगणत्वं सिद्धम् । वरणा इति । एवं कटुबदरी, शिरीषाः, गोदौ, खलतिकमित्यादीन्युदाहर्तव्यानि । वत्त्वस्याऽसिद्धत्वात्तस्मिन्कर्तव्ये टिलोपो न स्थानिवदित्याशयेनाह — झय इति । नड्वानित्यत्पापि परत्वात्झयः॑इत्यनेनैव वकारो न तुमादुपधायाः॑इत्यनेनेति भावः । न चाऽसिद्धत्वात्मादुपधायाः॑इत्येव तत्र न्याय्यमिति वाच्यं,प्रकरणे प्रकरणमसिद्धं, न तु योगे योगः॑इतिउपसर्गादसमासेऽपी॑त्यत्र भाष्ये निर्णीतत्वात् । ननु वेतस्वानित्यत्र वेतसशब्दस्य सुबन्तत्वेन पदत्वात्ङ्भतुपो डित्त्वसामर्थ्याट्टिलोपे एकदेशविकृतन्यायेन पदत्वात्सस्य रुत्वं स्यात् । न च स्थानिवत्त्वेन निर्वाहः । पूर्वत्रासिद्धे तन्निष #एधादिति चेत्, मैवम् । अन्तरङ्गं रुत्वं प्रति बहुरङ्गस्य टिलोपस्याऽसिद्धत्वात् । न च षाष्ठी बहिरङ्गपरिभाषा त्रैपादिकं न जानातीति वाच्यं, कार्यकालपक्षाभ्युपगमात् । नन्वेवमपिस्वादिषु॑इति सान्तस्य पदत्वे तदाश्रयरुत्वस्यान्तरङ्गत्वाऽभावाद्बहिरङ्गपरिभाषा न प्रवर्तते इति रुत्वं दुर्वारमेव । न च नद्यां मतु॑बिति चतरर्थ्यां मतुपा विधानाच्चातुरर्थिको ङ्भतुप् मत्वर्थीय इतितसौ मत्वर्थे॑ इत्यनेन भत्वं शङ्क्यं, टिलोपस्य स्थानिवत्त्वात् । न च पदत्वेऽप्येवम् ।तस्य रुत्वविधिना सह कार्यकालतयापूर्वत्रासिद्धे ने॑ति निषेधादिति चेत्, अत्राहुः -पदसंज्ञायां यथोद्देशपक्षाश्रयणात्पूर्वत्रिसिद्धे ने॑ति निषेधाऽप्रवर्तनात्स्थानिवत्त्वप्रवृत्त्या सान्तस्याऽपदत्वादिति । एतेन घटी आमलकीत्यत्रस्वादिषु॑इति पदत्वाज्जश्त्वं स्यात्, औत्सीत्यत्र तु संयोगान्तलोपः स्यादिति शङ्कपि परास्तेति दिक् । ननु प्रक्रियालाघवाय ड्वतुबेव विधीयताम्, अथवाकुमुदनडवेतसेभ्यो डि॑दिति प्रकृतस्य मतुपो डित्त्वमतिदिश्यतां, किमनेन ङ्भतु ब्विधानेन । सत्यम् । अन्यतो विधानार्थं तत् । तत्सिद्धार्थकथनपरं वार्तिकमाह -महिषाच्चेति ।
Prakriyasarvasvam¶
एभ्यश्चातुरर्थिकस्य लुप् स्यात् । वरणानामदूरं नगरं वरणाः । शिरीषाः ग्रामः । अस्य शैरीषकः शिरीषक इति चेष्टम् । गोदौ नाम ह्रदौ । तयोरदूरभवौ गोदौ ग्रामः प्रकृतेर्द्वित्वाल्लुपि द्वित्वम् ॥ <karika>एवं तक्षशिलोपान्तभूमिस्तक्षशिला किल । मधुरोज्जयिनी काञ्चीत्याद्याकृतिगणस्त्वयम् ॥ २३५ ॥</karika> खलतिको विन्ध्यः, तस्यादूरभवानि खलतिकं वनानि । खलतिकादेर्लुपि वचनमेव प्रकृतिवदित्येकवचनं, लिङ्गं तु वनस्वैव ॥