42079: कोपधाच्च

Padacheda: कोपधात् | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix अण् comes in the 4-fold sense after a stem having क् for its penultimate.

Vasu English Translation

The affix अण् comes in the 4-fold sense after a stem having क् for its penultimate. This debars अञ् which would have come by (4.2.71) and (4.2.73). Thus कार्णच्छिद्रिकः कूपः ॥ कार्णवाकवम्, त्रैशङ्कवम् ॥

Kashika

ककारोपधात् च प्रातिपदिकादण् प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। कूपलक्षणस्योवर्णलक्षणस्य चाञोऽपवादः। कार्णच्छिद्रिकः कूपः। कार्णवेष्टकः। कृकवाकुना निर्वृत्तं कार्कवाकवम्। त्रैशङ्कवम्॥

Siddhanta Kaumudi

अण् । अञोऽपवादः । कार्णच्छिद्रकः कूपः । कार्कवाकवम् । त्रैशङ्कवम् ॥

Balamanorama

वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्य- कक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखि- संकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः - वुञ्छण् । वुञ्, छण्, क, ठच्, इल, स, इनि, र, ढञ्, ण्य, य, फक्, फिञ्, इञ्, ञ्य, कक्, ठक् एतेषां सप्तदशानां द्वन्द्वात्प्रथमाबहुवचनम् ।अरीहण, कृशाआ, ऋश्य, कुमुद, काश, तृण, प्रेक्ष, अश्मन्, सखि, सङ्काश, बल, पक्ष, कर्ण, सुतङ्गम, प्रगदिन्, वराह,कुमुद एतेषां सप्तदशानां द्वन्द्वः । एते आदयो येषामिति बहुव्रीहेः पञ्चमीबहुवचनम् । यथासङ्ख्यावगमाय कुमुदशब्दयोरेकशेषो न कृतः । प्रगदिन्शब्दे नलोपाऽभावस्तु इकारान्तत्वभ्रमनिरासाय । द्वन्द्वान्ते श्रूयमाणस्य आदिशब्दस्य अरीहणादिषु प्रत्येकमन्वयः । तथा च अरीणादिभ्यो बुञ्, कुशाआआदिभ्यश्छणित्येवं सप्तदश वाक्यानि सम्पन्नानि । तदाह — सप्तदशभ्य इति । अरीहणादिसप्तदशगणेभ्यो वुञादयः प्रत्ययाः क्रमात्स्युरित्यर्थः । चतुरथ्र्यामिति ।तदस्मिन्न॑स्तीति देशे तन्नाम्नि॒॑तेन निर्वृत्तं॒॑तस्य निवासः॑अदूरभवश्चे॑ति चतुष्र्वर्थेषु प्रथमोच्चारितात्तत्तद्विभक्त्यन्ताद्यथायोगं प्रत्यया इति फलितम् । एतेषु गणेषु चेतनवाचका अचेतनवाचकाश्च सन्ति । तत्र यथायोगं चतुरथ्र्या अन्वयः । प्रेक्षीति । प्रेक्षते इति प्रेक्षः, तेन निर्वृत्त मित्यर्थः । प्रेक्षया निर्वृत्तमिति वा । पथः पन्थ चेति । पक्षादिगणसूत्रमिदम् । पान्थायन इति । पथोऽदूरभव इत्यर्थः ।

Tattvabodhini

वुञ्छण्कठजिलशेनिरढञ्ण्ययफक्फिञिञ्ञ्य- कक्ठकोऽरीहणकृशाश्वर्श्यकुमुदकाशतृणप्रेक्षाऽश्मसखि- संकाशबलपक्षकर्णसुतंगमप्रगदिन्वराहकुमुदादिभ्यः - वुञ्छण् ।ठक॑इत्यन्तमेकं समस्तं पदम् । अरीहणादि त्वपरम् । तत्र प्रथमतः कुमुदान्तानां चतुर्णां द्वन्द्वं विधाय, द्वितीयेन काशादिकुमुदान्तद्वन्द्वेन सह पुनद्र्वन्द्वो बोध्यः । तेन कुमुदशब्दस्य द्विःपाठेऽपि नैकसेषः । आदिशब्दः प्रत्येकं संबध्यत इत्याह -अरीहणादिभ्य इति । पक्षाद्यन्तर्गणसूत्रमाह — पथ इति ।

Prakriyasarvasvam

अण् स्यात् । कृकवाकुकृतं, कार्कवाकवम् । कार्णछिद्रकः कूपः । ओरञि कूपाञि च प्राप्तेऽण् ॥