42078: रोणी

Padacheda: रोणी | S | 1 | 1 | 5

Sutrartha

‘रोणी’ शब्दान्त-प्रातिपदिकानि चतुरर्थेषु ‘अण्’ प्रत्ययम् स्वीकुर्वन्ति ।

अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि (4.2.67), तेन निर्वृत्तम् (4.2.68), तस्य निवासः (4.2.69), तथा अदूरभवश्च (4.2.70) एते चत्वारः अर्थाः ‘चतुरर्थाः’ नाम्ना ज्ञायन्ते । एतेषां विषये ‘रोणी’ शब्दान्त-प्रातिपदिकानि ‘अण्’ प्रत्ययम् स्वीकुर्वन्ति । यथा - 1. रोण्या निर्वृत्तः कूपः = रोणी + अण् → रौणः । 2. अजकरोण्या निर्वृत्तः कूपः = अजकरोणी + अण् → आजकरोणः 3. सिहिकरोण्या निर्वृत्तः कूपः = सिहिकरोणी + अण् → सैहिकरोणः ज्ञातव्यम् - 1. अस्मिन् सूत्रे ‘रोणी’ इति लुप्तपञ्चम्यन्तम् पदमस्ति । येन विधिस्तदन्तस्य (1.1.72) इत्यत्य दत्तेन <!समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः!> अनेन वार्त्तिकेन प्रत्ययविधौ तदन्तविधिः नास्ति एतत् स्पष्टं भवति, अतः ‘रोण्याः’ इति उच्यते चेत् अस्य सूत्रस्य प्रसक्तिः ‘अजकरोणी / सिहिकरोणी’ एतेषाम् विषये न भवेत् । परन्तु अत्र तदन्तविधिः अपि अपेक्षते, अतः अत्र लुप्तविभक्तिकः निर्देशः कृतः अस्ति । अस्मिन् विषये न्यासकारः वदति - ‘ यदि रोण्याः इत्यादिनिर्देशः क्रियेत, तदा ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न (परिभाषा 89) इति केवलात् एव स्यात, न तदन्तात्। रोणी इति शास्त्र-अनपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वम् इह उच्यते, तत् अस्याः परिभाषाया अनपेक्षणात् इह तदन्तात् अपि प्रत्ययः सिद्धो भवति’ ।

Sutrartha (English)

In the context of चतुरर्थाः, the words ending in ‘रोणी’ get the ‘अण्’ प्रत्यय.

Vasu English Summary

The affix अण् comes after राणो in the 4-fold sense.

Vasu English Translation

The affix अण् comes after राणो in the 4-fold sense. This debars अञ् of (4.2.74). This sutra consists of one word रोणी in the nominative case. As a general rule all words to which affixes are to be added are put in the ablative case in these sutras. The fact of this exceptional treatment of the word रोणी indicates that this word takes अण् under all circumstances, whether alone, or forming part of a compound. In fact, the nominative case in this sutra is a very ingenious explanatory artificiality. Thus रौणः, आजकरौणः or सैहिकरौणः

Kashika

रोणीशब्दादण् प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। कूपलक्षणस्याञोऽपवादः। रोणीति कोऽयं निर्देशः, यावता प्रत्ययविधौ पञ्चमी युक्ता? सर्वावस्थप्रतिपत्त्यर्थमेवमुच्यते। रोणीशब्दः सर्वावस्थोऽण्प्रत्ययमुत्पादयति, केवलस्तदन्तश्च। रौणः। आजकरोणः। सैंहिकरोणः॥

Siddhanta Kaumudi

रोणीशब्दात्तदन्ताच्च अण, कूपाञोऽपवादः । रौणः । आजकरोणः ॥

Balamanorama

कोपधाच्च - कोपधाच्च । कार्णच्छिद्रक इति । कर्णच्छिद्रकेण निर्वृत्तः कूप इत्यर्थः । कार्कवाकवमिति । कृकवाकुना निर्वृत्तः कूप इत्यर्थः । ओर्गुणः । आदिवृद्धौ रपरत्वम् । त्रैशङ्कवमिति । त्रिशङ्कुना निर्वृत्तः कूप इत्यर्थः ।

Tattvabodhini

रोणी - रोणी । रोणीशब्दः प्रत्ययमुत्पादयतीत्यर्थः । तथाच फलितमाह — रोणीशब्दादिति । पञ्चम्याः सौत्रो लुगित्यन्ये । तदन्तादिति ।येन विधि॑रिति सूत्रे भाष्यस्थविसेषवचनात्, विशेषणविशेष्ययोः कामचारमाश्रित्यसमासप्रत्ययविधौ प्रतिषेधः॑इत्यस्य प्रत्याख्यानाद्वा तदन्तविरिति भावः ।

Padamanjari

केवलस्तदन्तश्चेति । अन्यथा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्केवलादेव स्यात्, न तदन्तात् । रोणीति पुनः शास्त्रनिरपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिह सच्यत इति परिभाषया अनपेक्षणातदन्तादपि भवति । ननु च रोणीति नेदं प्रातिपदिकम्, स्त्रीप्रत्ययान्तत्वात्; न च’ग्रहणवता प्रातिपदिकेन’ इत्यत्र लिङ्गविशिष्टस्य ग्रहणम्, येन स्त्रीप्रत्ययान्तेनापि तदन्तविधिः प्रतिषिध्येत, स्वरूपविधिविषया परिभाषेयं प्रातिपदिकस्य स्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्युक्तत्वात् ? यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहणं भवतीति भाष्यकारपक्षः, तदाश्रयेणैतदुक्तम् । एवं च वृत्तिकारस्याप्ययमेव पक्षः । ङ्याप्सूत्रेतु परपक्षो दर्शित इति गम्यते । कि सिद्धं भवति ? कुमारीमाचष्टे कुमारयति -‘णाविष्ठवद्’ इति टिलोपः सिद्धो भवति ॥ वुञ्च्छण्कठजिलसेनिरढञ्णययफक्फिञिञ्ञ्यकक्ठकोरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ॥ सूत्रे कुमुदशब्दो द्विरुपादीयते, तत्रारीहणकृशाश्वर्श्यकुमुदाश्च काशतृणादयश्चेति द्वन्द्वयोर्द्वन्द्करणादेकशेषाभावः । कुमुदादिष्विति । ऋश्यादेरनन्तरेषु औत्सर्गिकोऽपि तत्र इष्यत इत्यादि यदुक्तं तदेवाप्तप्रयोगेण द्रढयति - तथा चोक्तमिति ।’लुपियुक्तवद्’ इत्यत्र भाष्यकारणैतदुक्तम् । अथास्मात्प्रयोगाद्विशेषविहितानामेव पक्षे लुब् भवतीति कस्मान्नोच्यते ? तथा वा भवतु; सर्वथा चातूरूप्यमेवात्र नः समीहितम् ॥

Nyaas

कोऽयं निर्देशः`इति। कुत्सितोऽयं निर्देश इत्यर्थः। कुत्सितं तु लक्षणातिक्रान्तत्वात्। तदेव लक्षणातिक्रान्तत्वं दर्शयितुमाह `यावता`इत्यादि। सर्वावस्था च केवलस्य तदन्तस्य च प्रतिपत्तिः प्रकृतत्वेन यथा स्यादित्येवमर्थमुच्यते। यदि `रोण्याः इत्यादिनिर्देशः क्रियेत तदा ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न (व्या।प।89) इति केवलादेव स्यात, न तदन्तात्। रोणीति शास्त्रानपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिहोच्यते, तदस्याः परिभाषाया अनपेक्षणादिह तदन्तापि प्रत्ययः सिद्धो भवति। ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, न चेदं प्रातिपदिकम्; स्त्रीप्रत्ययान्तत्वात्। अथ मतम् - प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति (व्या।प।29) इति प्रातिपदिकस्य तदन्तविधेः प्रतिषिध्यमानः स्त्रीप्रत्ययान्तस्यापि प्रतिषिध्यत इति,एतच्च यत्र हि प्रातिपदिकस्य स्वरूपग्रहणं तद्विषया परिभाषेति प्राग् ज्ञापितमेतत्? एवं तर्हि तस्य ज्ञापनस्य प्रायिकत्वं दर्शयति। तेन क्वचिदस्वरूपग्रहणेऽप्येषा परिभाषा प्रवर्तते। तेन कुमारीमाचष्टे कुमारयतीत्यत्र जातिष्ठवत् प्रातिपदिकस्य (वा।813) इतीष्ठवद्भावः सिद्धो भवति॥

Prakriyasarvasvam

रोणीशब्दात् कूपाञ् बाधकोऽण् । रौणः कूपः । तदन्तादपि । आजरौणः ॥