42078: रोणी =========== **Padacheda:** रोणी | S | 1 | 1 | 5 Sutrartha --------- **'रोणी' शब्दान्त-प्रातिपदिकानि चतुरर्थेषु 'अण्' प्रत्ययम् स्वीकुर्वन्ति ।** अष्टाध्याय्याम् **तदस्मिन्नस्तीति देशे तन्नाम्नि** (4.2.67), **तेन निर्वृत्तम्** (4.2.68), **तस्य निवासः** (4.2.69), तथा **अदूरभवश्च** (4.2.70) एते चत्वारः अर्थाः 'चतुरर्थाः' नाम्ना ज्ञायन्ते । एतेषां विषये 'रोणी' शब्दान्त-प्रातिपदिकानि 'अण्' प्रत्ययम् स्वीकुर्वन्ति । यथा - 1. रोण्या निर्वृत्तः कूपः = रोणी + अण् → रौणः । 2. अजकरोण्या निर्वृत्तः कूपः = अजकरोणी + अण् → आजकरोणः 3. सिहिकरोण्या निर्वृत्तः कूपः = सिहिकरोणी + अण् → सैहिकरोणः ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'रोणी' इति लुप्तपञ्चम्यन्तम् पदमस्ति । **येन विधिस्तदन्तस्य** (1.1.72) इत्यत्य दत्तेन अनेन वार्त्तिकेन प्रत्ययविधौ तदन्तविधिः नास्ति एतत् स्पष्टं भवति, अतः 'रोण्याः' इति उच्यते चेत् अस्य सूत्रस्य प्रसक्तिः 'अजकरोणी / सिहिकरोणी' एतेषाम् विषये न भवेत् । परन्तु अत्र तदन्तविधिः अपि अपेक्षते, अतः अत्र लुप्तविभक्तिकः निर्देशः कृतः अस्ति । अस्मिन् विषये न्यासकारः वदति - ' यदि `रोण्याः` इत्यादिनिर्देशः क्रियेत, तदा **ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न** (परिभाषा 89) इति `केवलात्` एव स्यात, न तदन्तात्। `रोणी` इति शास्त्र-अनपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वम् इह उच्यते, तत् अस्याः परिभाषाया अनपेक्षणात् इह तदन्तात् अपि प्रत्ययः सिद्धो भवति' । Sutrartha (English) ------------------- In the context of चतुरर्थाः, the words ending in 'रोणी' get the 'अण्' प्रत्यय. Vasu English Summary -------------------- The affix अण् comes after राणो in the 4-fold sense. Vasu English Translation ------------------------ The affix अण् comes after राणो in the 4-fold sense. This debars अञ् of (4.2.74). This *sutra* consists of one word रोणी in the nominative case. As a general rule all words to which affixes are to be added are put in the ablative case in these *sutras*. The fact of this exceptional treatment of the word रोणी indicates that this word takes अण् under all circumstances, whether alone, or forming part of a compound. In fact, the nominative case in this *sutra* is a very ingenious explanatory artificiality. Thus रौणः, आजकरौणः or सैहिकरौणः Kashika ------- रोणीशब्दादण् प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। कूपलक्षणस्याञोऽपवादः। रोणीति कोऽयं निर्देशः, यावता प्रत्ययविधौ पञ्चमी युक्ता? सर्वावस्थप्रतिपत्त्यर्थमेवमुच्यते। रोणीशब्दः सर्वावस्थोऽण्प्रत्ययमुत्पादयति, केवलस्तदन्तश्च। रौणः। आजकरोणः। सैंहिकरोणः॥ Siddhanta Kaumudi ----------------- रोणीशब्दात्तदन्ताच्च अण, कूपाञोऽपवादः । रौणः । आजकरोणः ॥ Balamanorama ------------ **कोपधाच्च** - कोपधाच्च । कार्णच्छिद्रक इति । कर्णच्छिद्रकेण निर्वृत्तः कूप इत्यर्थः । कार्कवाकवमिति । कृकवाकुना निर्वृत्तः कूप इत्यर्थः । ओर्गुणः । आदिवृद्धौ रपरत्वम् । त्रैशङ्कवमिति । त्रिशङ्कुना निर्वृत्तः कूप इत्यर्थः । Tattvabodhini ------------- **रोणी** - रोणी । रोणीशब्दः प्रत्ययमुत्पादयतीत्यर्थः । तथाच फलितमाह — रोणीशब्दादिति । पञ्चम्याः सौत्रो लुगित्यन्ये । तदन्तादिति ।येन विधि॑रिति सूत्रे भाष्यस्थविसेषवचनात्, विशेषणविशेष्ययोः कामचारमाश्रित्यसमासप्रत्ययविधौ प्रतिषेधः॑इत्यस्य प्रत्याख्यानाद्वा तदन्तविरिति भावः । Padamanjari ----------- केवलस्तदन्तश्चेति । अन्यथा ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात्केवलादेव स्यात्, न तदन्तात् । रोणीति पुनः शास्त्रनिरपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिह सच्यत इति परिभाषया अनपेक्षणातदन्तादपि भवति । ननु च रोणीति नेदं प्रातिपदिकम्, स्त्रीप्रत्ययान्तत्वात्; न च'ग्रहणवता प्रातिपदिकेन' इत्यत्र लिङ्गविशिष्टस्य ग्रहणम्, येन स्त्रीप्रत्ययान्तेनापि तदन्तविधिः प्रतिषिध्येत, स्वरूपविधिविषया परिभाषेयं प्रातिपदिकस्य स्वरूपग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्युक्तत्वात् ? यथाकथञ्चित्प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य ग्रहणं भवतीति भाष्यकारपक्षः, तदाश्रयेणैतदुक्तम् । एवं च वृत्तिकारस्याप्ययमेव पक्षः । ङ्याप्सूत्रेतु परपक्षो दर्शित इति गम्यते । कि सिद्धं भवति ? कुमारीमाचष्टे कुमारयति -'णाविष्ठवद्' इति टिलोपः सिद्धो भवति ॥ वुञ्च्छण्कठजिलसेनिरढञ्णययफक्फिञिञ्ञ्यकक्ठकोरीहणकृशाश्वर्यकुमुदकाशतृणप्रेक्षाश्मसखिसङ्काशबलपक्षकर्णसुतङ्गमप्रगदिन्वराहकुमुदादिभ्यः ॥ सूत्रे कुमुदशब्दो द्विरुपादीयते, तत्रारीहणकृशाश्वर्श्यकुमुदाश्च काशतृणादयश्चेति द्वन्द्वयोर्द्वन्द्करणादेकशेषाभावः । कुमुदादिष्विति । ऋश्यादेरनन्तरेषु औत्सर्गिकोऽपि तत्र इष्यत इत्यादि यदुक्तं तदेवाप्तप्रयोगेण द्रढयति - तथा चोक्तमिति ।'लुपियुक्तवद्' इत्यत्र भाष्यकारणैतदुक्तम् । अथास्मात्प्रयोगाद्विशेषविहितानामेव पक्षे लुब् भवतीति कस्मान्नोच्यते ? तथा वा भवतु; सर्वथा चातूरूप्यमेवात्र नः समीहितम् ॥ Nyaas ----- `कोऽयं निर्देशः`इति। कुत्सितोऽयं निर्देश इत्यर्थः। कुत्सितं तु लक्षणातिक्रान्तत्वात्। तदेव लक्षणातिक्रान्तत्वं दर्शयितुमाह `यावता`इत्यादि। सर्वावस्था च केवलस्य तदन्तस्य च प्रतिपत्तिः प्रकृतत्वेन यथा स्यादित्येवमर्थमुच्यते। यदि `रोण्याः` इत्यादिनिर्देशः क्रियेत तदा `ग्रहणवता प्रातिपदिकेन तदन्तविधिर्न` (व्या।प।89) इति केवलादेव स्यात, न तदन्तात्। रोणीति शास्त्रानपेक्षेण निर्देशेन शास्त्रनिरपेक्षत्वमिहोच्यते, तदस्याः परिभाषाया अनपेक्षणादिह तदन्तापि प्रत्ययः सिद्धो भवति। ननु च ग्रहणवता प्रातिपदिकेन तदन्तविधिः प्रतिषिध्यते, न चेदं प्रातिपदिकम्; स्त्रीप्रत्ययान्तत्वात्। अथ मतम् - `प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति` (व्या।प।29) इति प्रातिपदिकस्य तदन्तविधेः प्रतिषिध्यमानः स्त्रीप्रत्ययान्तस्यापि प्रतिषिध्यत इति,एतच्च यत्र हि प्रातिपदिकस्य स्वरूपग्रहणं तद्विषया परिभाषेति प्राग् ज्ञापितमेतत्? एवं तर्हि तस्य ज्ञापनस्य प्रायिकत्वं दर्शयति। तेन क्वचिदस्वरूपग्रहणेऽप्येषा परिभाषा प्रवर्तते। तेन कुमारीमाचष्टे कुमारयतीत्यत्र `जातिष्ठवत् प्रातिपदिकस्य` (वा।813) इतीष्ठवद्भावः सिद्धो भवति॥ Prakriyasarvasvam ----------------- रोणीशब्दात् कूपाञ् बाधकोऽण् । रौणः कूपः । तदन्तादपि । आजरौणः ॥