42072: मतोश्च बह्वजङ्गात्

Padacheda: मतोः | S | 5 | 1 |

च | S | 0 | 0 |

बहु-अच्-अङ्गात् | S | 5 | 1 |

Sutrartha

यस्य मतुप्-प्रत्ययान्त-शब्दस्य अङ्गम् ‘बह्वच्’ अस्ति, तस्मात् चतुरर्थेषु अञ्-प्रत्ययः भवति ।

यः शब्दः मतुप्-प्रत्ययान्तः अस्ति, तथा यस्य (मतुप्-प्रत्ययात् पूर्वम् विद्यमाने) अङ्गे त्रयः वा अधिकाः स्वराः सन्ति, तादृशात् शब्दात् चतुरर्थेषु अञ्-प्रत्ययः भवति । यथा - 1. ऐषुकावती अस्मिन् अस्ति सः देशः = ऐषुकावती + अञ् → ऐषुकावतः देशः । अत्र ‘ऐषुकावती’ अस्मिन् शब्दे मतुप्-प्रत्ययान्तमङ्गम् ‘ऐषुका’ इत्यत्र त्रयः स्वराः सन्ति । अतः एतत् अङ्गम् ‘बह्वजङ्गम्’ अस्ति । अतः अत्र औत्सर्गिकमण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः विधीयते । 2. सैध्रकावती अस्मिन् अस्ति सः देशः = सैध्रकावती + अञ् → सैध्रकावतः देशः । यदि अङ्गे एकः स्वरः द्वौ वा स्वरौ स्तः, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - आहिमती अस्मिन् अस्ति सः देशः = आहिमती + अण् → आहिमतः देशः । अत्र औत्सर्गिकः अण्-प्रत्ययः एव विधीयते । स्मर्तव्यम् - 1. अङ्गे विद्यमानस्य ‘अच्’ वर्णस्य गणना यदा क्रियते तदा ‘मतुप्’ प्रत्यये उपस्थिताः अच्-वर्णाः न गण्यन्ते । अतः ‘ऐषुकावती’ इत्यत्र अङ्गे त्रयः अच्-वर्णाः सन्ति । 2. अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि (4.2.67), तेन निर्वृत्तम् (4.2.68), तस्य निवासः (4.2.69), तथा अदूरभवश्च (4.2.70) एते चत्वारः अर्थाः ‘चतुरर्थाः’ नाम्ना ज्ञायन्ते ।

Sutrartha (English)

For the word that ends in a मतुप्-प्रत्यय and has three or more स्वराः in the अङ्ग to which the मतुप्-प्रत्यय is attached, the अञ् प्रत्यय is used in the context of चतुरर्थाः.

Vasu English Summary

The affix अञ् comes in the quadruple sense after a word which ends in the affix मतुप् and whose stem is polysyllabic.

Vasu English Translation

The affix अञ् comes in the quadruple sense after a word which ends in the affix मतुप् and whose stem is polysyllabic. The word बह्वजङ्ग is a compound of बह्वच् meaning literally ‘many vowels’ i. e. polysyllabic, and of अङ्गः meaning stem. A word which, exclusive of the affix मतुप्, consists of more than two syllables, takes the affix अञ् ॥ This debars अण् ॥ Thus ऐषुकावतम्, सैध्रकावतम् ॥

Why do we say “after a polysyllabic stem”? Observe आहिमतम् यावमतम् ॥ Here though the word अहिमत् ends in the affix मतुप्, yet the अङ्ग or the stem viz. अहि, is a word of two syllables only, hence these words take अण् in forming names of countries. In fact, the word बह्वच् qualifies the word अङ्ग, as it stands without the affix मतुप्, and not the word inclusive of that affix. Therefore मालावतां निवासः = मालावतम् by अण् ॥

Bhashya

मतोश्च बह्वजङ्गात् (1493) (पदकृत्यभाष्यम्) अङ्गग्रहणं किमर्थम्? यथा बह्वज्ग्रहणमङ्गविशेषणं विज्ञायेत। बह्वचोङ्गादिति॥ (अङ्गग्रहणस्य फलबोधकं भाष्यम्) अथाक्रियमाणेऽङ्गग्रहणे बह्वज्ग्रहणं कस्य विशेषणं स्यात्? मत्वन्तविशेषणम्। तत्र को दोषः? इहापि प्रसज्येत - मालावतामयं निवासो मालावतम्। अस्ति चेदानीं कश्चिदबह्वज्मत्वन्तो यदर्थो विधिः स्यात्। अस्तीत्याह - श्ववान्, स्ववान्॥

Kashika

बह्वज् अङ्गं यस्यासौ बह्वजङ्गो मतुप्, तदन्तात् प्रातिपदिकादञ् प्रत्ययो भवति चातुरर्थिकः। अणोऽपवादः। ऐषुकावतम्। सैध्रकावतम्। बह्वजङ्गादिति किम्? आहिमतम्। यावमतम्। अङ्गग्रहणं किम् ? बह्वजिति तद्विशेषणं यथा विज्ञायेत, मत्वन्तविशेषणं मा विज्ञायीति। मालावतां निवासो मालावतम्॥

Siddhanta Kaumudi

बह्वच् अङ्गं यस्य मतुपस्तदन्तादञ नाऽण् । सैध्रकावतम् । बह्वजिति किम् । आहिमतम् । अङ्गग्रहणं बह्वजिति तद्विशेषणं यथा स्यान्मत्वन्तविशेषणं माभूत् ॥

Balamanorama

मतोश्च बह्वजङ्गात् - मतोश्च । सैध्रकावतमिति । सिध्रकावानस्मिन्नस्तीत्यादयश्चत्वारोऽर्थाः यथायोगं बोध्याः । आहिमतमिति । अहिमानस्मिन्नस्तीत्यादयोऽर्थाः । अहिशब्दस्य द्व्यच्कत्वादञ्नेति भावः ।

Tattvabodhini

मतोश्च बह्वजङ्गात् - मतोश्च । ननुमतोर्बह्वचः॑इत्यवास्तु, बह्वचो विहितो यो मतुप् तदन्तादिति वैयधिकरण्येन व्याख्यानादिष्टं सिद्ध्यति किमङ्ग ग्रहणेनेत्याशह्क निवारयति -अङ्गग्रहणमिति । मत्वन्तविशेषणमिति । सम्भवति सामानाधिकरण्ये वैयधिकरण्यस्यान्याय्यत्वादङ्गग्रहणाऽभावे मत्वन्तविशेषणं स्यादेव । ततश्चाहिमतमित्यादावतिप्रसङ्गः स्याद्ति भावः ।

Padamanjari

चतुरर्थिक इति । चतुर्णामर्थानां समूहश्चतुरर्थी, तत्र भवः, अध्यात्मादित्वाट्ठञ् । तद्धितार्थे द्विगौ तु ठञो लुक् स्यात् । अङ्गग्रहणं किमिति ।’मतोश्च वह्वचः’ इत्येवास्तु, व्यधिकरणे पञ्चम्यौ, बह्वचो यो विहितो मतुप् तदन्तादिति विज्ञायमाने सिद्ध्यत्येव विवक्षितमिति प्रश्नः । मतुबन्तविशेषणं मा भूदिति । अन्यथा सामानाधिकरण्ये सम्भवति, वैयधिकरण्यस्यायुक्तत्वात् तस्यैव । वशेषणं स्यादिति विभावः । अस्ति चेदिदानीं क्वचिदबह्वञ् मत्वान्तो यदर्थं बह्वज्ग्रहणं स्यात् ? अस्तीत्याह - स्ववान्, श्ववान् ॥

Nyaas

मालवतम् इति। यदि बह्वजिति, न भवत्येव दोषः॥

Prakriyasarvasvam

बह्वच्प्रकृतिको यो मतुप् तदन्तादुक्तार्थेष्वञ् स्यात् । शर्यणावतम् । शर्यणावन्नाम सरः ।।