42071: ओरञ्¶
Padacheda: ओः | S | 5 | 1 |
अञ् | S | 1 | 1 |
Sutrartha¶
चतुरर्थानां विषये उकारान्त-प्रातिपदिकात् अञ्-प्रत्ययः भवति ।
अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि (4.2.67), तेन निर्वृत्तम् (4.2.68), तस्य निवासः (4.2.69), तथा अदूरभवश्च (4.2.70) एते चत्वारः अर्थाः ‘चतुरर्थाः’ नाम्ना ज्ञायन्ते । एतेषाम् सर्वेषाम् विषये उवर्णान्त-प्रातिपदिकात् औत्सर्गिकमण्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः भवति । यथा - 1. अरडवः अस्मिन् देशे सन्ति सः = अरडु + अञ् → आरडवः देशः । 2. पुरुणा निर्वृत्तः देशः = पुरु + अञ् → पौरवः देशः । 3. कक्षतूनाम् निवासः देशः = कक्षतु + अञ् → काक्षतवः देशः । 4. कर्कटेलूनामदूरभवः देशः = कर्कटेलु + अञ् → कार्कटेलवः देशः । ज्ञातव्यम् - 1. अण्-प्रत्ययेन अञ्-प्रत्ययेन च समानमेव रूपं जायते, परन्तु अञ्-प्रत्ययान्तशब्दाः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आद्युदात्ताः सन्ति । 2. चतुरर्थैः नद्याः नाम्नः निर्देशः कर्तव्यः अस्ति चेत् उवर्णान्त-प्रातिपदिकात् नद्यां मतुप् (4.2.85) इत्यनेन मतुप्-प्रत्ययः विधीयते । अयं प्रत्ययः वर्तमानसूत्रेण निर्दिष्टमञ्-प्रत्ययं बाधित्वा आगच्छति ।
Sutrartha (English)¶
The उवर्णान्त प्रातिपदिकs get the प्रत्यय अञ् in the context of चतुरर्थाः.
Vasu English Summary¶
The affix अञ् comes after a stem ending in a उ or ऊ (in the four-fold senses given above).
Vasu English Translation¶
The affix अञ् comes after a stem ending in a उ or ऊ (in the four-fold senses given above). This of course debars the universal affix अण् (4.1.83). Thus आरडवम् from अरडु ‘a tribe of Kshatriyas’; काक्षतवम् from कक्षतु, and कार्कटेलवम् from कर्कटेलू ॥ But from इक्षु we have इक्षुमती ‘the river lkshumati, named after the sugarcanes near it’. Here we add the affix मतुप् taught in the subsequent sutra (4.2.85), which debars अञ् by the rule of a subsequent debarring the prior when both are of equal force (1.4. 2). The affix अञ् governs the six sutras upto (4.2.77). The difference betweenअञ् and अण् consists in the accent.
Bhashya¶
ओरञ्ञ् (1492) (अञ्ञोऽधिकरणम्) (5386 विप्रतिषेधवार्तिकम्॥ 1 .।) - ओरञ्ञ्विधेर्नद्यां मतुब्विप्रतिषिद्धम् - (भाष्यम्) ओरञ्ञ्विधेर्नद्यां मतुब्भवति विप्रतिषेधेन। ओरञ्ञ्विधेरवकाशः - कक्षतु - काक्षतवम्, काकपेलवम्। मतुपोऽवकाशः - उदुम्बरावती, मशकावती। इहोभयं प्राप्नोति - इक्षुमती, द्रुमती। मतुब्भवति विप्रतिषेधेन॥
Kashika¶
चत्वारोऽर्थाः (४.२.६७ — ७०) अनुवर्तन्ते। उवर्णान्तात् प्रातिपदिकाद् यथाविहितं समर्थविभक्तियुक्तादञ् प्रत्ययो भवति तदस्मिन्नस्तीत्येवमादिष्वर्थेषु। अणोऽपवादः। अरडु — आरडवम्। कक्षतु — काक्षतवम्। कर्कटेलु — कार्कटेलवम्। नद्यां तु परत्वाद् मतुब् भवति। इक्षुमती। अञधिकारः प्राक् सुवास्त्वादिभ्योऽणः (४.२.७७)॥
Siddhanta Kaumudi¶
अणोऽपवादः । कक्षतु-काक्षतवम् । नद्यां तु परत्वान्मतुप् । इक्षुमती ॥
Padamanjari¶
अरडुःउक्षत्रियविशेषः । नद्यां तु मतुप्परत्वादिति । आरडवमित्यादिरञोऽवकाशः,’नद्यां मतुप्’ इत्यस्योदुम्बरावतीत्यादिः ॥
Nyaas¶
यथायथम् इति। यथास्वम्। तत्र प्रथमे प्रथमासमर्थविभक्तियुक्तात्। द्वितीये तृतीयासमर्थविभक्तियुक्तात्। तृतीयचतुर्थयोः षष्ठीसमर्थविभक्तियुक्तात्। नद्यास्तु परत्वान्मतुबेव भवति इति। नद्यां मतुप्` (4.2.84) इत्यनेन॥
Prakriyasarvasvam¶
उवर्णान्ताच्चातुरर्थिकोऽञ् स्यात् । अणञोः स्वरे भेदः । क्रुकटेलुशब्दान् कार्कटेलवम् ।