42073: बह्वचः कूपेषु

Padacheda: बहु-अचः | S | 5 | 1 |

कूपेषु | S | 7 | 3 |

Sutrartha

यः शब्दः ‘बह्वच्’ अस्ति, तस्मात् कूपस्य निर्देशं कर्तुम् चतुरर्थेषु अञ्-प्रत्ययः भवति ।

यस्मिन् प्रातिपदिके त्रयः वा अधिकाः स्वराः सन्ति, तत् प्रातिपदिकम् ‘बह्वच्’ इति नाम्ना ज्ञायते । अस्य प्रातिपदिकस्य साहाय्येन कूपस्य निर्देशः कर्तव्यः अस्ति चेत् चतुरर्थेषु अञ्-प्रत्ययः भवति । यथा - 1. दीर्घवरत्रेण निर्वृत्तः कूपः = दीर्घवरत्र + अञ् → दैर्घवरत्रः कूपः । 2. कपिलवरत्रेण निर्वृतः कूपः = कपिलवरत्र + अञ् → कापिलवरत्रः कूपः । स्मर्तव्यम् - अष्टाध्याय्याम् तदस्मिन्नस्तीति देशे तन्नाम्नि (4.2.67) , तेन निर्वृत्तम् (4.2.68), तस्य निवासः (4.2.69), तथा अदूरभवश्च (4.2.70) एते चत्वारः अर्थाः ‘चतुरर्थाः’ नाम्ना ज्ञायन्ते ।

Sutrartha (English)

In the context of चतुरर्थाः, to indicate the name of a well by referring to a word that has three or more स्वराः , अञ् प्रत्यय is used.

Vasu English Summary

The affix अञ् comes in the quadruple sense after a polysyllabic प्रातिपदिक (Nominal Stem) when ‘a well’ is to be designated.

Vasu English Translation

The affix अञ् comes in the quadruple sense after a polysyllabic प्रातिपदिक (Nominal Stem) when ‘a well’ is to be designated. This debars अण्. Thus दीर्घवरत्रेण निर्वृत्तः कूपः = दैर्घवरत्रः “a well completed by Dirghavaratra”. So also कापिलवरत्रः ॥

Kashika

बह्वचः प्रातिपदिकादञ् प्रत्ययो भवति चातुरर्थिकः कूपेष्वभिधेयेषु। अणोऽपवादः। यथासंभवमर्थाः संबध्यन्ते। दीर्घवरत्रेण निर्वृत्तः कूपो दैर्घवरत्रः। कापिलवरत्रः।

Siddhanta Kaumudi

अणोऽपवादः । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ॥

Balamanorama

बह्वचः कूपेषु - बह्वचः कूपेषु । बह्वचः प्रातिपदिकादञ्चतुष्र्वर्थेषु । अणोऽपवादः दीर्घवरत्रेण निर्वृतः कूपः — दैर्घवरत्रः ।

Prakriyasarvasvam

बण्वचः शब्दात् कूपनाम्न्यञ् । दीर्घवरत्रेण निर्वृत्तो दैर्घवरत्रः कूपः ।