42065: सूत्राच्च कोपधात्¶
Padacheda: सूत्रात् | S | 5 | 1 |
च | S | 0 | 0 |
कोपधात् | S | 5 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix denoting denoting ‘who studies or who knows that’ is elided by लुक् after the title of a sūtra work having क् as penultimate.
Vasu English Translation¶
The affix denoting denoting ‘who studies or who knows that’ is elided by लुक् after the title of a sūtra work having क् as penultimate. Thus अष्टकं is the title of Panini sutra. Those who study अष्टकं and will be called also अष्टकः, as अष्टकाः पाणिनीयाः ‘those who study, the Ashtaka’. So also दशका वैयाघ्रपदीयाः, त्रिकाः काशकृत्स्नाः ॥
Vart:- The elision takes place only where the title is formed by a numeral: as in the examples above given. Thus महावार्तिकं सूत्रमधीते = महावार्तिकः, so also कालापकः ॥
Why do we say “having क् for its penultimate”? Observe चतुष्टयमधीते = चातुष्टयः ॥ This sutra applies, of course, to those words which are not formed by affixes denoting प्रोक्त or the Announcer.
Bhashya¶
सूत्राच्च कोपधात् (1486) (सूत्रपूरकभाष्यम्) संख्याप्रकृतेरिति वक्तव्यम्। इह मा भूत् -माहावार्तिकः, चान्दनगन्धिकः, कालापकः॥
Kashika¶
सूत्रवाचिनः। ककारोपधादुत्पन्नस्य प्रत्ययस्य लुग् भवति। अप्रोक्तार्थ आरम्भः। पाणिनीयमष्टकं सूत्रम्, तदधीयते अष्टकाः पाणिनीयाः। दशका वैयाघ्रपदीयाः। त्रिकाः काशकृत्स्नाः॥ संख्याप्रकृतेरिति वक्तव्यम्॥ इह मा भूत् — महावार्तिकं सूत्रमधीते माहावार्तिकः। कालापकमधीते कालापकः। कोपधादिति किम् ? चतुष्टयमधीते चातुष्टयः॥
Siddhanta Kaumudi¶
सूत्रवाचिनः ककारोपधादध्येतृवेदितृप्रत्ययस्य लुक् स्यात् । अप्रोक्तार्थं आरम्भः । अष्टावध्यायाः परिमाणमस्य अष्टकं पाणिनेः सूत्रम् । तदधीते विदन्ति वा अष्टकाः ॥
Balamanorama¶
सूत्राच्च कोपधात् - सूत्राच्च को । ककारोपधादित्यनन्तरंपरस्ये॑ति शेषः । ननुप्रोक्ताल्लु॑गित्येव सिद्धे किमर्थमिदमित्यत आह — अप्रोक्तार्थ आरम्भ इति । अप्रोक्तार्थादपि प्रत्ययात्परस्य लुगर्थमित्यर्थः । अष्टकमिति ।तदस्य परिमाण॑मित्यधिकारेसङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु॑ इतिसङ्ख्याया अतिशदन्तायाः क॑न्निति च सूत्ररूपेऽर्थे कन् । अष्टका इति । अष्टकशब्दाध्येतृवेदितृप्रत्ययस्य नेन लुक्, कोपधात्सूत्रवाचिनः परत्वादिति भावः ।सह्ख्याप्रकृतिकादिति ।सूत्राच्च कोपधा॑दितिलुक्सङ्ख्याप्रकृतिकप्रत्ययान्तादेव परस्य भवतीत्यर्थः । माहावार्तिक इति । महावार्तिकं नाम सूत्रम् । तदधीते वेत्ति वा माहावार्तिकः । अत्र अणो न लुक् ।
Tattvabodhini¶
सूत्राच्च कोपधात् - अष्टकमिति ।सङ्ख्यायाः संज्ञासङ्घसूत्राध्ययनेषु॑इतिसङ्ख्याया अतिशदन्तायाः कन् ।सह्ख्याप्रकृतिकादिति वाच्यम् । सङ्ख्याप्रकृतिकीदिति । सङ्ख्याप्रकृतिकप्रत्ययन्तादित्य्रथः । कालापक इति । कलापि न्शब्दात्प्रोक्तार्थेऽण् ।सब्राहृचारी॑त्युपसङ्ख्यानाट्टिलोपः । ततोऽद्येतर्यण् । तस्यप्रोक्ताल्लु गिति लुक् । कालापानामाम्नाय इत्य्रथेगोत्रचरणाद्वुञ् । ततोऽध्यतृवेदित्रणो न लुक् । स्वरे स्त्रियां च विशेषः ।
Padamanjari¶
अष्टकं सूत्रमिति । अष्टावध्यायाः परिमाणमस्य,’संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु’ इति’संख्याया अतिशदन्तायाः कन्’ । संख्याप्रकृतेरिति वक्तव्यमिति । संख्या प्रकृतिर्यस्य प्रत्ययस्य तदन्तात्कोपधादिति वक्तव्यमित्यर्थः । कालापकमधीते कालापक इति । कलापिना प्रोक्तमेधीयते कालापाः,’कलापिनो’ ण्ऽ,’नान्तस्य टिलोपे सब्रह्मचारि’ इत्यौपसंख्यानिकष्टिलोपः, ततः’तदधीते’ इत्यण्, प्रोक्ताल्लुक् । कालापानामाम्नाय इति’गोत्रचरणाद् वुञ्’ , कालापकम्, ततः’तदधीते’ इत्यण्, तस्य लुग्न भवति । यदि स्याद् ञित्स्वरेणाद्यौदातत्वं स्यात्, लुगभावे त्वण एव स्वरो भवति, स्त्रियां च ङीब् भवति । चतुष्टय इति । चत्वारोऽवयवा अस्य’संख्याया अवयवे तयप्’ ,’ह्रस्वातादौ तद्धिते’ इति मूर्द्धन्यः ॥
Nyaas¶
कोपधादिति वचनात् स्वरूपग्रहणं न भवतीत्यतः सूत्रवाचिनो ग्रहणं विज्ञायत इत्याह - सूत्रवाचिनः प्रतिपादिकात् इति। अष्टकम् इति। अष्टावध्यायाः परिमाणमस्य। तदस्य परिमाणम् (5.1.57) इत्यनुवर्तमाने संख्यायाः संज्ञासंघसूत्राध्ययनेषु (5.1.58) इति च सख्याया अतिशदन्तायाः कन् (5.1.22) इति कन्।संख्याप्रकृतेरिति वक्तव्यम् इति। संख्या प्कृतिर्यस्य प्रत्ययस्य स संख्याप्रकृतिः। तदन्तात् कोपधादुत्पन्नस्य लुब्भवतीत्येतदर्थरूपं वक्तव्यम्, व्याख्येमित्यर्थः। तत्रेदं व्याख्यानम् - वेति वर्तते, सा च व्यवस्थितविभाषा, तेन संख्याप्रकृतेरेव भविष्यति, नान्यस्मादिति।{चातुष्टयः - काशिका, चतुष्टयः-पदमञ्जरी।}चातुष्टयम् इति। चत्वारोऽवयवा अस्येति संख्याया अवयवे तयप् (5.2.42) , ह्रस्वात् तादौ तद्धिते (8.3.101) इति मूर्धन्यः, षत्वं भवति। एतत् संख्याप्रकृतिप्रत्ययान्तम्, न तु कोपधम्, किं तर्हि? योपधम्॥
Prakriyasarvasvam¶
कोपधात् सूत्रवाचकादर्थद्वये प्रत्ययस्य लुक् स्यात् । संख्याकनन्तादेवेष्टम् । अष्टकमिति पाणिनीयं तदधीते इत्यष्टकः ।।